अथेति । उष्येत्यार्षम् । प्रहस्य विजयशालिरामदर्शनजसन्तोषजो हासः ॥ १।२७।१ ॥
सर्वशः सर्वाणि ॥ १।२७।२ ॥
देवासुरगणान्वापि । वाशब्दश्चार्थे । गन्धर्वोरगसहितदेवासुरगणरूपशत्रूनपि प्रसह्य बलेन जयिष्यसि जेष्यसि । यदि वधे दया तदा वशीकृत्य सम्मोहनास्त्रादिना जेष्यसि । अन्येषां तु का गणनेति भावः ॥ १।२७।३ ॥
दण्डचक्रादयो ऽस्त्रभेदाः ॥ १।२७।४,५ ॥
शूलवतम् शूलवतनामकम् । क्वचित्तु “शूलवरम्” इति पाठः । ब्रह्मशिरोस्त्रम् ब्रह्मास्त्रादन्यत् ॥ १।२७।६ ॥
गदे द्वे मोदकीशिखरीसञ्ज्ञे द्वे गदे गदासञ्ज्ञके अस्त्रे ॥ १।२७।७,८ ॥
अस्त्रं च । वारुणास्त्रं चेत्यर्थः । शुष्कार्द्रसञ्ज्ञके द्वे अशनी अशनीसञ्ज्ञके अस्त्रे ॥ १।२७।९ ॥
पिनाकिन इदं पैनाकम् । दयितम् । अग्नेरिति शेषः । शिखरं नाम शिखरमिति प्रसिद्धम् ॥ १।२७।१० ॥
प्रथमम् मुख्यम् ॥ १।२७।११ ॥
कङ्कालादीन्यसुरधार्यास्त्राणि ॥ १।२७।१२ ॥
यानि रक्षसां वधार्थं समर्थानि, एतानि ददामीत्यन्वयः । वैद्याधरं विद्याधरसम्बन्धि । नन्दनं नामासिरत्नमित्यन्वयः । यतो ऽस्त्रादसीनां प्रादुर्भाव इति भावः ॥ १।२७।१३,१४ ॥
दद्मीत्यार्षम् । प्रशमनम् रिपूणां क्रोधशामकमस्त्रम् । विलापनम् परिदेवनकारकम् ॥ १।२७।१५ ॥
मादनम् शत्रूणां मदजनकम् । दुर्धर्षमित्याद्यस्य विशेषणम् ॥ १।२७।१६ ॥
प्रतीच्छ गृहाण ॥ १।२७।१७ ॥
मौसलमासुरमुसलादन्यत् ॥ १।२७।१८२१ ॥
मन्त्रग्राममस्त्राणां मन्त्रमूर्तित्वात् । “ननु बलातिबलादानप्रसङ्गे ऽपि मन्त्रग्रामं गृहाणेत्युक्तमिति पुनरत्र दानं विफलमिति चेन्न गृहाणेत्येव तत्रोक्तत्वात् । न तु ददाविति । तेन तत्कालोपयोगिबलातिबलयोरेव तत्र दानमम्, इतरेषां त्वत्रेति विवेकः” इति कतककृतः । “वस्तुतो बलातिबले मन्त्रसमूहात्मके इति तद्रूपं मन्त्रग्राममिति तत्रार्थ इति न दोषः” इति परे ॥ १।२७।२२ ॥
सर्वेति । येषामुक्तदिव्यास्त्राणाम् । सर्वसङ्ग्रहणं सर्वधारणं कर्तुं दैवतैरपि दुर्लभं दुष्करम् । देवा अपि यत्किञ्चिदस्त्रमेव जानन्तीति भावः । तानि सर्वाण्यस्त्राणि राघवाय रामाय विश्वामित्रो न्यवेदयद्दत्तवान् । राघवाय रामाय लक्ष्मणाय चेत्यपि बोध्यम् । युगपदेवोभयोरुपदेश इति बोध्यम् ॥ १।२७।२३ ॥
जपतः रामाय दातुं तेषां वीर्यवत्तासम्पादनाय तान्यस्त्राणि जपत इत्यर्थः । उपतस्थुर्गृहीतभामण्डलवपूंष्युपतस्थुरुपस्थितानि । विश्वामित्रनियोगेन रामं चोपतस्थुः ॥ १।२७।२४ ॥
सर्वे ऽस्त्रदेवा मुदिताः स्वाधिदैवतरामसम्बन्धेन तुष्टाः । किंकरा अङ्गीकृतदासत्वाः ॥ १।२७।२५,२६ ॥
समालभ्योपस्पृश्य । मानसाः सदा मनसि स्थिताः । यद्यपि भगवतो रामस्य सर्वं विदितमेव, तथापि विद्या गुरूपदेशगृहीतैव फलदा नान्यथेति लोकान्बोधयितुं विश्वामित्रोपदेशग्रहणमिति बोध्यम् ॥ १।२७।२७,२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥ २७ ॥