०२२ रामलक्ष्मणनिष्क्रमणम्

तथेति । सलक्ष्मणं राममाजुहाव । तयोरविनाभावज्ञानादिति शेषः ॥ १।२२।१ ॥

कृतस्वस्त्ययनम् कृतमङ्गलाचरणम् । मङ्गलैर्मङ्गलसूचकैर्मन्त्रैः । किं च तत्त्वज्ञानप्रतिपादकवाक्यैः अभिमन्त्रितम् । बोधितमित्यर्थः । तद्बोधनं च योगवासिष्ठे प्रसिद्धम् ॥ १।२२।२ ॥

राजापि तद्वाक्यश्रवणेन सुप्रीतमनाः सन्रामं ददौ ॥ १।२२।३ ॥

यात्रायां शकुनमाह तत इति । ववावित्यस्य पृष्ठत इति शेषः । विश्वामित्रगतं तत्सम्बद्धम् । राजीवम् पद्मम् ॥ १।२२।४ ॥

प्रयाते प्रायणोन्मुखे । स्वप्रयोजनोपक्रमाद्देवानां दुन्दुभिस्वनसहिता पुष्पवृष्टिः, शङ्खादिघोषस्तु स्वनगरजः ॥ १।२२।५ ॥

धन्वी धनुर्विद्याकृतश्रमः ॥ १।२२।६ ॥

कलापिनौ सतूणीरौ । शौभयानौ प्रकाशयन्तौ शस्त्रतेजसा । मुगभाव आर्षः । त्रिशीर्षाविव पन्नगौ । स्कन्धस्थितधनुषा पृष्ठबद्धतूणीरेण मस्तकेन च त्रिशीर्षत्वम् । यद्वा प्रत्येकं तूणीरद्वयधारणात् त्रिशीर्षत्वम् । धनुषः पाणावुक्तत्वात् । अत्रेदं तूणीरादि वैष्णवं गरुडेन दत्तं रामाय ताटकासुबाहुवधाय मारीचस्य समुद्रे पातनाय च । न हि प्राकृतशस्त्रसाध्यमेतत् । तदुक्तं पाद्मे “पक्षी तार्क्ष्यः समागम्य त्रीणि चास्त्राणि कार्मुकम् । सर्वभूतैरदृश्यः सन्दत्त्वा ताभ्यां पुनर्ययौ ॥ " इति। अस्त्राणि शस्त्राणि खङ्गचर्मतूणीररूपाणि ॥

१।२२।७ ॥

अक्षुद्रावनल्परूपवीर्यादिमन्तौ । शोभयन्तौ । विश्वामित्रमिति शेषः ॥ १।२२।८ ॥

बद्धं गोधाचर्मकृतमङ्गुलित्राणं ययोस्तौ । “गोधा हस्तत्राणम्” इति कश्चित् । अङ्गुलित्राणस्य पौनरुक्त्यापत्तेस्तच्चिन्त्यम् ॥ १।२२।९ ॥

शोभयेतामित्यडभावश्छान्दसः ॥ १।२२।१० ॥

स्थाणुम् रुद्रम् । पावकी स्कन्दविशाखौ । अध्यर्धयोजनमर्धाधिकयोजनम् । षट्क्रोशमिति यावत् ॥ १।२२।११ ॥

तावद्दूरगमनेन बालकयोः क्षुत्तृट्पीडाप्रादुर्भावस्यावश्यकत्वान्महर्षिर्विनाप्यन्नं परमतृप्तये दिव्ये विद्ये उपदेष्टुमाह वत्स रामेत्यादि । सलिलं गृहाण शुद्धाचमनं कुरु । कालस्यान्नभोजनकालस्य । पर्ययो ऽतिक्रमः ॥ १।२२।१२ ॥

मन्त्रग्रामम् बलाविद्यासञ्ज्ञकं मन्त्रसमूहम् । तथातिबलासञ्ज्ञकं च । अन्ये तु “प्रागुक्तदिव्यास्त्रशतरूपं मन्त्रसमूहम् । तथा प्रकृतोपयोगिन्यौ बलातिबलाख्ये च विद्ये इत्यर्थः । परन्त्वत्र बलातिबलयोरेव दानम् । अन्येषां तु दानमग्रे भविष्यति” इत्याहुः । गृहाण त्वमित्युपलक्षणं लक्ष्मणस्यापि । क्षुत्पिपासाक्षान्तिरूपफलस्योभयोरपि दर्शनादपेक्षणाच्च । श्रमो बहुदूरगमनादौ । तन्मूलको ज्वरो ऽपि । न विपर्ययो ऽन्यथाभावः । तद्विद्याजपेन भविष्यतीति शेषः ॥ १।२२।१३ ॥

प्रमत्तमकृताचमनादिकम् । धर्षणमभिभवः । अस्तीति वर्तमानसामीप्ये भविष्यति लट् । सर्वत्र तद्विद्यालाभो हेतुः ॥ १।२२।१४ ॥

न केवलं पृथिव्यामेवेत्याह त्रिष्वित्यादि ॥ १।२२।१५ ॥

ज्ञानम् तत्त्वज्ञानम् । बुद्धिनिश्चय ऐहिकविषयः । वादिनम् प्रतिवक्तव्ये । उत्तर इत्यर्थः ॥ १।२२।१६ ॥

तव सदृशो न । केनापि गुणेनेति शेषः । सर्वज्ञानस्य मातराविति । अप्रतिभामूलक्षुधादिनिवृत्तिसामर्थ्यवत्त्वात्सर्वज्ञानजनके इत्यर्थः ॥ १।२२।१७,१८ ॥

विद्याद्वयमधीयाने । त्वयीति शेषः । “यशश्चाप्यतुलं भुवि” इति पाठे भविष्यतीत्यपि शेषः । तयोर्विद्ययोस्तादृशसामर्थ्ये कारणमाह पितामहेत्यादि । तन्निर्मितत्वात्तत्सुते ॥ १।२२।१९ ॥

प्रदातुम् । मम बुद्धिरिति शेषः । सदृशः । तद्दानयोग्य इत्यर्थः । एते एतद्विद्याप्रदानयोग्याः । बह्विति लुप्तविभक्तिकम् । बहव इत्यर्थः । विपुला इति यावत् ॥ १।२२।२० ॥

तपसा मदीयेन सम्भृते पूर्णे । बहुरूपे शास्त्रोक्तफलादधिकफलप्रदे । यद्वा तपसा सर्वतपःप्राप्यत्वेन तपोरूपेण भवता सम्भृते । धृते इत्यर्थः । जलं स्पृष्ट्वाचम्य ॥ १।२२।२१ ॥

विद्यासमुदितो विद्यासम्बद्धः । स्व(त)तो विक्रमवानपि विद्यासम्बन्धादधिकविक्रम इत्यर्थः ॥ १।२२।२२ ॥

सहस्रेत्यादि पूर्वान्वयि । कुशिकात्मजो विश्वामित्रः । गुरुकार्याणि गुरुविषयाणि कार्याणि “पूर्वोत्थायी पश्चात्सन्निवेशी” इत्यादीनि तानि सर्वाणि वियुज्य । उपदिश्येत्यर्थः । सप्तम्यन्तपाठे गुरुकार्याणि पादोपसङ्ग्रहणादीनि कुशिकात्मजे नियुज्य । कृत्वेत्यर्थः । सरय्वाम् तत्तीरे ॥ १।२२।२३ ॥

दशरथेत्यादि षष्ठ्यर्थे चतुर्थ्यः । तृणाद्यनुचितशयनोषितयोरपि रात्रेः सुखव्युष्टव्ते हेतुः कुशिकसुतवचोनुलालितत्वम् । विबभौ । व्युष्टेति यावत् ॥ १।२२।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥ २२ ॥