अथ त्रीन्पथो हेतुना केनेत्यादिप्रश्नस्योत्तरं वक्तुमाह तां कथामिति । अपरं वाक्यम् वक्ष्यमाणं प्रश्नोत्तरम् ॥ १।३८।१ ॥
यस्मादप्रजास्तस्मात्प्रजाकामो ऽभूदित्यन्वयः ॥ १।३८।२,३ ॥
अरिष्टनेमिः कश्यपः । अस्यां सुपर्णभगिनीत्यनुपदप्रयोगात् ॥ १।३८।४ ॥
भृगुप्रस्रवणे भृग्वधिष्ठितं प्रस्रवणं प्रवाहो यस्मिन् गिरौ हिमवत्पादपर्वते ॥ १।३८।५७ ॥
तातेत्युपलालने । जनयिता जनयिष्यति । षष्टिमिति नित्यैकवचनान्तत्वात्सहस्राणीत्यनेन सामानाधिकरण्यम् ॥ १।३८।८ ॥
राजपुत्र्यावित्यत्र च्छत्रिन्यायेन प्रयोगः ॥ १।३८।९ ॥
इच्छावहे इच्छावः ॥ १।३८।१० ॥
स्वच्छन्दः स्वेच्छा । विधीयताम् ज्ञाप्यताम् । स्वेच्छयैवेकपुत्रताबहुपुत्रता वा व्रियतामिति तात्पर्यम् ॥ १।३८।११ ॥
तदेवाह एको वंशकरो वेति । वंशकरो वंशवृद्धिहेतुः ॥ १।३८।१२ ॥
नृपसन्निधावित्यनेन तस्यापि साक्षित्वमात्रं न तु वरणनियमकर्तुतेति सूचितम् ॥ १।३८।१३ ॥
सुपर्णो गरुडः ॥ १।३८।१४,१५ ॥
व्यजायत प्रसूतवती ॥ १।३८।१६ ॥
गर्भतुम्बम् तुम्बफलाकारगर्भपिण्डम् । व्यजायत प्रसूतवती । कथं ततः पुत्रोदय इत्यत आह षष्टिरित्यादि ॥ १।३८।१७,१८ ॥
दीर्घेण कालेन । यौवनशालित्वे हेतुत्वात्तृतीया ॥ १।३८।१९ ॥
ज्येष्ठो ऽसमञ्जः बालान्गृहीत्वा जले प्रक्षिप्य मज्जतस्तान्समीक्ष्य नित्यं प्राहसत् । “प्रहसन्” इति पाठे स्थितो भवतीति शेषः । सज्जनप्रतिबाधकः सज्जनपीडकः ॥ १।३८।२०,२१ ॥
निर्वासितो निष्कासितः । तस्यासमञ्जस्य । एतद्वाची असमञ्जशब्दो ऽदन्तः सान्तश्चेति बोध्यम् ॥ १।३८।२२ ॥
समभिजायत अडभाव आर्षः ॥ १।३८।२३ ॥
यज्ञकर्मणीत्यस्य निश्चयं कृत्वेति प्राक्तनेनान्वयः ॥ १।३८।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे ऽष्टात्रिंशः सर्गः ॥ ३८ ॥