मुनेरिति । अक्लीबम् धृष्टम् ॥ १।२६।१ ॥
पितुरिति । कौशिकस्य वचनमविशङ्कया कर्तव्यं त्वयेत्येवंरूपान्निर्देशान्नियोगात् । पितुर्वचनगौरवात्परमाप्तवाक्यत्वेनातिप्रमाणत्वात् । त्वद्वचनमवश्यं कर्तव्यत्वेन निश्चितमिति शेषः ॥ १।२६।२ ॥
कदैवं नियोगः कृत इत्यत्राह अन्विति । गुरवो वसिष्ठवामदेवाद्याः । अनवज्ञानहेतुरुक्त एव । तद्वचो विश्वामित्रवच इत्यनुशिष्ट इत्यन्वयः ॥ १।२६।३ ॥
सो ऽहमिति । ब्रह्मवादिनस्तस्यापापस्पर्शेन तत्सङ्कल्पादन्यस्यापि पापमपापं पुण्यं चेत्याह उत्तममिति । उत्कृष्टधर्ममित्यर्थः ॥ १।२६।४ ॥
पुण्यत्वमेवोपपादयति गोब्राह्मणेति । अप्रमेयस्य तव च हिताय । अस्य हितं स्वाज्ञापरिपालनेन सन्तोषरूपम् । इदमावर्तते । तव वचनं कर्तुमुद्यतो विचिकित्सारहितो ऽहं ताटकावधं करिष्यामीति पूर्वेणान्वयः ॥ १।२६।५ ॥
तीव्रम् परुषश्रवणम् ॥ १।२६।६ ॥
वित्रस्ता भीताः । मोहिता व्याकुलचित्ता जाता ॥ १।२६।७ ॥
तं शब्दं श्रुत्वा च क्रुद्धा स शब्दो यत्र यतो विनिःसृतस्तमभिनिध्याय शब्दनिःसरणावधिदेशं लक्षीकृत्याभ्यद्रवदिति योजना ॥ १।२६।८ ॥
प्रमाणेन शरीरप्रमाणेन ॥ १।२६।९ ॥
भैरवम् भयङ्करम् । दारुणम् घोरम् । अस्य वपुषः । चो ऽप्यर्थः । अभीरूणामपीत्यर्थः ॥ १।२६।१० ॥
एतामिति । विनिवृत्तामस्मत्सम्मुखागमनात्परावृत्ताम् । पलायितामिति यावत् ॥ १।२६।११ ॥
कर्णादिहरणमात्रे हेतुमाह नहीति । वीर्यम् परपराभवशक्तिम् । गतिमाकाशादिगतिम् । पाणिपादच्छेदेनेति शेषः । तावतैव देशहितस्य गुरुवचनानुष्ठानस्य च सिद्ध्या शूरविगर्हितः स्त्रीवधो ऽनुचित इति भावः ॥ १।२६।१२ ॥
राममेव विश्वामित्रस्य दुर्धर्षत्वेन तं विसृज्य । मानुषबुद्ध्या राममेवेत्यर्थः ॥ १।२६।१३ ॥
ताम् रामसम्मुखमभिधावन्तीम् । जयं च जयविषयकाशिषं च ॥ १।२६।१४ ॥
घोरं रज उद्धुन्वानेत्यन्वयः । रजोमेघेन रजो ऽन्धकारेण ॥ १।२६।१५ ॥
मायां समास्थाय । अन्तर्धानं गत्वेति यावत् । चुक्रोध । स्त्रीत्वप्रयुक्तदाक्षिण्यं विसृज्येति शेषः ॥ १।२६।१६ ॥
पत्रिभिरिति । एकैकस्य बहुधा खण्डनाभिप्रायेण ॥ १।२६।१७ ॥
हृते कर्णाग्रे नासिका च यस्यास्ताम् ॥ १।२६।१८ ॥
अनेकशो रूपाणि कृत्वान्तर्धानं गता सती स्वमायया राघवौ मोहयन्ती ॥ १।२६।१९ ॥
भैरवमश्मवर्षमित्यन्वयः ॥ १।२६।२० ॥
घृणयालम् । स्त्री इति घृणा मास्त्वित्यर्थः । दुष्टचारिणी मायाशक्त्यान्तर्धानेन पाषाणादिवृष्टिकर्त्री । अतो घृणानुचिता ॥ १।२६।२१ ॥
घृणा नोचितेत्यत्र हेत्वन्तरमाह यज्ञविघ्नकरीति । मायया पुरा यावद्वर्धेत तावत्तत्कालात्पुरैव पूर्वमेवैषा वध्यताम् । सायंसन्ध्या पुरा प्रवर्तते प्रवर्तयिष्यत इत्यर्थः ॥ १।२६।२२ ॥
किं तत्रेत्याह रक्षांसीति । अश्मवृष्ट्येति करणे तृतीया ॥ १।२६।२३ ॥
शब्दमात्रेण लक्ष्यं सम्यङ्निश्चित्य । वेधकर्तृत्वसामर्थ्यं दर्शयन्नित्यर्थः ॥ १।२६।२४ ॥
अभिदुद्रावेति । अन्तर्धानं हित्वेति शेषः ॥ १।२६।२५ ॥
भीमसङ्काशाम् भीमरूपाम् ॥ १।२६।२६ ॥
अभिपूजयन् । अडभाव आर्षः । सहस्राक्षो विश्वामित्रमुवाचेत्यन्वयः ॥ १।२६।२७ ॥
किमुक्तवन्तस्तदाह मुने इति ॥ १।२६।२८ ॥
तोषिताः । वयमिति शेषः । अनेन कर्मणा त्वत्प्रवर्तितताटकावधरूपेण । स्नेहं दर्शय मदीयो ऽयमाप्तः शिष्य इति स्नेहमूलं व्यापारं प्रवर्तय । तमेव व्यापारमाह प्रजापतेरिति ॥ १।२६।२९ ॥
तपसा ज्ञानेन बलेन च भृतः पूर्णः । ते तव दानस्य पात्रभूतश्च राघवः । अतस्तस्मै कृशाश्वपुत्रान्निवेदय । तथा लब्धानामेवास्त्राणां कार्यक्षमत्वमिति भावः । अनुगमने शुश्रूषणे दृढनिश्चयः ॥ १।२६।३०,३१ ॥
पूजयन्तः स्तुवन्तो जग्मुरित्यन्वयः । प्रवर्तत इत्यस्य स्मेति शेषः ॥ १।२६।३२३४ ॥
मुक्तशापमपगतोपद्रवम् । यद्वा लब्धशापया ताटकया मुक्तम् ॥ १।२६।३५ ॥
प्रभातवेलां प्रतिबोध्यमान इति । विश्वामित्रेणेत्यादिः । जजागारेति शेषः ॥ १।२६।३६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥ २६ ॥