०३४ विश्वामित्रवंशकथा

ब्रह्मदत्ते चेति । चस्त्वर्थः । कन्याशतसमुच्चयार्थो वा । पुत्रलाभाय पुत्रप्राप्तये ॥ १।३४।१ ॥

कुशः कुशनाभपिता ॥ १।३४।२ ॥

कुशवाक्यमाह पुत्र इत्यादि । सदृशस्त्वत्सदृशः । को ऽसौ तत्राह गाधिं गाधिनामानं प्राप्स्यसि । तेन लोके शाश्वतीं कीर्तिं च प्राप्स्यसि ॥ १।३४।३ ॥

“कुशो नाम” इति पाठे एतत्कुशवृत्तं नाम प्रसिद्धमित्यर्थः । आकाशमाविश्याकाशरूपो भूत्वा । अनेन तस्य मुक्तत्वं सूचितम् । तेन स्ववंशस्य माहात्म्यातिशयः सूचितः ॥ १।३४।४ ॥

कस्यचित्त्वथ कालस्य । कस्यचित्कालस्यानन्तरमित्यर्थः ॥ १।३४।५ ॥

मम विश्वामित्रस्य । कुशवंशप्रसूतत्वादहं कौशिकः ॥ १।३४।६ ॥

न केवलमहमेव गाधेः पुत्रः, मम पूर्वजा ज्येष्ठा नाम्ना सत्यवतीति प्रसिद्धा ऋचीके प्रतिपादिता ऋचीकाय दत्ता इति नाम प्रसिद्धम् ॥ १।३४।७ ॥

सशरीरस्वर्गगतौ हेतुर्भर्तारमनुवर्तिनीति । सहगमनं कृतवतीत्यर्थः । अपि च अन्यदपि तस्याश्चरितम् । कौशिकी नाम्नी महानदी तद्रूपा प्रवृत्ता च जाता ॥ १।३४।८ ॥

हितकार्यार्थम् । “हितकामार्थम्” इति पाठे हितमामुष्मिकं काम ऐहिकं तदुभयदानार्थम् ॥ १।३४।९ ॥

यतो भगिन्यां स्नेहसंयुक्तो ऽतो हिमवत्पार्श्वे कौशिक्यां नियतो नित्यं सुखं वसामीत्यन्वयः ॥ १।३४।१० ॥

इतश्च तस्यां वास इत्याह सा त्विति । सत्ये धर्मे प्रतिष्ठिता । तज्जलपानादिना सत्यान्मनो न निवर्तत इति भावः ॥ १।३४।११ ॥

नन्वेवं कथं सिद्धाश्रमे स्थितिरत आह अहं हीति । नियमाद्गयापिण्डदानवत्सिद्धाश्रमैकसाध्ययागजन्यसिद्धिहेतोः । आगमनकार्यं च त्वदनुग्रहात्सिद्धमित्याह सिद्धाश्रममित्यादि ॥ १।३४।१२ ॥

उपसंहरति एषेति । मम गाधेः सकाशादुत्पत्तिः कीर्तिता, स्वस्य वंशस्योत्पत्तिर्ब्रह्मपुत्रात्कुशात्कीर्तिता । देशस्य शोणाकूलीयगिरिव्रजदेशस्य पृच्छसि पर्यपृच्छः । तत्सर्वमुक्तमिति शेषः ॥ १।३४।१३ ॥

अतः परं न प्रष्टव्यमित्याह गत इति । विघ्नो गन्तव्याध्वनि निद्राभावप्रयुक्तजाड्यमूलः ॥ १।३४।१४ ॥

अर्धरात्रचिह्नान्याह निष्पन्दा इति । पक्षिचलनाभावादिति भावः । तदाह निलीना इति ॥ १।३४।१५ ॥

शनैर्विसृज्यते । व्ययुङ्क्तेत्यर्थः । वर्तमानसामीप्ये भूते लट् । सन्ध्याशब्देन तदुपासनयोग्यगौणकालराहित्येन सार्धयामरूपः । नक्षत्रतारागहनं नभःसहस्राक्षवन्नेत्रैरावृतमिव तज्ज्योतिर्भिस्तद्रश्मिभिरवभासते ॥ १।३४।१६ ॥

उत्तिष्ठते । “उदो ऽनूर्ध्वकर्मणि” इति तङ् ॥ १।३४।१७ ॥

नैशानि निशाप्रभवाणि । तान्येवाह यक्षेत्यादि ॥ १।३४।१८ ॥

अभ्यपूजयन्नस्तुवन् ॥ १।३४।१९ ॥

स्तुतिप्रकारमाह कुशिकानामित्यादि । ब्रह्मोपमा ब्रह्मर्षितुल्याः ॥ १।३४।२० ॥

हे महायशः विश्वामित्र भवानेव विशेषेण महात्मेति शेषः । यस्तपसा ब्राह्मणत्वं प्राप्त इति भावः । किं च यस्य तव भागिनी तव कुलस्य उद्द्योतकर्युद्धारकर्त्री सरितां श्रेष्ठा । अनेन सकलजगदुद्धारकत्वं सूचितम् ॥ १।३४।२१ ॥

प्रशस्तः स्तुतः । “अस्तंगत इवांशुमान्” इति पाठः ॥ १।३४।२२ ॥

सेवते सेवते स्म ॥ १।३४।२३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥