अथेति । कौशिकं वचो ऽब्रूतामित्यन्वयः ॥ १।३०।१ ॥
तौ निशाचरौ संरक्षणीयौ यज्ञसंरक्षणाय निवारणीयौ । गहादित्वाच्छः । तत्क्षणं स क्षणो यथा नातिवर्तेत नातिक्रमेत तथा ब्रूहीत्यन्वयः ॥ १।३०।२,३ ॥
एवं विश्वामित्रे पृष्टे दीक्षया तस्य मौनित्वादृषय ऊचुः अद्येति । मौनित्वं च गमिष्यति । अद्यापि दीक्षितत्वान्मौन्ये वातः परमपि षड्रात्रपर्यन्तं मौनित्वं प्राप्स्यतीत्यर्थः ॥ १।३०।४,५ ॥
यत्तौ सन्नद्धौ । परमधन्विनावित्यार्षम् । विश्वामित्रं तद्यज्ञम् ॥ १।३०।६ ॥
काले पञ्चाहोरात्रलक्षणे । षष्ठे ऽहन्यागत इति च्छेदः । प्राप्त इत्यर्थः । यद्वा षष्ठे ऽहनि गते । रात्रावित्यर्थः । यत्तः सज्जः । समाहित एकाग्रचित्तः ॥ १।३०।७ ॥
उपाध्यायो ब्रह्मा । पुरोहित उपद्रष्टा । इदमृत्विगन्तराणामप्युलक्षणम् । इदं ज्वलनं “राक्षसागमनसूचक उत्पात” इत्याहुः ॥ १।३०।८ ॥
दर्भसहितचमसस्रुग्वती । समित्कुसुमोच्चयैश्च सहिता । इदं वेदीज्वलनं यज्ञोद्देश्यकम् ॥ १।३०।९ ॥
सम्प्रवर्तते स्म । आकाशे महाञ्छब्दः प्रादुरासीच्च ॥ १।३०।१० ॥
यथा प्रावृषि गगनमावार्य गगनमावृत्य महाशनिमहागर्जमहावर्षादिविचित्रकारी दृश्यते, तथा मायां प्रकटीकुर्वाणौ राक्षसावभ्यधावताम् ॥ १।३०।११ ॥
कौ तौ का च सा मायेत्यत्राह मारीच इत्यादि । अवासृजन्ववृषुः ॥ १।३०।१२ ॥
समुक्षिताम् । अभ्याश इति शेषः । अभिद्रुतो ऽभितः शालां प्रधावंस्तत्रादृष्ट्वा ततो दिवि तानपश्यत् ॥ १।३०।१३ ॥
आपतन्तौ स्वसम्मुखमागच्छन्तौ ॥ १।३०।१४ ॥
मानवास्त्रसमाधूतान्करिष्यामि पश्येति योजना ॥ १।३०।१५ ॥
ईदृशान्स्थितायुःशेषान्दुर्बलान्वा ॥ १।३०।१६ ॥
परमोदारम् परमश्रेष्ठम् ॥ १।३०।१७ ॥
स तेनेति । स मारीचः । सागरसम्प्लवे समुद्रमध्ये ॥ १।३०।१८ ॥
विचतनम् चैतन्यरहितम्, अत एव निघूर्णमानम् । शीतेषुरिति मानवास्त्रनामान्तरम् । दृश्य दृष्ट्वा ॥ १।३०।१९ ॥
शीतेषुं शीतेष्वित्यपरनामकं मानवास्त्रम् । मनुसंहितम् मनुप्रयुक्तम् । वियुज्यते । वियोजयतीति यावत् ॥ १।३०।२०२२ ॥
निजघान । दूरोत्सारणपूर्वकं नाशनं वायव्यास्त्रफलं बोध्यम् ॥ १।३०।२३,२४ ॥
निरीतिका निराबाधाः ॥ १।३०।२५ ॥
सत्यम् कृतम् । अन्वर्थनामकं कृतमित्यर्थः ॥ १।३०।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥ ३० ॥