देवे शिवे । सेन्द्राः । देवा इति शेषः । साग्निपुरोगमाः । अग्निना पुरोगमेन सहिता इत्यर्थः । “सेन्द्राः सर्षिगणाः पुरा” इति क्वचित्पाठः ॥ १।३७।१ ॥
अत्र “सुराः सर्वे” इति पुनरुक्तमतः पाठान्तरमन्वेषणीयम् । द्वितीयार्धे “सुरा राम” इति पाठः रामसम्बोधनं चैतत् ॥ १।३७।२ ॥
येन रुद्रेण सेनापतिर्बीजात्मना दत्तः स परमास्थाय परं मौनमङ्गीकृत्य तपस्तप्यते ऽनुतिष्ठति ॥ १।३७।३ ॥
अनन्तरं बीजदातुरुपरमानन्तरं यत्कार्यं पुत्राकारसम्पत्तये विधेयं तत्संविधत्स्व ॥ १।३७।४ ॥
सान्त्वयन् । इष्टकार्यालाभखिन्नानिति शेषः ॥ १।३७।५ ॥
यद्यस्माच्छैलपुत्र्या “अप्रजा भविष्यथः” इत्युक्तं तत्तस्माद्युष्माकं स्वासु पत्नीषु न प्रजाः । सन्तीति शेषः । पत्निष्विति ह्रस्वत्वं छान्दसम् । यतस्तस्या वचनक्लिष्टममोघम् । एवं च “प्रजास्यथ” इति पाठकल्पना छान्दसत्वकल्पना च विफलैव ॥ १।३७।६ ॥
तर्हि का गतिस्तत्राह इयमिति । यस्यां हुताशनः पुत्रं जनयिष्यति सेयमाकाशगङ्गा । आस्ते इति शेषः ॥ १।३७।७ ॥
“ज्येष्ठोमा स्वकनिष्ठापत्यत्वात्स्वापत्यवन्मानयिष्यतीत्यर्थः” इति कतकः, तन्न । पूर्वं गङ्गाया एव ज्येष्ठत्वोक्त्या तेन विरोधात् । तस्माज्जेष्ठा गङ्गा स्वकनिष्ठोमापत्यत्वान्मानयिष्यतीत्यर्थः । उमाशिवसंयोगेन च्युतरेतोरजोभ्यामुत्पत्तेरुमापत्यत्वम् । अत एवाह उमाया इति । तत्स्वापत्यसम्माननम् ॥ १।३७।८,९ ॥
कैलासपर्वतं गत्वेत्यन्वयः ॥ १।३७।१० ॥
समाधत्स्व कुरु । महातेज इति सम्बुद्धिः । शैलपुत्र्यां गङ्गायामैशं तेज उत्सृजेत्यन्वयः ॥ १।३७।११ ॥
प्रतिज्ञाय तथा करोमीति प्रतिज्ञाय । इदं गर्भधारणं देवतानां प्रियमित्यन्वयः ॥ १।३७।१२ ॥
दिव्यं रूपमधारयत् । स्रोतोरूपं मुक्त्वेति शेषः । तस्या महिमां दिव्यरूपं वैभवम् । स ऐश्वरतेजोराशिः पारदो ऽवशीर्यत शीर्णः । उत्तमस्त्रीदर्शने रसेश्वरस्य तद्ग्रहणायोच्छलनं द्वियोजनपर्यन्तमिति सुप्रसिद्धम् । यद्वा सो ऽग्निरवशीर्यत । ऐश्वरं तेजस्त्यक्तवानित्यर्थः ॥ १।३७।१३ ॥
अभ्यषिञ्चतेति । रसेश्वरेणोति शेषः । स्रोतांसि नाड्यः ॥ १।३७।१४ ॥
पुरोगमः पुरोयायी हितकरश्च । तवाग्रेयेन तेजसा सम्बन्धात् समुद्धतमत्युग्रं तेजः शैवं यतो ऽतस्तस्य धारणे ऽहमशक्तेत्यन्वयः ॥ १।३७।१५ ॥
सम्प्रव्यथितचेतना । अस्मीति शेषः । सर्वदेवहुताशनः सर्वदेवोद्देशेन हुतस्य भक्षकः ॥ १।३७।१६ ॥
सन्निवेश्यताम् स्थाप्यताम् ॥ १।३७।१७ ॥
स्रोतोभ्य उत्कृत्य तत्तेजो हिमवत्पार्श्व उत्ससर्जेत्यन्वयः । यद्यस्मादस्या निर्गतं तत्तस्माद्गङ्गागर्भतो निर्गमात्तत्तेजो जाम्बूनदाकारसुमेरुकन्यापत्यत्वाद्गङ्गायास्तप्तं जाम्बूनदं सुवर्णं तेन समप्रभम् । आसीदिति शेषः ॥ १।३७।१८ ॥
अत एव धरणीं प्राप्तं साक्षात्स्वसम्बद्धधरणीस्थं वस्तु काञ्चनमकरोत् । तत्समीपवर्ति भूसंस्थमतुलप्रभं हिरण्यं रजतमकरोत् । तत्तेजःसम्बन्धितैक्ष्ण्यादेव तद्व्यवहितभूस्थं वस्तुजातं ताम्रम् । कार्ष्णायसम् लोहम् । अभिजायत अडभाव आर्षः ॥ १।३७।१९ ॥
तत्तस्य गर्भस्य मलं त्रपु सीसं चाभवत् । अयं भावः तैक्ष्ण्यमलगन्धयुक्तेन शुद्धेन स्पर्शतो विद्धं स्वर्णम्, गन्धयुक्तेन विद्धं रजतम्, तैक्ष्ण्ययुक्तेन विद्धं ताम्रं लोहं च, मलयुक्तेन विद्धं त्रपुसीसे इति । नानाधातुस्तद्रूपम् ॥ १।३७।२० ॥
न च स्पर्शवेधित्वमेव तस्य, अपि तु रूपवेधित्वमपीत्याह निक्षिप्तेत्यादि । सन्नद्धम् सम्बद्धम् ॥ १।३७।२१ ॥
जातरूपम् । रूपेण जातमित्यर्थः ॥ १।३७।२२ ॥
तं कुमारमिति । ततो रुद्रतेजसो जातं क्रमेण साकरतां प्राप्तम् । क्षीरसम्भावनार्थाय क्षीरपानप्रयोजनसिद्धये । कृत्तिकाः कृत्तिकाभिः । यद्वा समयोजयन्नित्यस्य प्रैरयन्नित्यर्थः ॥ १।३७।२३ ॥
अथ ताः कृत्तिका अस्माकं सर्वासां पुत्रो भवत्वित्युत्तमं समयं कृत्वा निश्चितास्तद्विषयकनिश्चयवत्यो जातमात्रस्य तस्य क्षीरं ददुरित्यन्वयः ॥ १।३७।२४ ॥
ततः सर्वदेवता युष्माकमयं पुत्रः कार्तिकेय इति त्रैलोक्यविख्यातो भविष्यति । अत्र सन्देहो नेति ब्रुवन् । अब्रुवन्नित्यर्थः । अडभाव आर्षः ॥ १।३७।२५ ॥
तेषां देवानां तत्स्वेष्टानुकूलं वचनं श्रुत्वा । स्कन्नमादावीश्वरयोः सकाशात्स्कन्नं पश्चाद्गङ्गाया गर्भात्परिस्रवे सति परया लक्ष्म्या दीप्यमानमम(न)लमिव दुःस्पर्शम् । दुःस्पर्शतानिवृत्तिप्रयोजनकशैत्यसिद्धये । ताः स्नापयन् । अस्नापयन्नित्यर्थः ॥ १।३७।२६ ॥
ततः स्कन्नपरिस्रुतत्वहेतोः पूर्वं कार्तिकेयत्वेनोक्तं स्कन्द इत्यन्वर्थनाम्नाब्रुवन्नित्यन्वयः । स्कन्नपरिस्रुत इत्यर्थे स्कन्द इति पृषोदरादित्वात्साधुः ॥ १।३७।२७ ॥
ततः कृत्तिकानां क्षीरं प्रादुर्भूतम् । आसीदिति शेषः । ततः षण्णामपि स्तनजं पयः क्षुधातिशयेन षडाननो भूत्वा जग्राह ॥ १।३७।२८ ॥
एवं तदा षङ्भिर्मुखैर्यावदपेक्षितं क्षीरं गृहीत्वैकाह्नैकदिनेनैव सुकुमारवपुरपि स्वतेजसैव दैत्यसैन्यगणानजयत् ॥ १।३७।२९ ॥
ततः सकलासुरजयाद्धेतोः सर्वे ऽग्निपुरोगमा देवाः समेत्य सुरसेनागणपतिं तमभ्यषिञ्चन्नित्यन्वयः ॥ १।३७।३० ॥
उपसंहरति एष इत्यादिना ॥ १।३७।३१ ॥
धन्यत्वपुण्यत्वे विवृणोति भक्तश्चेति । ऐहलौकिकफलेन धन्यत्वम्, आमुष्मिकेन पुण्यत्वम् । पुत्रपौत्रैश्चेत्यस्य युक्तः सन् । देहत्याग इति शेषः ॥ १।३७।३२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥