०२८ अस्त्रसंहारोपदेशः

गच्छन्गमिष्यन् ॥ १।२८।१ ॥

त्त्र त्ित्र

संहारान् । ज्ञातुमिति शेषः । उपसंहारापरिज्ञाने पुनः प्रयोगानर्हतया ऽप्राप्तप्रायत्वात्तज्ज्ञानेच्छा । संहारो नाम प्रयुक्तस्यास्त्रस्य मन्त्रविशेषेण पुनः स्वात्मनि स्थापनम् ॥ १।२८।२ ॥

एवमिति । उक्तास्त्राणां संहारमार्गमुपदिश्य । अथानन्तरं तत्प्रश्नसन्तुष्टः परमऋषिरन्यान्यप्यस्त्राण्युपदिशति स्म ॥ १।२८।३ ॥

तदाह सत्यवन्तमित्यादि । ददामीति सर्वत्र शेषः ॥ १।२८।४६ ॥

सार्चिमाल्यादयो ऽन्ये । तांश्च ददामीत्यर्थः ॥ १।२८।७९ ॥

भास्वरांस्तेजोमयान् । प्रतीच्छ गृहाण । पात्रभूतः । अस्त्रदानस्येति शेषः । मम मत्तः ॥ १।२८।१० ॥

बाढमित्यङ्गीकारे । प्रहृष्टेनान्तरात्मना । प्रत्यग्रहीदिति शेषः । मूर्तिमन्तः स्वस्वदेवतारूपेण ॥ १।२८।११ ॥

प्रह्वाञ्जलिपुटाः प्रह्वा नम्रास्ते च ते ऽञ्जलेः पुटं संश्लेषो येषां तादृशाः ॥ १।२८।१२ ॥

इमे स्म । सन्निहिता वयमिति शेषः । शाध्याज्ञापय ॥ १।२८।१३ ॥

गम्यताम् । इदानीमिति शेषः । कार्यकालेषु मानसा मनसि संनिहिता भूत्वा साहाय्यं करिष्यथ ॥ १।२८।१४ ॥

प्रदक्षिणम् । सकलस्वदेवताधिदैवतरूपत्वाद्रामस्य प्रदक्षिणकरणम् ॥ १।२८।१५ ॥

एतदुत्तरम् “ततस्तु रामः काकुत्स्थः शासनाद्ब्रह्मवादिनः । लक्ष्मणाय च तान्सर्वान्स चास्त्रान्रघुनन्दनः । ससंहारान्सुसंहृष्टः श्रीमांस्तस्मै न्यवेदयत्” इत्यधिकं दृश्यते । तत्प्रक्षिप्तम् । बलातिबलयोरिवास्त्राणामपि युगपदुभयोर्विश्वामित्रेणैवोपदेशदानसम्भवात् । स तानुपदिष्टानस्त्रान्राघवो रामो ज्ञात्वा । मन्त्रतो मूर्तितः प्रयोगतश्चेति शेषः ॥ १।२८।१६ ॥

मेघसङ्काशम् कार्ष्ण्यान्नैबिड्याच्च । वृक्षखण्डम् वृक्षसमूहम् । किं वनसम्बन्धि, उत आश्रमसम्बन्धीति प्रश्नः ॥ १।२८।१७ ॥

वल्गुभाषैर्मधुरभाषैः ॥ १।२८।१८ ॥

रोमहर्षणात्ताटकया निर्जनीकरणात् । तस्य भयानकत्वेन रोमहर्षणत्वम् । अनया देशस्य सुखवत्तयेदमाश्रमपदं त्ववगच्छामि ॥ १।२८।१९ ॥

आश्रमपदं निर्णीय तत्कस्येति शंसेति पृच्छति सर्वमिति । सर्वं च शंस । सर्वशब्दविवक्षितं जिज्ञासान्तरं स्वयमेवाह सम्प्राप्ता इति । ते ब्रह्मघ्नास्तव यज्ञस्य विघ्नाय यत्र सम्प्राप्ताः स देशः कः ॥ १।२८।२० ॥

यत्र च तव याज्ञिकी क्रिया मया रक्षितव्या, यत्र च राक्षसा वध्याः, भगवन्, तस्य त्वदाश्रमस्य को देशः प्रदेश इत्यन्वयः ॥ १।२८।२१,२२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे ऽष्टाविंशः सर्गः ॥ २८ ॥