कृतान्तबलमोहितान्कृतः सर्वलोकस्यान्तो नाशो यैस्तादृशानि यानि बलानि सगरसुतबलानि तैर्मोहितान्मूर्च्छितचित्तान् ॥ १।४०।१ ॥
एषा वसुधा ॥ १।४०।२ ॥
धारयति । योगबलेनेति शेषः ॥ १।४०।३ ॥
पृथिव्या विभेदश्च सनातनः प्रतिकल्पमवश्यं भाव्यः श्रौतस्मार्तसागरादिशब्दैर्दृष्ट एव । अतस्तत्र न शोकः कार्य इति भावः । एवं दीर्घदर्शिनां दीर्घदर्शिभिः सगरपुत्रविनाशो ऽयं दृष्ट एव । अतस्तत्रापि शोको ऽनुचितः । शेषे षष्ठी । यद्वा अदीर्घदर्शिनामितिच्छेदः ॥ १।४०।४ ॥
त्रयस्त्रिंशत् अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, अश्विनौ च ॥ १।४०।५ ॥
निर्घातसमनिःस्वनः । निर्घातनिःस्वनसदृश इत्यर्थः ॥ १।४०।६ ॥
“ततो भित्त्वा” इति पाठः ॥ १।४०।७ ॥
सत्त्ववन्तो बलवन्तः ॥ १।४०।८ ॥
ते ऽस्मासु परमनुग्रहबुद्धिरस्तु । वयं किं करिष्याम । सलोपश्चान्दसः । बुद्धिरुपायः ॥ १।४०।९,१० ॥
भूयो विभेद्येत्यन्वयः । कृतार्थाश्च कृतार्थाश्चेत्तदा निवर्तत । निवर्तध्वमित्यर्थे आर्षमेतत् । अन्यथा न निवृत्तिरित्यर्थः ॥ १।४०।११,१२ ॥
खन्यमान इति । षष्टियोजनसहस्रपरमपीति शेषः । दिशा इत्याबन्तम् ॥ १।४०।१३ ॥
कृत्स्नाम् । तदेकप्रदेशाच्छिन्नामिति शेषः ॥ १।४०।१४ ॥
यदा पर्वणि यस्मिन्काले यस्मिन्क्षणे । “तिथिभेदे क्षणे पर्व” इत्यमरः ॥ १।४०।१५ ॥
मानयन्तः । दिग्गजमिति शेषः । हिस्त्वर्थे ॥ १।४०।१६१८ ॥
प्रदक्षिणं कृत्वा दिग्गजमिति शेषः ॥ १।४०।१९,२० ॥
निरामयम् कुशलम् । सोमवतीमुदीचीम् ॥ १।४०।२१ ॥
भद्रम् भद्राख्यम् ॥ १।४०।२२ ॥
समालभ्य स्पृष्ट्वा ॥ १।४०।२३ ॥
प्रागुत्तरामैशानीम् । प्रथिताम् सर्वकर्मार्हत्वेन प्रसिद्धाम् ॥ १।४०।२४ ॥
कपिलम् कपिलरूपधारिणम् ॥ १।४०।२५ ॥
तस्य कपिलस्य ॥ १।४०।२६ ॥
तम् कपिलम् । हन्तीति हनः । पचाद्यच् । अविचारतस्तमेवाश्वापहारद्वारा यज्ञहन्तारं ज्ञात्वेत्यर्थः ॥ १।४०।२७३० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥