०३६ उमामाहत्म्यम्

उक्तवाक्ये इति । उपरते इत्यर्थः ॥ १।३६।१ ॥

वक्तुमर्हसीत्यस्य विस्तरमित्यनेनान्वयः । दिव्यमानुषसम्भवं दिव्यलोकनिबन्धनं च ॥ १।३६।२ ॥

शुश्रूषितं विस्तरमाह त्रीनित्यादि । भूर्भुवःस्वर्मार्गानित्यर्थः । प्लावयेद्व्याप्नुयात् । इत्येको विस्तरः । द्वितीयमाह कथमिति । त्रिपथगेति प्रसिद्धिः किं निबन्धनेति द्वितीयः ॥ १।३६।३ ॥

कर्मभिश्चरितैः समन्वितेति तृतीयः । द्वयोर्हिमवत्कन्ययोः प्रस्तावे ऽपि स्ववंशोद्धारकत्वाद्गङ्गाविषयक एव भगवतः प्रश्न इत्यूह्यम् ॥ १।३६।४ ॥

निखिलेन कार्त्स्न्येन । विस्तरेणेति यावत् । उद्वाहो विवाहः ॥ १।३६।५ ॥

गतम् । क्रीडयेति शेषः ॥ १।३६।६ ॥

समुद्युक्ताः सेनानीप्राप्त्यर्थं परमयत्नेन रुद्रोमयोः संयोजनं कृत्वापि तस्यां रौद्रतेजसो मोचनं वारयितुं समुद्युक्ता बभूवुरित्यर्थः । “समुद्विग्नाः” इति पाठस्तु सुगम एव ॥ १।३६।७ ॥

पुत्रार्थं संयोजनोद्योगवतां तन्निवारणोद्योगो ऽनुचितस्तत्राह यदिहेति । इहोमायाम् । उत्पद्यते उत्पत्स्यते । अब्रुवन् । इति विचार्येत्यादि ॥ १।३६।८,९ ॥

प्रसादविषयमाह न लोका इति । भूरादिलोकाः तत्स्थप्रजाश्चेत्यर्थः । ब्राह्मेण तपसा । ब्रह्मानन्यतालक्षणेन तपसेत्यर्थः ॥ १।३६।१० ॥

तेजो रेतः । तेजस्यात्मनि । मत्तेजसि मया धृते को लाभस्तत्राह रक्ष सर्वानिति । धृत्वेति शेषः । ननु रुद्रेण स्वतेजोधारणे कथं लोकरक्षेति चेच्छृणु । “यदेतत्पुरुषे रेतो भवति आदित्यस्य तद्रूपम्” इति श्रुतेस्तद्रेतोरूपं तेज एवादित्यमण्डलं तद्धृतौ सकलं जगद्रक्षितं भवति, विपर्यये विपर्यय इत्याहुः । तदेवाह नालोकमिति । आदित्यविनाशे हि सर्वलोकविनाशप्रसङ्ग इति भावः ॥ १।३६।११,१२ ॥

धारयिष्यामीति । सहोमयोमापि स्वरजोरूपं तेजोग्निं स्वस्वरूपेण तेजसा धारयिष्यति । “यदेतत्स्त्रियां लोहितं भवति अग्नेस्तद्रूपम्” इति श्रुतेः । भो त्रिदशाः, अनेन तेजोधारणेन पृथिवी, चकारात्सर्वो लोकः, निर्वाणं सुखं प्राप्नोतु । अन्यथैश्वरतेजोजन्यस्य दुर्धार्यत्वेन दुर्दर्शत्वेन च पृथिव्या लोकस्य च पीडा स्यादिति भावः ॥ १।३६।१३ ॥

दिव्यवर्षशतभोगवशात्स्थानतश्च्युतस्य शुक्रांशस्य धारणासम्भवेन तद्धारणसमर्थं मोक्षस्थानं निरूपयन्त्वित्याह यदिदमिति । स्थानाद्धृदयपुण्डरीकलक्षणात् । क्षुभितं चिरकालभोगवशात्स्खलितम् । अनुत्तमं देवकार्यार्हसुतसमर्थत्वेन सर्वोत्तमम् । भवत्प्रार्थनयोमागर्भानर्हं को धारयिष्यति ॥ १।३६।१४ ॥

उत्तरमाहुः एवमिति । धरा धारयिष्यतीति । तस्या अशेषधारणशक्तिमत्त्वादिति भावः ॥ १।३६।१५,१६ ॥

पृथिव्यां मुक्तस्य तेजसो धारणार्थमग्नेः पृथिव्यधिपतित्वेन पृथिव्यभिमानित्वात्तं नियुञ्जते तत इति । पुनःशब्दो वाक्यालङ्कारे । हुताशनं देवीक्लेदों ऽशरूपम् । अन्यादृशाग्ने रौद्रतेजःप्रवेशासम्भवात् । वायुसमन्वित इत्यनेन चालनलक्षणः प्रवेशोपाय उक्तः ॥ १।३६।१७ ॥

तदग्निनेति । उक्ताग्निना चालनपूर्वकप्रवेशात्तत्तेजोबद्धं सत्केवलश्वेतपर्वतरूपं जातम् । तद्रूपं तेजःप्रवेशप्रदेशे तन्महिम्ना दिव्यं पावकादित्यसन्निभं शरवणं चाभूत् ॥ १।३६।१८ ॥

यत्रेति । किञ्चित्कालं धृतत्वात्कार्तिकेयत्ववदेवाग्निसम्भवत्वं बोध्यम् ॥ १।३६।१९ ॥

सुप्रीतमनसो लोकानुग्रहाय मूलतेजसो धृतत्वाद्देवकार्याय स्कन्नतेजसश्च दत्तत्वात्सन्तोषः । क्रियमाणामपि पूजामुमादेवी नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह अथ शैलेति ॥ १।३६।२० ॥

किमब्रवीत्तदाह अशपदिति । शापरूपं वचो ऽब्रवीदित्यर्थः । मन्युकारणाह यस्मादिति ॥ १।३६।२१ ॥

शापस्वरूपमाह अपत्यमित्यादि ॥ १।३६।२२ ॥

एवमुक्त्वा । शपथरूपं वच इति शेषः । हे अवने पृथ्वि नैकरूपा । एकत्रैव क्षेत्रे ऽनेकबीजफलजनकत्वात् । बहुभार्या ऽनेकभूपतिभोग्या ॥ १।३६।२३ ॥

न च पुत्रकृतां प्रीतिम् । वराहादुत्पन्नस्यापि नरकासुरस्य भौमस्य कृष्णावतारे तेनैव हननात् । सुदुर्मेध इति “नित्यमसिच्प्रजामेधयोः” इत्यसिच् । सुतरां दुष्टा मेधा यस्यास्तत्सम्बोधनं सुदुर्मेधः मम पुत्रमनिच्छती तेजोधारणानुमत्या । यद्येषा तत्तेजोधारणं नानुमन्येत तर्हि स पुत्रो ममैव स्यादित्याशयः ॥ १।३६।२४ ॥

पीडितान्देवीशापदुःखितान् । उपचक्राम पादन्यासं कृतवान् ॥ १।३६।२५ ॥

तस्य गिरेर्हिमालयस्योत्तरपार्श्वे हिमवत्प्रभवाख्ये शृङ्गे ॥ १।३६।२६ ॥

उपसंहरति एष इति । त्रिषु लोकेषु धर्मयज्ञकर्मभिः कैः समन्वितेति प्रश्नोत्तरतया वक्तव्यस्य धारणरूपगङ्गाचरितस्य शेषतया शैलपुत्र्या विस्तारो निवेदितः । प्रकृतं प्रश्नोत्तरं वक्तुं प्रतिजानीते गङ्गाया इति । प्रभवमिति च्छान्दसो ह्रस्वः । ऐशतेजोधारणरूपं प्रभावमित्यर्थः ॥ १।३६।२७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥