तदिति । निःसञ्ज्ञ इव निष्प्राण इव । रामे प्राकृतत्वबुद्ध्या राक्षसेभ्यो भयसम्भावनया दानप्रतिज्ञया च व्याकुलत्वान्मूर्च्छित इत्यर्थः । ततः सञ्ज्ञावान्गतमूर्च्छ इदं वक्ष्यमाणमब्रवीत् ॥ १।२०।१ ॥
ऊनेति । किञ्चिदूनानि षोडशवर्षाणि यस्य सः । “इदं च युद्धयोग्यत्वं प्रतिपादितम् । षोडशवर्षः क्षत्रियकुमार एष(व) कवचधरो यद्धार्ह इति शास्त्रात्” इति कतककृतः । अन्ये तु “ऊनषोडशवर्षशब्दस्य द्वादशवर्ष” इत्यर्थः । कौशिकयागरक्षणार्थमागतस्य रामस्य वयोविशेषमुद्दिश्य “बालो द्वादशवर्षो ऽयमकृतास्त्रश्च राघवः” इत्यरण्यकाण्डे रावणं प्रति मारीचोक्तेरित्याहुः । अरण्ये “बालः षोडशवर्षो ऽयम्” इत्येव पाठो रावणस्य भयातिशयार्थं वा मारीचस्यात्युक्तिः सेति कतकाशयः ॥ १।२०।२ ॥
इयमिति । “एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिं तु त्रिगुणामेकं विदुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्तिस्रश्चम्वस्तिस्रस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥ " इति। यस्याहमिति सन्धिरार्षः। पतिः पालकः। ईश्वरः स्वामी। योद्धेत्यस्य अस्मीति शेषः ॥
१।२०।३,४ ॥
गोप्ता । यज्ञस्येति शेषः । प्राणान्धरिष्यामि । जीविष्यामीत्यर्थः ॥ १।२०।५,६ ॥
रामगमने ऽनुपपत्तिमाह बाल इत्यादि । उनषोडशवर्षत्वादेव बालत्वव्यवहारः, स्नेहातिशयेन च तेनैवाकृतविद्यत्वव्यवहारः । अन्यथा “सर्वे वेदविदः शूराः”, “सर्वे ज्ञानोपसम्पन्नाः” इति पूर्वोक्त्या विरोधः स्यात् ॥ १।२०।७ ॥
न चेति । रक्षसामित्यस्य रण इति शेषः । कूटम् कपटम् । रामनयने बाधकमप्याह विप्रेत्यादि ॥ १।२०।८ ॥
उक्तानुपपत्तिपरिहारायाह यदि वेति ॥ १।२०।९ ॥
इतो ऽपि रामनयनमयुक्तमित्याह षष्टिरिति । अतीतानीति शेषः ॥ १।२०।१० ॥
कृच्छ्रेण दुःखेन । क्वचित् “दुःखेन” इत्येव पाठः । यज्ञदीक्षादिलक्षणेन । परमिकातिशयिता । स्वार्थे कः । चतुर्णामिति निर्धारणे षष्ठी । तेषां मध्ये ऽस्मिन्मम प्रीतिरधिकेत्यर्थः ॥ १।२०।११ ॥
प्रीत्याधिक्ये कारणमाह ज्येष्ठ इति । अनेन राज्ययोग्यता ध्वनिता । धर्मप्रधाने त्रिषु पुरुषार्थेषु धर्माधीनप्रवृत्तिके । राक्षसैर्युद्धे हि पाक्षिकनाशसम्भावनया राज्यविच्छेद एव भवेत् । धर्मेण प्रजापालनं च नान्यतो निर्वहेत् । अतो रामो नेतुमयोग्यः । अथ रामनयनस्य सर्वथायोग्यत्वं प्रतिपादयितुं रक्षःस्वरूपं पृच्छति किंवीर्या इति । के च ते किंनामानः ॥ १।२०।१२ ॥
कथंप्रमाणाः कीदृक्शरीरप्रमाणाः । रक्षन्ति । स्वामित्वेनेति शेषः । प्रतिकर्तव्यम् प्रतिविधेयम् । संहारः कथं कर्तव्य इत्यर्थः ॥ १।२०।१३ ॥
मया रण इत्यत्र प्रतिकर्तव्यमित्यनुषङ्गः ॥ १।२०।१४ ॥
स्थातव्यमिति । दुष्टभावानां तेषां सम्बन्धिनि रणे कथं स्थातव्यमिति च शंसेति सम्बन्धः । तत्र हेतुः वीर्येत्यादि ॥ १।२०।१५,१६ ॥
प्रसिद्धश्चायं रावण इत्याह श्रूयत इत्यादि ॥ १।२०।१७ ॥
यतो महाबलस्ततो यदानादरात्स्वयं यज्ञस्य विघ्नकर्ता न खल्वनादरात्स्वयं विघ्नाय नागच्छति तदा ॥ १।२०।१८ ॥
तेन रावणेन प्रेरितौ मारीचसुबाहू यज्ञविघ्नं करिष्यत इति सम्बन्धः ॥ १।२०।१९ ॥
अथ रावणनाम श्रुत्वा स्वयमेव निवृत्तिप्रतीकारप्रत्याशो राजाह इत्युक्त इति ॥ १।२०।२० ॥
अल्पभाग्यस्य त्वन्नियोगाकरणादिति शेषः । प्रसादयितुमाह दैवतमित्यादि ॥ १।२०।२१,२२ ॥
स त्विति । वीर्यमादत्ते । नाशयतीत्यर्थः । अतस्तत्सङ्ग्रामाद्वैमुख्यमपि न दोषायेति भावः । तस्य बलैर्मारीचादिभिः ॥ १।२०।२३ ॥
हे मुनिश्रेष्ठ, सबलः ससैन्यः । मम पुत्रैः सहितो वा भवानपि तेन योद्धुं न शक्त इत्यनुषङ्गः । अस्तु वा कथञ्चिद्भवतस्तथा सामर्थ्यम्, पुत्रं तु सर्वथा न दास्यामीत्याह कथमपीत्यादि । अमरप्रख्यममरतुल्यरूपमेव । न त्वमरमिति तात्पर्यम् । नैव दास्यामीत्यन्वयः ॥ १।२०।२४ ॥
अतिदुःखितोक्तित्वात्तस्य पुत्रकशब्दयोः(स्य) पौनरुक्त्यं न दोषः । पुत्रकमित्यनुकम्पायां कन् । अदाने हेत्वन्तरमप्याह अथेत्यादि । यतः सुन्दोपसुन्दपुत्रौ कालोपमौ यमतुल्यौ मारीचसुबाहू दैत्यकुलजसुन्दोपसुन्दाभ्यां यक्षकन्यायां जातत्वेनागस्त्यशापेन चातिक्रूरतमौ राक्षसत्वं प्राप्तौ । यतस्तौ यज्ञविघ्नकरौ अतः सुतं नैव दास्यामीत्यन्वयः ॥ १।२०।२५,२६ ॥
अन्यथा भवता ममानयने । अनुनेष्यामि । रामा ऽगमनायेति शेषः ॥ १।२०।२७ ॥
इतीति । सुहुतः प्रथमं शुष्कसमिद्भिर्हुतः पश्चादाज्यसिक्तो ऽग्निरिवेति योजना । उज्ज्वलितो रोषजज्वालाख्यचित्तवृत्तियुक्तः ॥ १।२०।२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे विंशः सर्गः ॥ २० ॥