कालधर्मो मृत्युः । प्रकृतीजना अमात्यवर्गाः । दीर्घश्छान्दसः । रोचयामासुर्न्यायप्राप्तत्वादेवैच्छत् ॥ १।४२।१,२ ॥
दिलीपम् दिलीपाय । तपस्तपे । पितृगतये गङ्गाया भूलोकावतारणायेति शेषः ॥ १।४२।३,४ ॥
पैतामहं वधम् पितामहानां सागराणामपमृत्युम् ॥ १।४२।५ ॥
निश्चयानधिगमनमभिनयति कथमिति ॥ १।४२।६ ॥
धर्मेण विदितेति । धर्मेण प्रसिद्ध इत्यर्थः ॥ १।४२।७ ॥
अकारयत्कृतवान् ॥ १।४२।८ ॥
व्याधिना पितृ़णामुद्धरणालाभजन्यदुःखजेन । तद्दिलीपवंशजो रघुपुत्रको दिलीपः कालिदासोक्तो ऽन्य एवेति बोध्यम् ॥ १।४२।९,१० ॥
स च प्रजा इत्यस्य मन्त्रिष्वाधायेत्युत्तरेणान्वयः ॥ १।४२।११ ॥
प्रजास्तद्राज्यं च मन्त्रिष्वाधाय गङ्गावतरणेच्छुस्तप आतिष्ठत् । गोकर्णो हिमवत्पादविशेषः । दक्षिणदिक्स्थतीर्थविशेषो वा ॥ १।४२।१२ ॥
पञ्चतपाः पञ्चाग्निमध्ये तपो यस्य । मासाहारो मासे गते आहारो यस्य । वर्षसहस्राण्यतीतानीत्यन्वयः ॥ १।४२।१३ ॥
तस्य राज्ञः सुप्रीत इत्यन्वयः ॥ १।४२।१४,१५ ॥
तपसा चेति । चस्त्वर्थे ॥ १।४२।१६,१७ ॥
यद्यस्तीत्याद्यसन्दिग्धे सन्दिग्धवचनम् । वेदाश्चेत्प्रमाणं स्युरितिवत् । सलिलं स्पर्शमात्रेण स्वर्गतिसाधनं सलिलम् ॥ १।४२।१८ ॥
अभीष्टोक्तगुणकसलिलप्राप्तिं दर्शयति गङ्गाया इति । एषां भस्मनि गङ्गायाः सलिलेन क्लिन्ने सति एते ऽत्यन्तमक्षय्यं यथा भवति तथा स्वर्गं गच्छेयुः । नान्यथेत्यर्थः ॥ १।४२।१९ ॥
इक्ष्वाकूणां कुले जातस्य मम सन्ततिर्देया । यथा नः कुलं नावसीदेत् । सन्तत्यै इति चतुर्थी प्रथमार्थे । एष परो वरः । द्वितीयवर इत्यर्थः । परे तु सन्तत्यै तदर्थं नः कुलं नावसीदेदिति च याचे । मत्कुले ऽसन्ततिः को ऽपि मा भूदित्यर्थः । उपसंहरति इक्ष्वाकूणामिति । तत्कुले जातस्यैष एव परो वरो ऽस्तु । नातो ऽधिकं तृतीयं वरान्तरं याचे इत्यर्थः । एतेन पूर्वपरोपकारिता भगीरथस्य दर्शितेत्याहुः ॥ १।४२।२०,२१ ॥
मनोरथः । तावक इति शेषः ॥ १।४२।२२ ॥
स्वसमीपे स्थितत्वादियमिति निर्देशः ॥ १।४२।२३ ॥
हरनियोगहेतुमाह गङ्गाया इति । ताम् गङ्गाम् ॥ १।४२।२४ ॥
गङ्गामाभाष्य राजानां यथाकालमनुगृहाणेत्युक्त्वा । देवैराजानजैः । मरुद्गणैः कर्मदेवैः ॥ १।४२।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥