तस्येति । चरणो स्पृष्ट्वा नमस्कृत्य ॥ १।३३।१ ॥
प्रधर्षयितुमभिभवितुमिच्छति स्म । अशुभं बलात्काररूपमवेक्षते स्म ॥ १।३३।२ ॥
पितृमत्यः पित्रधीनाः । स्वच्छन्देन पतिस्वीकारविषये स्वातन्त्र्येण स्थिता न वर्तामहे यतः, अतो नः पितरं वृणीष्व त्वम् । यदि नो ऽस्मांस्तुभ्यं स दास्यति, तदा तव त्वदीया भविष्यामः । ते तव भद्रमस्त्विति योजना ॥ १।३३।३ ॥
एवं ब्रुवन्तीनां नो वचनं न प्रतीच्छतानङ्गीकुर्वता पापानुबन्धेनाधर्मबद्धचित्तेनैवं धर्मं ब्रुवन्त्यः सर्वा वायुनाभिहताः स्मेति योजना ॥ १।३३।४,५ ॥
हे पुत्र्यः क्षमावतां क्षमावद्भिः कर्तुमर्हं यत्क्षान्तं क्षमा तत्सुमहत्कृतम् । महती क्षमा कृतेति यावत् । गात्रभङ्गोत्थक्रोधवेगसहनमतिदुष्करमिति भावः । यच्च कुलमवेक्षितं कामवेगसहनं कृतं तदपि सुमहत् ॥ १।३३।६ ॥
पुरुषस्य वेति । अविशेषणेति शेषः । तत्तु दुष्करं यत् त्रिदशविषये क्षान्तं कामवेगसहनं कृतं तदतिदुष्करं तेषामभिरूपादिकमनीयगुणबाहुल्यात् ॥ १।३३।७ ॥
स्वकन्यानां क्षमां श्लाघयंस्तादृशीं क्षमां स्वकुले प्रार्थयते यादृशीति । भो पुत्र्यः यादृशी युष्माकं क्षमा तादृश्यस्मत्कुले सर्वासाम् । अस्त्विति शेषः । अथवा ऽविशेषतः । सकलस्त्रीपुरुषाविशेषेणेत्यर्थः । क्षमायाः प्रार्थनीयत्वे निमित्तमाह क्षमेत्यादि ।
दानसत्यवचनयज्ञसमाधिजसकलधर्मफला क्षमा सकलजगदाधारभूता च क्षमा । अतः सोपादेयेत्यर्थः ॥ १।३३।८,९ ॥
प्रदानम् कन्याप्रादनम् । उचिते देशे काले सदृशे स्वकुलादिसदृशे पात्रे प्रदानं कर्तव्यमिति मन्त्रणप्रक्रमः ॥ १।३३।१० ॥
ऊर्ध्वरेता ब्रह्मचारी । ब्राह्मं तपो ब्रह्मविषयं चित्तैकाग्र्यम् । “मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः ।” इति स्मृतिः ॥ १।३३।११ ॥
यदा चूली तपश्चरति तदा ऊर्मिलातनया सोमदा नाम गन्धर्वी तं पर्युपासते स्म मय्यनुग्रहं कुर्विति प्रार्थनया सेवते स्म । पर्युपासत इति शबलुगार्षः ॥ १।३३।१२ ॥
तमिति प्रतियोगे द्वितीया । तत्समीपे आसेत्यर्थः ॥ १।३३।१३ ॥
कालयोगेन शुश्रूषाजनितधर्मपरिपाकार्हकालसम्बन्धेन । अनेन दिव्ययोगिनीयोगिनोरकल्मषतपःप्रवृत्तिः सूचिता ॥ १।३३।१४,१५ ॥
ब्राह्म्या लक्ष्म्या ब्रह्मवर्चसेन । ब्रह्मभूतो ब्रह्मात्मभावनया । अत एव महातपाः यतस्त्वमीदृशो ऽतो ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि । ब्राह्मं तपो ब्रह्मविषयमैकाग्र्यम् । यद्वा ब्राह्मं तपः स्वाध्यायः ॥ १।३३।१६ ॥
ननु पुत्रप्रार्थना पत्यावुचिता तत्राह अपतिश्चास्मीति । इतःपरमप्यस्मि । अहं न कस्यचिद्भार्या । भविष्यामीति शेषः । अनेन नैष्ठिकब्रह्मचारिणीत्वं सूचितम् । अथापि यथा पुत्रावाप्तिर्भवति तथा ते भद्रमनुग्रहो ऽस्तु । नन्वेवं नैष्ठिकब्रह्मचर्ये कथं पुत्रलाभः सम्भाव्येतात आह ब्राह्मेणेति । उपगतायाः किङ्करत्वं प्राप्तायाः । ब्राह्मेण ब्रह्मसम्बन्धिनोपायेन मे सुतं दातुमर्हसि । सनकादय इव मानसपुत्रो देय इति भावः ॥ १।३३।१७ ॥
तस्याः सोमदायाः प्रसन्नश्चूलिननामा ब्रह्मर्षिर्ब्राह्मं ब्रह्मतपसा युक्तं ब्राह्मणदत्तत्वाद्ब्रह्मदत्त इति ख्यातं मानसं सुतं ददावित्यन्वयः । फली फलिन इतिवच्चूलीचूलिन इति ऋषेर्नामद्वयं साधु ॥ १।३३।१८ ॥
राजा गन्धर्व्याः सोमदायाः क्षत्रियत्वात् । काम्पिल्याम् कम्पिलेन निर्वृत्ताम् ॥ १।३३।१९२१ ॥
देवपतिर्यथा । इन्द्रसदृशो महीपाल इत्यर्थः ॥ १।३३।२२ ॥
तदा तेन राज्ञा पाणौ स्पृष्टमात्रे ताः कन्या विकुब्जाः कुब्जत्वरहिताः । आसन्निति शेषः । ब्राह्मतपोयुक्तत्वादेवं सामर्थ्यं राज्ञः । एवं च सति तत्कन्याशतं परमया लक्ष्म्या बभावित्यन्वयः ॥ १।३३।२३ ॥
स राजा वायुना मुक्ता दृष्ट्वेत्यन्वयः । “भग्नाः” इति पाठस्तु चिन्त्यः । केचित्तु तत्पाठे “पूर्वं भग्नाः” इति व्याचख्युः ॥ १।३३।२४ ॥
प्रेषयामास । काम्पिल्यं प्रतीति शेषः ॥ १।३३।२५ ॥
सदृशीं क्रियाम् । दारक्रियामित्यर्थः । प्रतिनन्दनप्रकारमाह स्पृष्ट्वेत्यादि । प्रशस्य च गतेत्यर्थः । आश्चर्यमासां धैर्यं यद्देवश्रेष्ठस्याप्यनादरः, धन्यो ऽयं राजा यस्य कन्या ईदृश्यः, अहो मे भाग्यं यस्या म ईदृश्यः स्नुषाः इत्येवं प्रतिनन्दनम् । अनेन स्त्रीमाहात्म्यं तपोमाहात्म्यं च दर्शितम् ॥ १।३३।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥