०२९ सिद्धाश्रमगमनम्

तस्य रामस्य परिपृच्छतो वचनम् । श्रुत्वेति शेषः । व्याख्यातुम् । पृष्टोत्तरमिति शेषः ॥ १।२९।१ ॥

इह वने । इह प्रदेशे ॥ १।२९।२ ॥

तपश्चरणयोगार्थम् । स्वाचारेण लोकप्रवर्तनाय स्वतपश्चरणम् । वामनस्य करिष्यमाणवामनावतारस्य विष्णोः पूर्वाश्रमो वामनावतारात्पूर्वकाले तपोयोगार्थं परिगृहीत आश्रमः ॥ १।२९।३ ॥

सिद्धाश्रमत्वव्यवहारे बीजमाह हि यस्मात् । अत्र महातपा विष्णुस्तपःसिद्धो जात इति । एतस्मिन्काले विष्णोस्तपःकाले ॥ १।२९।४ ॥

मरुद्गणानावहादिवायुगणान् । कारयामास । स्वार्थे णिच् । चकारेत्यर्थः । यद्वा इन्द्रादिराज्यं स्वीयैः कैश्चिदेव कारयामासेत्यन्वयः ॥ १।२९।५ ॥

बलेर्यजमानस्य । व्यवहारं दृष्ट्वेति शेषः । साग्निपुरोगमाः । पुरोगमेनाग्निना सहिता इत्यर्थः । अग्निमुखत्वाच्च देवानां तस्मिन्पुरोगमत्वम् । स्वयमेवागम्य, न तु दूतमुखेन ॥ १।२९।६ ॥

यजते कर्त्रभिप्रायत्वादात्मनेपदम् । नन्वसुरस्य बलेर्देवद्विषो यागाद्यनुपपत्तिः । यागतर्पणीयदेवताभावात् । इन्द्रादीनां तद्द्वेष्यत्वात् । न च शब्दमात्रं देवतेति युक्तम् । अर्थवादप्रमाण्येन देवताया विग्रहवत्त्वस्योत्तरमीमांसायां सिद्धान्तितत्वादिति चेन्न । कर्मदेवाजानदेवभेदेन देवानां द्वैविध्यात् तत्र ये कर्मणा देवत्वं प्राप्तास्ते कर्मदेवाः । आजानदेवास्तु यज्ञमन्त्रार्थभूता मन्त्रेण नित्यसम्बद्धाः कर्मदेवेभ्यः प्राचीना एव । तत्कर्मदेवानां द्वेष्यत्वे ऽप्याजानदेवानां यज्ञे तर्प्यत्वेन न दोषः । विघ्नकर्तारो ऽप्यत्र कर्मदेवा एव । यज्ञाद्यधिकाराभावो ऽप्याजानदेवानामेव स्वयष्टव्यदेवतान्तराभावात् । कर्मदेवानां त्वस्त्येव । अत एवेन्द्रादीनां यज्ञादिश्रवणं नानुपपन्नमित्यन्यत्र विस्तरः । असमाप्तव्रते ऽसमाप्तयज्ञे । स्वकार्यमात्मीयानां देवानां कार्यम् । अभिपद्यताम् सम्पाद्यताम् ॥ १।२९।७ ॥

असमाप्तव्रत इत्युक्तेः प्रयोजनं दर्शनं दर्शयन्तस्तत्सम्पादन उपायमपि स्वयमेव वदन्ति ये चेति । अभिवर्तन्ते प्राप्नुवन्ति । इतस्ततो नानादेशेभ्यः । यत्र गोभूहिरण्यादिविषये । यच्च वस्तु याचन्ते तेभ्यस्तत्सर्वं यथावद्यज्ञसाद्गुण्यायावमानादिरहितं सत्कारपूर्वं प्रयच्छति । चौ एवार्थे ॥ १।२९।८ ॥

माया स्वतत्वाच्छादनेन प्राकृतमर्त्यादिभावप्रकाशिका शक्तिस्तस्या योगः सम्बन्धस्तमाश्रितः । वामनत्वप्राप्तावयं हेतुः वामनरूपस्यात्याश्चर्यत्वेन तत्प्रार्थनाविषयस्यावश्यं यजमानकर्तव्यतया तद्रूपप्रार्थनम् ॥ १।२९।९ ॥

एतस्मिन्नन्तरे देवैर्वामनावतारप्रार्थनसमये । रामेति द्विःसम्बोधनं स्वाश्रमसन्निधानेन रामपृष्टतन्महत्त्वकथनेन हर्षातिशयाच्च बोध्यम् ॥ १।२९।१० ॥

अदित्या सहितो व्रतं समाप्य देवीसहायस्तुष्टावेत्यन्वयः । देव्यदितिरेव । यद्वा देवी सरस्वती । वरदं विष्णुरूपपुत्रप्राप्त्युद्देशेन कृतव्रतान्ते वरदानोन्मुखम् ॥ १।२९।११ ॥

स्तोत्रप्रकारमाह तपोमयमित्यादि । अन्नमयो यज्ञ इतिवत्प्रचुरतपोयुक्तमित्यर्थः । तावतेतरेषां किमत आह तपोराशिं द्रष्टृनृ़णां सकलतपोजन्यफलप्राप्त्या भगवतस्तपोराशित्वम् । ननु तपसो ऽन्यत्वे ऽद्वैतश्रुतिबाधो ऽत आह तपोमूर्तिमिति । एवं च तपसस्तदनन्यत्वेन नाद्वैतहानिः । तपात्मकमिति “घञर्थे कविधानम्” इति कप्रत्यये तपनं तपो ज्ञानम् । “तप आलोचने” इति धात्वनुसारात् । तदात्मकं ज्ञानस्वरूपमित्यर्थः । अत एवातप्ततपसा द्रष्टुमशक्य इत्यतस्तपसा त्वामिति ॥ १।२९।१२ ॥

दृश्यमानं च वैराजं रूपमित्याह शरीर इत्यादि । अनिर्देश्यो ऽशक्यपरिच्छेदः ॥ १।२९।१३ ॥

वरमभीष्टम् । वरार्हो दिव्यवर्षसहस्रतपसा वरदानयोग्यः ॥ १।२९।१४ ॥

मारीचो मरीचिपुत्रः । अदित्या इत्यादेर्याचमानाया इत्यादिः शेषः ॥ १।२९।१५ ॥

याच्यमानवरमाह पुत्रत्वमित्यादि ॥ १।२९।१६ ॥

यवीयान्कनिष्ठः । साहाय्यम् बलिच्छलरूपम् ॥ १।२९।१७ ॥

अयमिति । यत्राश्रमे तपोमयस्त्वं मया देवैश्च अनुभूयस इत्यर्थः । सिद्ध एतदाश्रमस्थितिसाध्ये तपःकर्मणि सिद्धे सति निष्पन्ने सति प्रयोजनाभावादित उत्तिष्ठ । देवकार्यायेति शेषः ॥ १।२९।१८ ॥

अथ देवकार्यनियोगानन्तरम् ॥ १।२९।१९ ॥

आक्रम्य । त्रिभिः पदैरिति शेषः । लोकार्थी त्रैलोक्याक्रमणार्थी ॥ १।२९।२० ॥

नियम्य बद्ध्वा ॥ १।२९।२१ ॥

तेनैव वामनावतारकर्त्रा । मया विश्वामित्रेण ॥ १।२९।२२ ॥

पूर्वसर्गान्तकृतद्वितीयप्रश्नोत्तमाह एनमिति ॥ १।२९।२३ ॥

अनुत्तमम् सर्वोत्तमम् । हे तात, तदेतदाश्रमं यथा मम स्वभूतं तथा तवापि विष्ण्ववतारत्वादितिगूढो ऽभिसन्धिः ॥ १।२९।२४ ॥

पुनर्वसू द्वे तारे ॥ १।२९।२५ ॥

उत्पत्योत्पत्य । सन्तोषातिशयादिति शेषः ॥ १।२९।२६२८ ॥

अद्यैव प्रवेशदिन एव । कालविलम्बे फलाभालात् । सिद्धस्त्वद्यज्ञसिद्ध्यान्वर्थसिद्धसञ्ज्ञः । तव वचो" ऽत्रैव पुरुषव्याघ्रहन्तव्या दुष्टचारिण" इति यत्तत्सत्यमस्तु । राक्षसान्सर्वथा हनिष्य इति भावः ॥ १।२९।२९ ॥

नियतो गृहीतान्तःकरणः ॥ १।२९।३० ॥

कुमाराविव स्कन्दविशाखाविव ॥ १।२९।३१ ॥

प्रशुची अवतारत्वादशुचित्वसम्भावनाराहित्येन प्रकर्षतः शुची । नियमेन कर्तव्यं जाप्यं समाप्येत्यन्वयः । “दीक्षामध्ये नाग्निहोत्रम्” इति निषेधात् “अग्निहोत्रपदमौपासनहोमपरम्” इति केचित् ॥ १।२९।३२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥