०४१ सगर-यज्ञ-समाप्तिः

चिरगतान् । अप्रत्यागच्छत इति शेषः । नप्तारम् पौत्रम् ॥ १।४१।१ ॥

पूर्वैः पितृभिः । गतिम् वृत्तान्तम् । येन चाश्वो ऽपवाहितो देशान्तरं प्रापितस्तद्गतिं चान्विच्छान्वेषय ॥ १।४१।२ ॥

अन्तर्भौमानि भूमेरन्तर्जातानि । सत्त्वानि प्राणिनः ॥ १।४१।३ ॥

अभिवाद्यान्नमस्कारार्हान् । मम यज्ञस्य पारगः पारप्रापकश्च भवेत्यर्थः ॥ १।४१।४,५ ॥

पितृभिः खातं भूमेरन्तर्विद्यमानं मार्गं पितृवृत्तान्तपरिज्ञानाय प्रापद्यत प्राप्तः ॥ १।४१।६,७ ॥

निरामयम् कुशलम् ॥ १।४१।८ ॥

आसमञ्ज असमञ्जपुत्र इति सम्बोधनम् । इञभाव आर्षः ॥ १।४१।९,१० ॥

वाक्यम् वक्तुमर्हम् । कालदेशोचितवक्तव्यतत्त्वज्ञैः तदुचितवचनसमर्थैश्चेत्यर्थः । द्वितीयवाक्ये कृत्यः । सहय आगन्तासीत्यभिचोदितश्च बोधितश्च ॥ १।४१।११ ॥

यत्र पितरः सागरा भस्मराशीकृतास्तत्र देशे जगामेत्यन्वयः ॥ १।४१।१२ ॥

चुक्रोश । भस्मीभूतपितृ़निति शेषः ॥ १।४१।१३१५ ॥

विसार्य । समन्तात्प्रसार्येत्यर्थः । निपुणाम् दूरविवेचनसमर्थाम् । पितृ़णां मातुलम् । सुपर्णभगिनी सुमतिरिति प्रागुक्तत्वात् । अनिलोपमम् वेगेन वायूपमम् ॥ १।४१।१६ ॥

लोकसम्मतो लोकहित एतन्मूलकतया सर्वलोकहितगङ्गाया भूलोके ऽवतारणात् ॥ १।४१।१७ ॥

हि यस्मात्कपिलेन दग्धाः । यतश्च महाबला महाबलवत्त्वेन प्रायश्चित्तमर्यादातिक्रान्तपापवन्तः, अतो लौकिकं सलिलं दातुं नार्हसि । “चण्डालादुदकात्सर्पाद्वैद्युताद्ब्राह्मणादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ उदकं पिण्डदानं च न तेषां तु विधीयते” इति स्मृतेः । प्रकृते ब्राह्मणाद्वधो महापापित्वं च ॥ १।४१।१८,१९ ॥

तर्हि देवलोकं गत्वा गङ्गोदकेन क्रिया कार्या । नेत्याह भस्मेति । यदा प्लावयेत्तदा गङ्गाया क्लिन्नं सिक्तमिदं भस्म हे पुत्र, षष्टिं सहस्राणि सागरान्स्वर्गलोकं गमिष्यति । प्रापयिष्यतीत्यर्थः । “नयिष्यति” इति पाठे नेष्यतीत्यर्थः । अनेन सगरपुत्राणां मन्वाद्युक्तप्रायश्चित्ताविषयत्वं सूचितम् । तत्प्रायश्चित्तविषयाणामपि पापिनां पुद्गलस्य गङ्गाजलस्पर्शः सर्वपापप्रायश्चित्तमिति सूचितम् । अकृतप्रायश्चित्तानामपि महापातकिनामौर्ध्वदेहिकायोग्यानां गङ्गाजलस्पृष्टपुद्गलानां विनापि प्रायश्चित्तान्तरं तत्काल एव सकलौर्ध्वदेहिकक्रियायोग्यत्वं च सूचितम् ॥ १।४१।२० ॥

अश्वं गृहीत्वा निर्गच्छ । निर्वर्तयितुम् समापयितुम् ॥ १।४१।२१,२२ ॥

वृत्तं पितृव्यवृत्तं तथा सुपर्णवचनं च यथा तथा न्यवेदयत् ॥ १।४१।२३,२४ ॥

इष्टयज्ञ इति बहुव्रीहिः । आगमे भूमावागमे । निश्चयमुपायविषयम् । नाध्यगच्छतेति तङार्षः ॥

१।४१।२५,२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥