कथान्ते । यज्ञोपक्रमकथान्त इत्यर्थः ॥ १।३९।१ ॥
इमाम् यज्ञसम्बन्धिनीम् ॥ १।३९।२ ॥
प्रहसन्निव विकसितवदनः । स्वपूर्वजवृत्तान्ततया श्रवणकौतुकेन रामभद्रस्यायं प्रश्नः । अत एव मुनेर्हासः । स्ववंश्य इति रामस्यापि लोकवत्स्नेहः सम्पन्न इति ॥ १।३९।३ ॥
सगरस्य । सगरयज्ञस्येत्यर्थः ॥ १।३९।४ ॥
मध्ये महापर्वतविरोधाभावाद्विन्ध्यपर्वतं हिमवांस्तथा विन्ध्यो ऽपि हिमन्तमित्येवं परस्परमासाद्योच्चत्वेन साम्यं प्राप्य । औन्नत्यातिशयेन वीक्षानिरोधकाभावात् । परस्परं निरीक्षेते । पश्यत इत्यर्थः । तयोर्मध्ये आर्यावर्तभूमौ । “आर्यवर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः” इति वचनात् ॥ १।३९।५ ॥
प्रशस्तः प्रशस्तत्वेन प्रसिद्धः । उक्तवचनादश्वचर्यारक्षार्थमश्वानुगमनम् ॥ १।३९।६ ॥
मते शासने । पर्वण्युक्थ्याहे । अश्वमेधे उक्थ्यसंस्थात्रयम् । तत्र द्वितीये ऽश्वालम्भनदिवसे ऽश्वविशसनात्प्राक् । तम् यज्ञम् । विहन्तुमिति शेषः ॥ १।३९।७ ॥
यज्ञियाश्वम् यज्ञार्हमश्वम् ॥ १।३९।८ ॥
अयं यज्ञियो ऽश्वः पर्वणि वेगेनापनीयते ऽपह्रियते ॥ १।३९।९ ॥
अतो हर्तारमश्वहर्तारं जहि । अश्वश्च शीघ्रमुपनीयताम् । यज्ञच्छिद्रम् यज्ञस्य विघ्नः ॥ १।३९।१० ॥
अच्छिद्र इतिच्छेदः । यथा यज्ञो ऽच्छिद्रो भवेदित्यन्वयः । सोपाध्यायवच उपाध्यायसहितर्त्विग्गणवचः ॥ १।३९।११ ॥
भो पुरुषर्षभाः पुत्रकाः मन्त्रपूतैर्महाभागैर्यद्यपि महाक्रतुरास्थितो ऽधिष्ठितः । तथापि रक्षसां मायया यदि च्छिद्रं स्यात्तदात्मनो गतिं न पश्यामि । तस्माद्गच्छथ । “विचिन्वध्वमन्वेषयतेत्यर्थः” इति केचित् । परे तु “आस्थितो हि” इति पाठः । हि यस्मादीदृशैर्महाभागैरास्थितो ऽयं क्रतुः, अतो ऽत्र क्रतौ रक्षसां गतिं न पश्यामि । तत्तस्मात्केनापि देवेन हृत इति तमन्वेषयतेत्यर्थः" इत्याहुः ॥ १।३९।१२,१३ ॥
अनुगच्छथान्वेषयत । थस्य तादेशाभाव आर्षत्वात् ॥ १।३९।१४ ॥
यदि भूमौ न लभ्यते तदाह यावत्तुरगेत्यादि ॥ १।३९।१५ ॥
स्वस्य तुरगानुगमनमयुक्तमित्याह दीक्षित इत्यादि । तस्य प्रवासनिषेधात्पौत्रस्य बालकत्वाच्चेति भावः ॥ १।३९।१६ ॥
यन्त्रिता नियुक्ताः ॥ १।३९।१७ ॥
आयामो दैर्ध्यम्, विस्तारो विशालता तद्युक्तम् । धरणीतलमेकैको ऽन्वेषयामासेत्यर्थः । बिभिदुरिति । पृथिव्यामदृष्ट्वेति शेषः ॥ १।३९।१८ ॥
भिद्यमाना । सर्वत इति शेषः ॥ १।३९।१९,२० ॥
अनुत्तमं रसातलं विचेतुमिव धरणीं योजनानां षष्टिसहस्राणि बिभिदुरित्यन्वयः ॥ १।३९।२१ ॥
पर्वतसम्बाधम् पर्वतनिबिडम् ॥ १।३९।२२२४ ॥
महात्मानः सिद्धगन्धर्वादयः ॥ १।३९।२५ ॥
“यज्ञहनः” इति पाठे हन्तीति हनः । अपनीयते ऽपनीयते स्म । सर्वभूतानि तत्प्रसङ्गरहितान्यपि ॥ १।३९।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥