एवं स्वयज्ञविघ्नविनाशफलकं सर्वास्त्रसम्बन्धानुग्रहं कृत्वा भगवान्विश्वामित्रः सहजलक्ष्मीशक्तिसम्बन्धानुग्रहाय प्रवर्तत इत्याह अथेति । तत्र यज्ञशालायम् ॥ १।३१।१ ॥
कृता पौर्वाह्णिकी क्रिया याभ्यां तावभिजग्मतुः । अभिवादार्थमिति शेषः । तदुक्तं पूर्वसर्गान्ते “सन्ध्यामुपागमत्” इति । सह गतो विश्वामित्रो होमार्थं त्वरया शालामागत इति बोध्यम् ॥ १।३१।२ ॥
मुनिश्रेष्ठम् विश्वामित्रम् ॥ १।३१।३ ॥
स्मेत्यव्ययम् ॥ १।३१।४ ॥
तयोरिति ताभ्यामित्यर्थे । विश्वामित्रं पुरस्कृत्य । कृतविश्वामित्रानुमतिका इति यावत् ॥ १।३१।५ ॥
मैथिलस्य मैथिलाधिपतेः । परमधर्मिष्ठ उत्कटातिशयितधर्मवान् । परमेति पृथक्पदं वा । परा मा यस्मिन्नित्यर्थकं रामसम्बोधनम् ॥ १।३१।६,७ ॥
पूर्वं पूर्वस्मिन्काले । देवराताख्यप्राचीनजनकस्य यज्ञे सदसि दैवतैर्दक्षयज्ञवधे प्रसादिताच्छिवाल्लब्धं यज्ञप्रसादितैः शिवसहितैर्देवतैर्दत्तम् । अतस्तत्र तिष्ठतीति शेषः ॥ १।३१।८ ॥
तस्याद्भुतत्वमाह नास्येति । आरोपणम् शरप्रेक्षेपयोग्यज्यासम्बन्धः । न कथञ्चन नृ कथमपीत्यर्थः ॥ १।३१।९,१० ॥
तत्र मिथिलायाम् । यज्ञं चेति । यज्ञं द्रक्ष्यसि चेत्यन्वयः । चकारेण जानकीस्वीकारसमुच्चयः ॥ १।३१।११ ॥
कुतस्तादृशधनुषस्तत्र स्थितिस्तत्राह तद्धीति । उत्तमं तद्धनुर्मैथिलेन निजयज्ञप्रीतदेवेभ्यो यज्ञफलत्वेन याचितं युद्धे रिपूणां जयाय सर्वदैवतैः शिवसहितैः सर्वदैवतैर्दत्तम् । अतस्तत्र तिष्ठतीत्यर्थः । तदुक्तं पाद्मे “चापं शम्भोर्दयादत्तम्” इति । कौर्मे ऽपि “प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः । प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः ॥ " इति। सुनाभम् शोभनमुष्टिबन्धनस्थानम् ॥
१।३१।१२ ॥
आयागभूतम् यजनीयदेवताभूतमित्यर्थः । वेश्मनीत्यस्य तिष्ठतीति शेषः । अत एवाह अर्चितमित्यादि । “न्यासभूतं नरपतेः” इति क्वचित्पाठः । तत्रापि न्यस्यते ऽस्मिन्देवतेति व्युत्पत्त्या स एवार्थः । देवतान्यासश्च यागार्थ एव प्रतिमादौ ॥ १।३१।१३ ॥
एवमुक्त्वेति । महर्षिगणद्वारेति शेषः । मुनिवरो विश्वामित्रः । वनदेवता वनदुर्गाद्याः ॥ १।३१।१४ ॥
सिद्धः । निर्विघ्नयज्ञसिद्ध्येति भावः । क्व गमिष्यसीत्यत्राह उत्तर इति ॥ १।३१।१५,१६ ॥
अनुसारिणामुक्तदिगनुसारिणां पश्चाद्गामिनामिति वा । शकटीशतमात्रं शतपरिच्छिन्नशकट्यारोपिताग्निहोत्रसम्भारादिमद्ब्रह्मवादिनां यूथमन्वगादिति सम्बन्धः ॥ १।३१।१७,१८ ॥
पक्षिणो निवर्तयामासेत्यनेन ऋषीणामनिवर्तनमुक्तम् । तदेवाह ते गत्वेति ॥ १।३१।१९ ॥
शोणनदस्यैव “शोणा” इत्यपि नामेत्याहुः । वस्तुतः “शोणा” इति गिरिव्रजसमीपस्थो नदीविशेष इत्येतदुत्तरसर्गे स्पष्टम् । अस्तं गते । अस्तं जिगमिषतीत्यर्थः ॥ १।३१।२०२२ ॥
अयं देशः शोणाकूलस्थः ॥ १।३१।२३ ॥
निखिलम् । वैभवमिति शेषः ॥ १।३१।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥