०२१ वसिष्ठवचनाद् रामप्रेषणम्

तदिति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि गद्गदान्यक्षराणि यस्मिंस्तत्तस्य वचनं श्रुत्वेत्यन्वयः ॥ १।२१।१ ॥

अयं विपर्ययः प्रतिज्ञाहानिरूपो राघवाणामयुक्तः । यतो ऽयमस्य कुलस्य विपर्ययो नाशः । विपर्ययपदावृत्तिर्बोध्या ॥ १।२१।२ ॥

यदिदं प्रतिज्ञाहानिरूपं क्षमम् युक्तम् । इदं तत्फलं च यदि क्षमं सह्यं तदा यथागतं गमिष्यामि । मिथ्यावादी त्वं सुहृद्वृतः सुखी भवेति विपरीतलक्षणयोक्तिः ॥ १।२१।३ ॥

धीमत इत्यत्र रोषं दृष्ट्वेति शेषः । जगदन्यथाकरणसमर्थो ऽयमद्य क्रुद्धः किं करिष्यतीति देवानां भयम् ॥ १।२१।४ ॥

त्रस्तरूपमतिशयेन त्रस्तम् । जगत् त्रैलोक्यम् ॥ १।२१।५ ॥

साक्षाद्धर्म इव । इवशब्द एवार्थे । दृढारोपं रूपकमिदम् ॥ १।२१।६ ॥

स्वधर्मम् सत्यप्रतिज्ञत्वम् ॥ १।२१।७ ॥

इष्टमश्वमेधान्तयागः, आपूर्तं वापीकूपादिनिर्माणम्, तद्वधस्तत्फलनाशः । भूयाद्भवेत् । भविष्यतीति यावत् । करिष्ये इति प्रतिश्रुत्य प्रतिज्ञाय । सन्धिरार्षः । उक्तं वाक्यमकुर्वतो ऽननुतिष्ठतः ॥ १।२१।८ ॥

कृतास्त्रम् शिक्षितास्त्रम् । शक्ष्यन्ति सहिष्यन्ते । प्रधर्षयितुमिति शेषो वा । अग्निना रक्षितममृतमिवेत्युपमा । अनेन पुत्रविपत्तिभीत्यपनयः ॥ १।२१।९ ॥

न केवलं विश्वामित्रकृतसंरक्षणेनैव रामस्य दुर्धर्षत्वम्, किन्तु स्वतो ऽपीत्याह रामविश्वामित्रयोः श्लिष्टवर्णनेन एष इति । एष रामो विश्वामित्रश्च । रामपक्षे विद्याधिकः सहजज्ञानशक्तिः । तपसो मननादेः परायणं प्राप्यः । विश्वामित्रपक्षे तपस आश्रयः ॥ १।२१।१० ॥

रामपक्षे ऽन्यः पुमान् । अविद्यावृतः पुमानित्यर्थः । विश्वामित्रपक्ष एनमस्त्रगणम् ॥ १।२१।११,१२ ॥

ननु देवाद्यनवगतसर्वास्त्रप्राप्तिर्ऋषेः कथमित्यत आह सर्वेति । कृशाश्वः प्रजापतिष्वेकः । “परमधार्मिकाः” इति पाठे परमधार्मिकप्रतिष्ठावन्तः इत्यर्थः । एतेनापि दुर्लभत्वं ध्वनितम् । दत्ताः । शिवेनेति शेषः । प्रशासति । प्रशास्ति स्मेत्यर्थः । शबार्षः ॥ १।२१।१३ ॥

अस्त्राणां मातृप्राशस्त्यमप्याह ते ऽपीति । प्रजापतिसुते दक्षकन्ये तयोः सुताः । नैकरूपा अनेकरूपाः ॥ १।२१।१४ ॥

ते सूते । सुवाते इत्यर्थः । शस्त्राणि परविशसनकर्तृ़णि ॥ १।२१।१५ ॥

वराञ्श्रेष्ठान् । अप्रमेयान्गुणेयत्तया ऽपरिच्छेद्यान् । अरूपिणो ऽदृश्यमानरूपान् ॥ १।२१।१६ ॥

संहारानन्वर्थसंहारनामकान् । दुर्धर्षान्परैः सोढुमशक्यान् । दुराक्रामान् । दीर्घआर्षः । दुराक्रामानमोघान् ॥ १।२१।१७ ॥

अपूर्वाणाम् । अस्त्रविद्याविशेषाणामिति शेषः ॥ १।२१।१८२० ॥

वस्तुतो रक्षोनिग्रहे शक्तो ऽपि विश्वामित्रस्त्वत्पुत्रानुग्रहायैवं तं च याचत इत्याह तेषामिति । हितमतिरहस्यानन्यदुर्लभानेकविद्याप्रदानादिरूपम् ॥ १।२१।२१ ॥

मुमोदेति परस्मैपदमार्षम् । चस्त्वर्थः प्रसन्नचित्त इत्युत्तरं योज्यः । राघवस्य रामस्य । कुशिकात्मजाय रामं दातुम् । बुद्ध्या । अचिन्तयदिति शेषः ॥ १।२१।२२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकविंशः सर्गः ॥ २१ ॥