तत इति । नद्या गङ्गायाः ॥ १।२४।१ ॥
उपस्थाप्यानाय्य ॥ १।२४।२ ॥
राजपुत्रपुरस्कृत इति तृतीयातत्पुरुषः । तीर्त्वेति शेषः । अरिष्टं शुभं यथा भवति तथा । रिषेर्हिंसार्थत्वात् ॥ १।२४।३ ॥
ततार तर्तुमुपक्रान्तः । सरितम् गङ्गाम् । सागरं गच्छति जलपूर्णत्वरूपस्वरूपं प्रापयति ताम् । अन्तर्भावितण्यर्थः । अगस्त्यशोषितस्य समुद्रस्य गङ्गया पूरणं कृतमिति प्रसिद्धेः ॥ १।२४।४ ॥
तोयसंरम्भेण परस्परं तरङ्गसङ्घट्टक्षोभेण वर्धितमतिप्रवृद्धम् । निश्चयं सहज औपाधिको वेत्येतदन्यतरनिश्चयम् ॥ १।२४।५ ॥
ज्ञातुकाम इत्यस्य जात इति शेषः ॥ १।२४।६ ॥
भिद्यमानस्य परस्परसङ्घट्टमानस्य ॥ १।२४।७ ॥
निश्चयम् निश्चयजनकहेतुम् ॥ १।२४।८ ॥
तेन मनोनिर्मितत्वेन । तस्मात्सरसो या सुस्राव सेत्यन्वयः ॥ १।२४।९ ॥
सरसो यौति प्रवर्तत इति सरयूः । सरःप्रवृत्तेति तद्योगनिर्वचनम् । पुण्यत्वे हेतुर्ब्रह्मसरश्च्युतत्वम् । तस्या अयम् । सन्धिरार्षः । या जाह्नवीमभिवर्तते तया सह सङ्गच्छते तस्या अयं शब्द इत्यर्थः ॥ १।२४।१० ॥
ताभ्याम् सरयूगङ्गाभ्याम् ॥ १।२४।११ ॥
विक्रमः पादविक्षेपः । घोरसङ्काशम् भयङ्करदर्शनम् ॥ १।२४।१२ ॥
अविप्रहतम् सार्थगमागमाभावादक्षुण्णम् । झिल्लिका कीटविशेषः ॥ १।२४।१३ ॥
भैरवैर्भयङ्करैः । श्वापदानि दुष्टमृगाः । दारुणारवैर्दारुणशब्दैः । शकुन्तैर्भासैः । शकुनैः सर्वपक्षिभिः । भैरवस्वनैर्वाश्यद्भिरतिभैरवं शब्दं कुर्वद्भिः ॥ १।२४।१४ ॥
शोभितम् युक्तम् । धवादयो वृक्षविशेषाः ॥ १।२४।१५ ॥
किं नु कुतो नु ॥ १।२४।१६ ॥
यस्य प्राणिनः स श्रूयतामित्यन्वयः । स्फीतौ समृद्धौ ॥ १।२४।१७ ॥
मलदाः करूषा इति बहुवचनं शब्दस्वभावकृतम् । देवनिर्माणेन देवयत्नेन निर्मितौ । मलेनाशुच्याचारेण ॥ १।२४।१८ ॥
क्षुधा बुभुक्षया । समभिप्लुतमित्यनुकृष्यते । ब्रह्महत्या वृत्रस्य ब्रह्मसन्तानत्वात् । देवा वस्वादयः ॥ १।२४।१९ ॥
कलशैर्गङ्गाजलपूर्णघटैः । प्रमोचयन्प्रामोचयन् । कारूषम् क्षुत् । दत्त्वा त्यक्त्वेत्यर्थः ॥ १।२४।२० ॥
शरीरजमिति पूर्वान्वयि । प्रपेदिरे । देवा इति शेषः ॥ १।२४।२१ ॥
ततः । तदेत्यर्थः ॥ १।२४।२२ ॥
यस्मान्ममाङ्गमलधारिणौ तस्मात्ख्वायतिं गमिष्यत इति पूर्वेणान्वयः ॥ १।२४।२३ ॥
शक्रेण कृतां देशस्य पूजां दृष्ट्वा पाकशासनं साध्वित्यब्रुवन्निति पूर्वेणान्वयः ॥ १।२४।२४ ॥
कस्यचित्कियतः कालस्य । अपगम इति शेषः ॥ १।२४।२५ ॥
भद्रं त इति विश्वामित्रस्याशीर्वचनं बालकत्वेन तादृशयक्षिणीनामश्रवणेन त्रासो मा भूदिति । यद्वा ताटका नाम ते भद्रम् । प्रथमशौर्यस्थानत्वेन शौर्यप्रसिद्धिकरत्वरूपं भद्रत्वमस्या इति बोध्यम् ॥ १।२४।२६२८ ॥
सेयम् । या विनाशयति सेत्यर्थः । आवृत्य निरुध्य । अर्धमतिक्रान्तमत्यर्धं तादृशे योजने ॥ १।२४।२९ ॥
यतश्चेदं ताटकावनमस्माभिर्गन्तव्यमत एव च हेतोर्हे राम, स्वबाहुबलमाश्रित्येमां जहि ॥ १।२४।३० ॥
ननु स्त्री कथं हन्तव्या तत्राह मन्नियोगादिति । मदाज्ञया स्त्रीवधशङ्का त्यज । ईदृशम् ताटका ऽ ऽक्रान्तम् ॥ १।२४।३१ ॥
अद्यापि न निवर्तते । अत्र पूर्वस्थितो जन इति शेषः ॥ १।२४।३२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥