०४४ सगर-पुत्र-स्वर्गतिः

उक्तमेव विस्तरेणाह स गत्वेति । भस्मसात्कृताः कार्त्स्न्येन भस्मकृताः । भूमेस्तलं पातालम् ॥ १।४४।१,२ ॥

तारिताः प्रेतत्वात् । देववत्स्वर्गं प्राप्ताश्च । अनेन प्रेतत्वविमुक्तिस्वर्गप्राप्ती । भस्मनो ऽपि गङ्गास्पर्शस्य फलं किमुतास्थिपुद्गलादेरित्युक्तम् ॥ १।४४।३ ॥

यावत्सागरस्य जलं स्थास्यति तावद्दिवि स्थास्यन्तीत्यर्थः । तन्निमित्तमपि तया गङ्गया तत्खातस्य सागरस्य पूरणमिति भावः ॥ १।४४।४,५ ॥

तत्कृतनामादिविश्रुतत्वमेव दर्शयति गङ्गेत्यादि । त्रिपथगेति नाम्नो ऽन्वर्थत्वं दर्शयति त्रीनित्यादि । अनेन कथं गङ्गा त्रिपथगेत्यस्योत्तरं संवृत्तम् ॥ १।४४।६ ॥

कुरुष्वेति । गङ्गाजलसेकतो जातप्रायश्चित्तत्वात्सलिलदानयोग्यतासम्पत्तेः । प्रतिज्ञाम् गङ्गासलिलप्रदानेन सागरांस्तारये इत्येवंरूपां गरुत्मदुपदिष्टाम् । अपवर्जय । समाप्तां कुर्वित्यर्थः ॥ १।४४।७ ॥

पूर्वकेण सगरेण । एष गङ्गालाभरूपः । पूर्वकेणेति कप्रत्ययेनैषैव कुत्सा द्योत्यते ॥ १।४४।८ ॥

गङ्गां नेतुं भूलोकं प्रापयितुं प्रार्थयता प्रतिज्ञा नापवर्जिता न फलपर्यवसायिनी कृता ॥ १।४४।९ ॥

मत्तुल्येति । ब्रह्मतुल्येत्यर्थः ॥ १।४४।१० ॥

गङ्गां नेतुं प्रार्थयता सा गङ्गा नेतुं न शकितेत्यर्थः । यत्तु गङ्गामानेतुं न शङ्किता न विचारिता । प्रतिज्ञेति शेषः । चिन्ताविषयमपि न प्रापितेत्यर्थ इति, तत्प्रार्थयतेति पदस्वरसविरोधाच्चिन्त्यम् ॥ १।४४।११ ॥

समतिक्रान्ता निस्तीर्णा । परमसम्मतं परममुत्कृष्टं च तत्सम्मतम् । सर्वलोकसम्मतमित्यर्थः ॥ १।४४।१२ ॥

धर्मस्यायतनम् धर्मप्राप्यस्थानम् । महद्ब्रह्मलोकरूपम् ॥ १।४४।१३ ॥

यथास्या ब्रह्मलोकप्रापकत्वं तदाह प्लावयस्वेति । आत्मानम् स्वदेहम् । सदोचिते सिंहकर्कटमध्ये ऽपि स्नानादिव्यवहारोचिते । भूप्रवाहनदीनामेव तत्काले भौमत्वमूलरजःसम्बन्धात्स्नानाद्यनर्हत्वम् । पुण्यफल इति मत्वर्थीयाजन्तो बहुव्रीहिर्वा । अनेन स्नानमात्रेण गङ्गा ब्रह्मलोकप्राप्तिकरीति सूचितम् ॥ १।४४।१४ ॥

सागाराणां जातप्रायश्चित्तत्वसन्देहापनुत्तये गङ्गाजलसम्बन्धस्य सर्वपापप्रायश्चित्तत्वबोधनाय च पुनस्तेषां सलिलं कार्यमित्याह पितामहानामित्यादि । स्वं लोकम् ब्रह्मलोकम् । गम्यताम् । कृतोदकक्रियेण स्वपुरमिति शेषः । अयं नियोगो राजधर्मपरिपालनाय ॥ १।४४।१५ ॥

यथा आगतमिति च्छेदः । देवलोकम् ब्रह्मलोकम् ॥ १।४४।१६ ॥

यथाक्रमम् ज्येष्ठक्रमेण । यथान्यायम् स्मृत्युक्तक्रमेण । उत्तममुत्तमलोकप्रापकम् ॥ १।४४।१७ ॥

कृतोदक इति । अन्येषामपीति शेषः ॥ १।४४।१८ ॥

नष्टशोको नष्टतद्वियोगजशोकः । विगतज्वरः कथमस्मत्पालनं भविष्यतीति विगतचिन्तः ॥ १।४४।१९ ॥

उपसंहरति एष इति । स्वस्तिभद्रयोः तत्प्रीत्यादरसूचनार्थं ग्रहणम् ॥ १।४४।२० ॥

आख्यानश्रवणफलसाह धन्यमित्यादि ॥ १।४४।२१२३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥