०४५ विशाला-गतिः

अब्रवीत् । रात्र्यन्त इति शेषः ॥ १।४५।१ ॥

पूरणम् । गङ्गयेति शेषः ॥ १।४५।२ ॥

इमां तव कथां त्वदुक्तां कथां चिन्तयतो मम रामस्य रात्रिः क्षणभूतेव संवृत्तातीता । एवमाश्चर्यभूता त्वदुक्ता गङ्गाकथेति भावः ॥ १।४५।३ ॥

विश्वामित्रेति सम्बोधनम् । उक्तस्यैवार्थस्यादरातिशयबोधनाय पुनरुपादानम् ॥ १।४५।४,५ ॥

भगवती गङ्गा कथाश्रवणात्पूज्या ॥ १।४५।६ ॥

सुखास्तीर्णा सुखं शुभमास्तीर्णं यस्यां सा । त्वरितमागता । सर्षेस्तव सेवार्थमित्याशयः ॥ १।४५।७ ॥

कारयामास । नाविकैरिति शेषः ॥ १।४५।८ ॥

सम्पूज्यर्षिगणम् । तत्तीरस्थमिति शेषः ॥ १।४५।९ ॥

विशालां जगाम । पूर्वदृष्टामिति शेषः ॥ १।४५।१० ॥

विशालां परिपप्रच्छ । विशालाविषये प्रश्नं कृतवानित्यर्थः ॥ १।४५।११ ॥

विशालायाम् । सम्प्रति वर्तत इति शेषः ॥ १।४५।१२ ॥

“विशालायाः पुरातनम्” इति पाठः । पुरातनं तत्पुरीनिर्मितेः प्राक्तनं वृत्तान्तम् । “विशालस्य” इति पाठे तन्नगरीनिर्माता राजा विशालो नाम । यद्वा विशालस्य । विशालानगर्यधिष्ठानदेशस्येत्यर्थः ॥ १।४५।१३ ॥

शक्रस्य कथां विशालवैभवप्रतिपादिकां कथां कथयतः सकाशान्मया श्रुताम् । अस्मिन्देशे विशालानगर्यधिष्ठानेदेशे यद्वृत्तं पुरातनं तद्विषयां तत्त्वेन शृण्विति योजना ॥ १।४५।१४ ॥

सुधार्मिका इत्यदितिपुत्रविशेषणम् । आसन्नति शेषः ॥ १।४५।१५ ॥

अमरा मरणरहिताः । विजरा जरारहिताः । निरामया रोगरहिताः ॥ १।४५।१६ ॥

रसममृतरूपं रसायनम् ॥ १।४५।१७ ॥

योक्त्रम् मन्थनरज्जुम् ॥ १।४५।१८ ॥

योक्त्रसर्पो मन्थनरज्जुभूतः सर्पः । वमन्त इति पुंस्त्वमार्षम् । अति अतिशयितं विषम् ॥ १।४५।१९ ॥

उत्पपातेति । तत इत्यादिः । शिलादशनादित्यर्थः । दष्टशिलाखण्डा एव महाविषरूपं भूत्वोत्पपात ॥ १।४५।२०,२१ ॥

प्रभुर्महादेवः । ततो महादेवप्रादुर्भावानन्तरम् ॥ १।४५।२२ ॥

स्मितं कृत्वा । छलेन विषदानात्स्मितम् ॥ १।४५।२३ ॥

यद्यतो भवान्सुराणामग्रतः । तेषां मध्ये श्रेष्ठ इत्यर्थः ॥ १।४५।२४ ॥

सुरश्रेष्ठो विष्णुः ॥ १।४५।२५ ॥

अमृतोपमं यथा भवति तथा सञ्जग्राहेत्यन्वयः । पूर्वं देवेषु मन्थनसहायतया स्थितो ऽपि विषपानानन्तरं तत्पीडया तांस्त्यक्त्वा जगाम । अमृतकुण्डमिति शेषः ॥ १।४५।२६ ॥

मन्थानः पर्वतोत्तमो मन्दरः ॥ १।४५।२७,२८ ॥

कामठम् काच्छपम् ॥ १।४५।२९ ॥

शिश्ये स्थितवान् । जलेशय इत्यादौ स्थित्यर्थस्य शेतेर्दर्शनात् ॥ १।४५।३० ॥

ममन्थ पुरुषोत्तमः । अनेन शक्तिवैचित्र्यं प्रकटीकृतम् ॥ १।४५।३१ ॥

धन्वन्तरिरुदतिष्ठदित्यन्वयः । अप्सरा इत्यार्षम् । उदतिष्ठन्नित्यनुकर्षः ॥ १।४५।३२ ॥

अप्सु क्षीररूपासु । तस्मात् । क्षीरोदसारभूतादित्यर्थः ॥ १।४५।३३ ॥

षष्टिः कोट्यः षष्टिकोटिसङ्ख्याः प्रधाना अप्सरसामभवन् । अपरिमितपरिचारिकोपेताः षष्टिकोट्यप्सरसो जाता इत्यर्थः ॥ १।४५।३४ ॥

ता उक्ताप्सरसो न प्रतिगृह्णन्ति ममैवेमा नान्यस्येति नाङ्गीकुर्वन्ति । सर्वे देवा दानवाश्चेत्यर्थः । तासां विशिष्य पत्यनिच्छयैव सम्मुग्धाकारतया स्थितत्वात्तासां विशिष्य प्रतिग्रहाभावः । अत एव तासां साधारण्यम् ॥ १।४५।३५ ॥

वारुणी सुराधिदेवता । पिरग्रहम् केनचिदसाधारण्येनाङ्गीकारम् ॥ १।४५।३६ ॥

अदितिसुताङ्गीकारे हेतुरनिन्दितामिति । निषेधशास्त्रं तु मानुषविषयम् । शास्त्रे देवतानामनधिकारात् ॥ १।४५।३७ ॥

असुराः सुरापरिग्रहराहित्यात् । सुराः सुरापरिग्रहसत्त्वात् ॥ १।४५।३८,३९ ॥

तस्यामृतस्य कृते ग्रहणनिमित्तम् ॥ १।४५।४० ॥

कलहप्रवृत्त्यनन्तरमसुरा राक्षसैः सहैकतामगमन् । बलसिद्ध्यर्थमिति शेषः । वीरेति सम्बुद्धिः । “परम्” इति क्वचित्पाठः ॥ १।४५।४१ ॥

सर्वं परस्परप्रहारेण देवासुरात्मकम् । क्षयं गतम् क्षयप्रायं गतम् । तदा दैत्या राक्षसैरेकत्वेन बलवत्त्वान्मा हरन्त्विति बुद्ध्या मोहिनीं काममोहजननीं मायां मायातनुमास्थाय तूर्णं शीघ्रममृतमहरत् ॥ १।४५।४२ ॥

गताभिमुखमिति सन्धिरार्षः । ये सुरा असुरा वा मायामूर्त्या गृहीतामृतं विष्णुममृतजिघृक्षयाभिमुखं गताः प्राप्तास्ते सर्वे मूर्त्यन्तरास्थानेन प्रभविष्णुना विष्णुना युद्धे सम्पिष्टाः ॥ १।४५।४३ ॥

दितेः पुत्रान्निजघ्निरे । धार्मिकत्वाद्विष्ण्वनुग्रहाच्च । दैतेयादित्ययोः असुरसुरवर्गयोः ॥ १।४५।४४ ॥

तुश्चार्थे राज्यमित्यनन्तरं योज्यः । राज्यममृतं च प्राप्येत्यर्थः ॥ १।४५।४५ ॥

अत्र “ममन्थुरमितौजसः” इति श्लोकानन्तरम् “अथवर्ष” इत्यादि “आयुर्वेदमयः पुमान्” इत्यन्तत्रयोदशश्लोकाः प्रक्षिप्ताः" इति बहवः । अमृतदानराहुशिरश्छेदाद्यवर्णनवद्धालाहलोत्पत्त्याद्यवर्णनमिति तदाशयः ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥