रात्रिशेषमुपास्य निद्रयातिवाह्य ॥ १।३५।१ ॥
गमनाय गमनं कर्तुम् ॥ १।३५।२,३ ॥
अयं शोणा इति । शोणैव शोण इति व्यपदिष्टः । कतरेण पथा सन्तरिष्यामह इत्यन्वयः । प्रश्नबीजमगाध इति । अतलस्पर्श इत्यर्थः ॥ १।३५।४ ॥
उद्दिष्टो गन्तव्यत्वेन निश्चितः ॥ १।३५।५,६ ॥
सारसः पक्षिविशेषः ॥ १।३५।७ ॥
वासपरिग्रहं सम्मार्जनादिना वासस्थानं चक्रुरित्यर्थः ॥ १।३५।८ ॥
अमृतवदमृततुल्यं पञ्चयज्ञाद्यवशिष्टमन्नम् । यद्वामृतवत्तत्सदृशं गङ्गाजलं हविश्च प्रागुक्तं प्राश्येत्यर्थः ॥ १।३५।९ ॥
विष्ठिता विशेषेण स्थिताः । यथार्हतः यथावस्थानमर्हतः । तथा स्थितावित्यर्थः ॥ १।३५।१० ॥
गङ्गां श्रोतुम् । गङ्गाविषयकं किञ्चिच्छ्रोतुमित्यर्थः । श्रोतव्यं विषयमाह त्रैलोक्यमित्यादि ॥ १।३५।११ ॥
वृद्धिम् त्रैलोक्यव्याप्तिरूपाम् ॥ १।३५।१२ ॥
धातूनाम् स्वर्णादीनाम् ॥ १।३५।१३ ॥
या मेरुदुहिता मेना नाम सा तयोः कन्ययोर्मातेत्यन्वयः ॥ १।३५।१४ ॥
तस्यां मेनायां या ज्येष्ठा हिमवतः सुता कुटिला नाम । सेयं गङ्गाभवदित्यर्थः । तस्यैव हिवमतः ॥ १।३५।१५ ॥
देवकार्यम् वक्ष्यमाणं भववीर्यधारणम् । त्रिपथगाम् स्वर्गभूपातालमार्गगाम् । इदं वर्तमानापदेशेन वरणं चास्याः शिवभार्यात्वाय ॥ १।३५।१६ ॥
धर्मेण कन्यादानधर्मेण । स्वच्छन्दपथगामित्यपि वर्तमानापदेशेन । स्वेच्छामात्रेण प्रवाहादिवायुमार्गगमनशीलाम् ॥ १।३५।१७ ॥
त्रिलोकार्थं तारकतो भीतत्रिलोकरक्षकपुत्रोत्पत्त्यार्थमगच्छन् ब्रह्मलोकम् । “तत्र ब्रह्मशापवशाज्जलरूपताप्राप्तिरिति” इत्यादिवामनपुराणोक्तदिशा मध्ये ऊह्यम् । वामनपुराणवृत्तान्तस्य प्रायेणात्र प्रत्यभिज्ञानात् । एवं हि तत्राख्यायिका “उमाज्येष्ठा कुटिला नाम हिमवत्कन्या देवैः शिववीर्यधारणाय हिमवन्तं प्रार्थिता । तेन दत्तया तया सह देवा ब्रह्मलोकं गत्वा ब्रह्मणे निवेदितवन्तः । ब्रह्मणा च “असमर्थेयं तद्धारणे” इत्युक्ता “अवश्यं धारयामि” इति कथितवाक्यावज्ञानेन ब्रह्मणा “जलरूपा भव” इति शप्ता । तत्रैव ब्रह्मण्डोर्ध्वकटाहे जलरूपेण लग्ना स्थिता । तस्यामेवाग्निना शिववीर्यं क्षिप्तमिति । “विष्ण्वङ्घ्रिणा प्रसरता कटाहे भेदिते ऽम्बरात् । कुटिला विष्णुपादान्तात्पपाताकुलिता ततः ॥ तस्माद्विष्णुपदी ख्याता” इति वामनपुराणोक्तेरेव ब्रह्माण्डोर्ध्वकटाहे लग्नेति ज्ञायते । पतनसमये च ब्रह्माण्डबाह्यजलेन सहैव पतितं तज्जलं ब्रह्मणा कमण्डलुधृतं बाह्यजलं च शिवानन्दबाष्पजातं नारायणात्मकमिति कामीकासंहितादौ स्पष्टम् । ततो भगवता पदारोपणे तेनैव कमण्डलुजलेन तत्पादप्रक्षालनं कृत्वा तज्जलं कण्डलावेव क्षिप्तम् । शङ्करसंहितोक्तरीत्या गौरीविवाहोत्तरं लीलया गौर्या पाणिभ्यां शिवनयनाच्छादने कृते शिवेन ललाटनेत्रं प्रकाशितम् । ततो भयाद्गौरीपाणिस्वेदजलं स्रुतं तदपि ब्रह्मणा कमण्डलौ स्थापितमित्यप्यत्रोह्यम् । गौरीविवाहकथनेन सूचितं च । भगीरथप्रार्थनया च ब्रह्मरूपः सर्वपवित्रजलसमूहस्तस्मै दत्तः । सर्वमुक्तजलमुपक्रम्य पुराणेषु भगीरथसम्बन्धश्रवणात् । विस्तरस्त्वस्मत्कृतगङ्गामाहात्म्यप्रकाशे द्रष्टव्यः ॥ १।३५।१८ ॥
कन्या अवृतपतिः । अग्रे शिववीर्यस्खलनादि वक्तुं चैतद्वर्णनम् । उग्रं सुव्रतं पर्णभोजनस्यापि त्यागसङ्कल्परूपम् । तपः शिवध्यानरूपम् ॥ १।३५।१९२१ ॥
यथा त्रिपथगामिनी गङ्गा । तथा प्रतिपादयामीति शेषः । तदेव विवृणोति खमित्यादि । प्रथमं खं गताकाशमार्गं गता । पश्चात्सुरलोकं समारूढाभवत् । जलवाहिनी तत्स्वभावा जाता । विपापा सकलपापहन्त्री ॥ १।३५।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥