किं तत इत्यत्राह हतेष्वित्यादि । मारीचम् मरीचेरपत्यम् ॥ १।४६।१ ॥
दीर्घेण तपसार्जितम् ॥ १।४६।२ ॥
ईश्वरम् त्रैलोक्यनाथम् । “ईदृशम्” इति पाठान्तरम् । तत्रेदृशमित्यस्यैव विवरणं शक्रहन्तारमिति ॥ १।४६।३,४ ॥
शुचिर्भव । पुत्रोत्पत्तिं यावदिति शेषः ॥ १।४६।५ ॥
पूर्णे वर्षसहस्रे त्विति जनयिष्यसीत्यनेनान्वयः । शुचिर्यदि भविष्यसीति वत्सरसहस्रमपीति शेषः । त्रैलोक्यहन्तारम् तदधिपशक्रहन्तारम् ॥ १।४६।६ ॥
पाणिना सम्ममार्ज । तादृशपुत्रप्रतिबन्धहेतुपापक्षयार्थमिति शेष । अथ तामालभ्य स्पृष्ट्वा “स्वति गर्भम्, भद्रं तवास्तु” इत्युक्त्वा स कश्यपस्तपसे ययावित्यन्वयः ॥ १।४६।७ ॥
कुशप्लवम् विशालाख्यं पूर्वदेशस्थतपोवनम् ॥ १।४६।८ ॥
गुणसम्पदा शुश्रूषोपयोगिगुणसम्पदा ॥ १।४६।९ ॥
तामेव गुणसम्पदमाह अग्निमित्यादि ॥ १।४६।१० ॥
पुत्रत्वाद्गात्रसंवाहनादि । सर्वेषु कालेषु तस्या अशुचित्वप्रतीक्षयेति भावः । ननु तद्धन्तृपुत्रप्रेप्सोर्दितेः कथं तत्परिचर्याङ्गीकार इति चेद्देवमाययैवेति गृहाण ॥ १।४६।११ ॥
दशोने दशभिर्न्यूने ॥ १।४६।१२,१३ ॥
हे पुत्र यं पुत्रमहं त्वत्कृते त्वन्नाशार्थं याचितवती तं तव जयोत्सुकमाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्य इत्यन्वयः । त्रैलोक्यविजयं भ्रातृकृतम् । सह तेन भ्रात्रा सह ॥ १।४६।१४,१५ ॥
दिनेश्वरे सूर्ये मध्यं प्राप्ते सति शय्यायां शीर्षस्थाने पादौ कृत्वा दितिर्निद्रयापहृता । गृहीतेत्यर्थः । अनेन दिवास्वापरूपपापेन शय्यापादस्थाने मस्तककरणेन चाशुचित्वं सूचितम् । केचित्तु उपविष्टाया एव प्रह्वतया पादपर्यन्तं शिरःसम्बन्धेन शीर्षे पादसम्बन्धः । तेन ब्राह्मणस्य शूद्रस्पर्श इव शिरसः पादस्पर्शे ऽशुचित्वं सूचितम् । तपसि स्थितायाः शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः । परे तु भूशयने ऽपि दक्षिणपूर्वदिशोः शिरःस्थापनयोग्यतायाः स्मृतिषूक्तेस्तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्त्येवेत्याहुः ॥ १।४६।१६ ॥
पादयोस्तत्स्थापनदेशे कृतमूर्धजाम् । मूर्ध(ज)सम्बन्धे मूर्धसम्बन्धो ऽपि जात एव, अत एवाशुचिम् । तथा शिरःस्थाने तया पादौ कृतावतस्तामशुचिं दृष्ट्वेत्यर्थः । अत्रैकेनैवोभयलाभ उभयोपादानं स्पष्टार्थम् । वस्तुतो वक्रग्रीवतया वक्रपादतया वा शयने परस्परस्थानव्यत्ययाभावेन तथा अशुचित्वमित्यत्यन्ताशुचित्वप्रतिपादनायोभयोपादानमिति बोध्यम् । मुमोद । प्राप्तच्छिद्रत्वादिति भावः । मोदवशादेव जहास च ॥ १।४६।१७ ॥
शरीरविवरम् योनिविवरम् । आत्मवान्सावधानः ॥ १।४६।१८ ॥
शतपर्वणा शतकोटिना । अबुध्यत । भिद्यमानगर्भस्य रोदनशब्देनेत्यर्थः ॥ १।४६।१९,२० ॥
न हन्तव्यमिति । विभागे ऽपि प्राणवियोजनं मा कुर्वित्यर्थः ॥ १।४६।२१,२२ ॥
तदन्तरम् छिद्रम् । आहवे शक्रस्य मम हन्तारमङ्कुरच्छेदनन्यायेनाभिन्दम् । तन्मे ऽपराधकर्म त्वं क्षन्तुमर्हसि । पूर्वतनीं सेवां स्मृत्वेति शेषः ॥ १।४६।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥