देवदेवे आजानजानामपि देवानां देवे पूज्ये । अङ्गुष्ठाग्रेण निपीडिताम् । समुपासतेत्यार्षं बहुवचनम् । समुपास्तेत्यर्थः । उमापतिमिति शेषः ॥ १।४३।१३ ॥
तदा सेति । ईश्वरेण धारणाङ्गीकारे कृते गर्वादित्यर्थः ॥ १।४३।४ ॥
शिवे शोभने । तादृशरूपकरणे हेतुमाह अचिन्तयदित्यादि ॥ १।४३।५ ॥
तस्यावलेपनमिति सन्धिरार्षः । अवलेपनं स्वस्यापि स्रोतसाभिभवनचिन्तारूपं गर्वम् ॥ १।४३।६ ॥
तिरोभावयितुम् जटामण्डले तिरोधानेनाभिभूतां कर्तुम् ॥ १।४३।७ ॥
जटामण्डलेन गह्वरे दुष्प्रवेशे । निर्गमे यत्नमास्थितापि महीं गन्तुं नाशक्नोदित्यन्वयः ॥ १।४३।८ ॥
नैवेति । जटामण्डलं भ्रान्त्वा प्रान्तमागताप्यन्ततस्तत्प्रान्तभागतो ऽपि । निर्गमं न लेभे । प्रान्तभागे ऽपि तन्मध्यत्वभ्रमस्य मायया भगवतोत्पादनात् । यद्यपि ब्रह्मैव मायया गङ्गाजलरूपमिति पुराणेतिहासादिषु प्रसिद्धम्, तस्य चाहं ममेत्यभिमानहीनस्यायमहङ्कारः, शिवस्य च तादृशस्य तत्पराभावाहङ्करो ऽत्यन्तमनुचितस्तथा तादृश्या गङ्गायाः प्रान्तभागे मध्यत्वभ्रमो ऽप्यत्यन्तमनुचितः, अत एवोक्तमन्यत्र “परमात्मा शिवो ह्यन्यस्तस्मादन्या च जाह्नवी । इति यः सेवते गङ्गां न स मोक्षस्य भाजनम् ॥ " इति, तथापि लीलामात्रत्वाददोषः। शिवविष्ण्वोः परस्परमुपास्योपासकभाववदिति बोध्यम्। तर्हि किं कृतवती तत्राह तत्रैवेति। अबभ्रमत्। आर्षत्वात्सन्वदित्वं न ॥
१।४३।९ ॥
अथ तां जटाटवीतिरोहितां गङ्गां भगीरथो ऽपश्यत् । पुनश्च तत्र तत्प्राप्तिविषये हरमुद्दिश्य परमं तप आस्थितः । स हरः । तेन तपसा ॥ १।४३।१० ॥
ततस्तुष्टः सन्हरो बिन्दुसरः प्रति हिमवत्स्थितब्रह्मनिर्मितसरोविशेषं प्रति गङ्गां विससर्जेत्यन्वयः ॥ १।४३।१११३ ॥
एतेन भगीरथतपोहेतुकं त्रिपथगमनमुक्तम् । अथ चरितप्रश्नोत्तरमाह भगीरथो ऽपीति ॥ १।४३।१४ ॥
अनुव्रजदित्यडभाव आर्षः ॥ १।४३।१५ ॥
तीव्रशब्दपुरस्कृतमित्यत्र हेतुर्गगनादित्यादिनोक्तः । शिंशुमारः कप्याकारो जलचरविशेषः ॥ १।४३।१६,१७ ॥
गगनाद्गां गताम् । रुद्रजटासकासाद्भुवमित्यर्थः । विमानैरित्यादेश्चरन्त इति शेषः ॥ १।४३।१८ ॥
पारिप्लवगताः “सम्भ्रमं गताः सम्भ्रमं प्राप्ता इत्यर्थः” इत्येके । पारिप्लवो यानभेदः शिबिकादिरूपः । “शिबिकादियानस्था इत्यर्थः” इत्यन्ये ॥ १।४३।१९ ॥
देवगणा वस्वादयः । सम्पतद्भिरागच्छद्भिः ॥ १।४३।२० ॥
तन्मूलिकामुपमामाह शतादित्यमिवेति ॥ १।४३।२१ ॥
विक्षिप्तैर्निःसृतैः । विद्युच्छब्दः पुल्लिङ्गो ऽप्येतत्प्रामाण्यात् । सलिलोत्पीडैः फैनैः सहस्रधाकरणं वाय्वाद्युपाधित आकाशमभवत् । व्याप्तमिति शेषः ॥ १।४३।२२ ॥
शारदाभ्रैरिव हंससम्प्लवैर्हंससमूहैः सङ्कीर्णं गगनमभवदिति पूर्वेणान्वयः । आयतम् विस्तृतप्रवाहम् ॥ १।४३।२३ ॥
विनतमगाधदेशे सङ्कुचितम् । उद्धूतम् पाषाणादियोगात् ॥ १।४३।२४ ॥
मुहुरिति । ऊर्ध्वपथगमने सलिलयोरभ्याघातो निमित्तम् । शङ्करशिरसि भ्रष्टम् ॥ १।४३।२५ ॥
निर्मलम् । नैर्मल्ये प्रागुक्तभ्रंशद्वयं हेतुः । गतकल्मषम् स्वजलस्पर्शवतां प्राणिनां नाशितपापम् ॥ १।४३।२६ ॥
भवाङ्गम् शिवमूर्धा । पस्पृशुः सस्नुः । न केवलं पापसंहारमात्रं गङ्गायाः कृत्यम्, अपि तु पुण्यलोकप्रापणमपीत्याह शापादित्यादि । गगनादुच्चस्थानात् ॥ १।४३।२७ ॥
गतकल्मषा मुक्तशापाः । अनेन ब्रह्मशापपरिहारो ऽपि गङ्गास्नानफलमिति कृतपापानां तज्जलस्पर्शे तत्पापनाशपूर्वकं स्वर्गप्राप्तिः कैमुतिकन्यायेनैव सिद्धेति बोध्यम् ॥ १।४३।२८ ॥
मुदितो दर्शनमात्रेण । मुमुदे स्नानपानादिना ॥ १।४३।२९३१ ॥
भगीरथरथानुगाः सन्तो गङ्गामन्वगमन्नित्यन्वयः ॥ १।४३।३२ ॥
यतो येन मार्गेण ॥ १।४३।३३ ॥
अद्भुतकर्मणः । वक्ष्यमाणगङ्गोपसंहाराभिप्रायमेतत् ॥ १।४३।३४ ॥
तस्यावलेपनम् तस्या अवलेपनम् । गर्वमित्यर्थः ॥ १।४३।३५ ॥
अपिबत् । अगस्त्यः समुद्रजलमिव योगशक्त्येति भावः । परमाद्भुतं तदभवत् । लोकस्येति शेषः ॥ १।४३।३६ ॥
पूजयन्ति । स्तोत्रादिनेति शेषः । “अनुनयन्ति” इति पाठे शैलराजदुहितुः कथमन्यदुहितृत्वमिति विमतिवारणाय गङ्गानुनयः ॥ १।४३।३७ ॥
तुष्टो गङ्गायाः स्वदुहितृत्वप्रापणात् । तस्माद्यतः पीतां पुनरसृजत्तस्मादित्यर्थः ॥ १।४३।३८ ॥
सागरं सगरसुतखातं सम्प्राप्ता । तत्पूरणायेति शेषः । क्षारत्वं तु तस्यागस्त्येन पानोत्तरमित्यन्यत्र स्फुटम् ॥ १।४३।३९ ॥
तस्य कर्मणः सिद्ध्यर्थम् भगीरथस्य स्ववंशोद्धारकर्मणः । यत्नतः प्रागुक्तयत्नैः ॥ १।४३।४० ॥
भस्मसात्कृतान्कपिलकोपाग्निना भस्मभावं प्राप्तान् । प्लावयत्सेचयति स्म । अत एव पूतपाप्मानः ॥ १।४३।४१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥