प्रभातायामिति । पर्णसंस्तरे मृदुपर्णादिपरिकल्पिते शयनीये । पूर्वश्लोके तृणशयन इत्युपलक्षणं बोध्यम् ॥ १।२३।१ ॥
कौसल्येति । हे राम, त्वया पुत्रेण कौसल्या सुपुत्रा शोभनपुत्रवती । अतस्तादृशस्य सुपुत्रस्य तवास्मिन्समये निद्रानुचिता । यतः पूर्वा सन्ध्या प्रवर्तते प्रातःसन्ध्या प्रवर्तते । अत उत्तिष्ठ । दैवंम् देवताध्यानम् । आह्निकम् शौचादिक्रिया ॥ १।२३।२ ॥
स्नात्वा कृतोदकौ कृतार्घ्यदानौ । इदं तावत्पर्यन्तकर्तव्यक्रियामात्रोपलक्षणम् । परमं जपम् सावित्रीम् ॥ १।२३।३ ॥
अभितस्थतुः । सम्मुखौ स्थितावित्यर्थः ॥ १।२३।४ ॥
प्रयान्तौ गच्छन्तौ ॥ १।२३।५ ॥
तत्र गङ्गासरयूसङ्गमप्रदेशे । तप्यताम् तपताम् । यक्छान्दसः । ऋषीणामाश्रमपदं ददृशाते इत्यनुकर्षः ॥ १।२३।६ ॥
तम् परमरमणीयम् ॥ १।२३।७ ॥
वसते वसति । तङ् छान्दसः ॥ १।२३।८ ॥
प्रहस्य बालकवचनश्रवणजसन्तोषाद्धासः । सर्वज्ञो ऽप्येवं नाटयतीति वा । यस्य पूर्वो यस्य पूर्वकालाधिष्ठेयो ऽभूत्स श्रूयतामित्यन्वयः ॥ १।२३।९ ॥
मूर्तिमाञ्छरीरधरः । समाहितम् समाहितचित्तम् । स्थाणुम् रुद्रम् ॥ १।२३।१० ॥
कृतोद्वाहं समाधेः कृतव्युत्थानम् । कालोचितविलासदेशं गच्छन्तं देवेशं दुर्मेधाः कामो धर्षयामास चित्तविकारोत्पादनेनाभिभूतवान् । ततो महात्मना रुद्रेण ज्ञातापराधेन हुकृतः चक्षुषावध्यातो दृष्टश्चेत्युत्तरेणान्वयः ॥ १।२३।११ ॥
व्यशीर्यन्त विशीर्णानि । सर्वगात्राणि सर्वे ऽवयवाः ॥ १।२३।१२ ॥
तत्र प्रसिद्धतरे ऽस्मिन्नाश्रमे । हतम् नष्टम् । हशब्दः प्रसिद्धौ ॥ १।२३।१३ ॥
ततो भयात्पलायमानो यत्र देशे स कामो ऽङ्गं मुमोच सो ऽङ्गविषयो ऽङ्गदेश इति विख्यात इति शेषः ॥ १।२३।१४ ॥
तस्य स्थाणोः । इमे मुनय इदानीमिह तपस्यन्तः । तस्य रुद्रस्य । पुरा पूर्वकालसन्तानपरम्परया शिष्याः । अत एव धर्मपराः । अत एव तेषां पापं न विद्यते ॥ १।२३।१५ ॥
सरितोर्गङ्गासरय्वोः ॥ १।२३।१६ ॥
स्नानादिना शुचयो भूत्वा पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् । हे इति पृथक्पदं वा । परो युक्ततरः ॥ १।२३।१७ ॥
स्नाता इत्यादीनि तदाश्रममुनिविशेषणानि । तेषां संवदताम् तेषु संवदत्सु । तानदृष्ट्वापि तपोमहिमजातदीर्घत्ववता ऽत एव विप्रकृष्टार्थग्राहिणा चक्षुषा रामाद्यागमनं विज्ञायेत्युत्तरेणान्वयः ॥ १।२३।१८ ॥
आतिथ्यमतिथ्यर्हं भोजनादि ॥ १।२३।१९ ॥
प्रश्चाद्भगवतो ऽपि मनुष्यरूपधारित्वेन विश्वामित्रे गुरुत्वनाटनेन चादौ विश्वामित्रे ऽर्घ्यादि दत्त्वा पश्चाद्रामे ददुः । अभ्यरञ्जयन् । अडभाव आर्षः । तदाश्रमस्थानृषीनिति शेषः । यद्वा सत्कारं समनुप्राप्य तं प्रापय्य विश्वामित्रादींस्तदाश्रमस्था ऋषयो ऽभ्यरञ्जयन्नित्यर्थः ॥ १।२३।२० ॥
अजपन्नदीतीरे । ते विश्वामित्राद्या ऋषयश्च । तद्वासिभिर्मुनिभिः सह स्वसाहित्येनानीताः संवेशनाय स्वाश्रमं प्रापिताः ॥ १।२३।२१ ॥
कामाश्रमपदे सर्वकामपरिपूरके भर्गाश्रमे ॥ १।२३।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥