शोणाकूलदेशवैभवप्रश्ने मद्वंश्यानामयं देश इत्युत्तरमाह ब्रह्मयोनिरिति । ब्रह्मपुत्र इत्यर्थः । अक्लिष्टव्रतश्चासौ धर्मज्ञश्चेति विग्रहः ॥ १।३२।१ ॥
युक्तायाम् । अशेषस्त्रीगुणयुक्तायामित्यर्थः ॥ १।३२।२ ॥
असूर्तरजसम् न विद्यते सूर्तं प्रसूतं रजो यस्य तम् । “अच्” इति योगविभागादच् । क्षत्रधर्मचिकीर्षया तद्धर्मवृद्धिकरणोच्छया ॥ १।३२।३ ॥
पालनम् प्रजापालनम् ॥ १।३२।४ ॥
निवेशम् सन्निवेशम् ॥ १।३२।५ ॥
महोदयम् महोदयनामकम् ॥ १।३२।६,७ ॥
एषा गिरिव्रजापरपर्याया ॥ १।३२।८ ॥
सुमागधी तत्सञ्ज्ञा । आययाविति पदच्छेदः ॥ १।३२।९ ॥
सा मागधी मगधादागततया मागधीत्वेन प्रसिद्धा सेषा शोणा । तस्य मद्वंश्यस्य वसोर्भवति । पूर्वाभिचरिता पूर्वदिग्गामिनी । सुक्षेत्रा । पार्श्वद्वये ऽपीति शेषः ॥ १।३२।१० ॥
घृताच्याम् तन्नामिकाप्सरःसु ॥ १।३२।११ ॥
ताः शतं कन्याः ॥ १।३२।१२ ॥
आमोदम् सन्तोषम् ॥ १।३२।१३ ॥
घनान्तरे मेघमध्ये तारा इव । रेजुरिति शेषः ॥ १।३२।१४,१५ ॥
मत्कामनापूरणे मम देवस्य मानुष्यो ऽपि भार्या भविष्यथेत्यादिर्वशीकरणायार्थवादः । ननु मानुषीणां देवसम्बन्धो ऽनुचितस्तत्राह मानुषस्त्यज्यतां भाव इति । मदङ्गीकारमात्रेण विलक्षणशक्त्याविर्भावान्मानुषभावत्यागे स्वत एव भवतीनां सामर्थ्यं भविष्यति । तत्फलमाह दीर्घमिति ॥ १।३२।१६ ॥
मानुषेषु हि यतो विशेषेण नित्यमनुक्षणं यौवनं चलं चञ्चलम् । क्षीयमाणामिति यावत् । अतो मत्सम्बन्धेनाक्षयं यौवनमित्याद्यन्वयः ॥ १।३२।१७ ॥
अपहास्य हासपूर्वकमपमान्य ॥ १।३२।१८ ॥
अन्तश्चरसीति पूर्वार्धेन स्वभावज्ञता वायोः सूचिता । ननु युष्मत्प्रभावापेक्षया मत्प्रभावो ऽधिक इति चेत्तत्राह प्रभावज्ञाश्च ते सर्वाः । तथा भ्रमं माकार्षीरिति भावः । तस्मादेवमनुचितप्रार्थनयास्मदवमाननमनुचितमित्याह किमर्थमित्यादि ॥ १।३२।१९ ॥
स्वप्रबावं दर्शयन्ति कुशनाभेत्यादि । स्थानाद्वायुपदात् । देवमपि त्वां च्यावयितुम् । समर्था इति शेषः । रक्षामस्त्विति । शापेन तथाकरणे हि तत्क्षयः स्यादिति भावः ॥ १।३२।२० ॥
हे दुर्मेधः दुर्बुद्धे यत्र काले पितरमवमन्यापमानविषयं कृत्वा स्वधर्मेण कामेन स्वयंवरमुपास्महे आत्मना स्वातन्त्र्येण वयं वरमङ्गीकुर्मः, स कालः कदाचिदपि भा भूदित्यन्वयः । “नावमन्य” इति पाठस्तु क्वाचित्को ऽपपाठः । तथा पाठे नः इति च्छेदः छान्दसं धीर्घत्वम् । नो ऽस्माकं स कालो मा भूदित्यन्वयः । क्वचित्तु “नो ऽवमन्यस्व” इति पाठः । अत एव “मा भूत्स कालो यद्वा नो पितरं सत्यवादिनम् । कामतः समतिक्रम्य वरयेम स्वयंवरम् ॥ " इत्येतदर्थविवरणश्लोको दृश्यते क्वचित् ॥
१।३२।२१ ॥
तत्र बीजमाह पिता हीति ॥ १।३२।२२ ॥
हरिर्वायुः । क्वचित्तु “वायुः” इत्येव पाठः ॥ १।३२।२३ ॥
सलज्जा अन्याय्यपतिप्रसङ्गतः सलज्जाः ॥ १।३२।२४ ॥
भग्ना भग्नाङ्गाः ॥ १।३२।२५ ॥
धर्ममवमन्यते । बलात्कारं करोतीति यावत् । रोदनादिना चेष्टन्त्यः किं नाभिभाषथेत्यन्वयः । एवम् । पृष्ट्वेति शेषः । समाधिं सन्दध इति । तद्वचः श्रवणैकाग्रचित्तो ऽभूदित्यर्थः ॥ १।३२।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥