०१९ विश्वामित्रकृत-रामयाचना

तदिति । अद्भुतविस्तरं दैवतं हि भवान्ममेत्याद्युक्तिरूपमाश्चर्यप्रपञ्चम् ॥ १।१९।१ ॥

एतत्तवैव सदृशम् । नान्यतो नान्यस्य । तत्र हेतुगर्भं विशेषणम् महावंशेत्यादि । वसिष्ठव्यपदेशिनो वसिष्ठनियोगवर्तिनः ॥ १।१९।२ ॥

यत्त्विति । तस्य तत्प्रतिपाद्यस्य कार्यस्य निश्चयं कर्तव्यत्वनिश्चयं सर्वथा करिष्यामीत्यङ्गीकारं कुरुष्व । कृत्वा च सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥ १।१९।३ ॥

अहमिति । सिद्ध्यर्थं यागार्थं नियमं दीक्षामातिष्ठ आस्थितो ऽस्मि । तस्य यज्ञस्य ॥ १।१९।४ ॥

व्रते त्विति । बहुशश्चीर्णे समाप्तिकल्पे । समाप्त्याम् समाप्तिसमये ॥ १।१९।५ ॥

नियमनिश्चये व्रतसङ्कल्पे । अवधूते नाशिते । तस्मिंस्तत्सङ्कल्पविषये यज्ञे च तथाभूते नाशिते सति ॥ १।१९।६ ॥

कृतश्रमः कृतवृथाप्रयासः । अत एव निरुत्साहः । तस्माद्देशादपाक्रमे निर्गतो ऽस्मि । ननु भवद्भिः शापेनैव कुतस्तौ न नाशितौ तत्राह न चेति । क्रोधमुत्स्रष्टुम् शप्तुम् ॥ १।१९।७ ॥

तत्र हेतुमाह तथाभूतेति । शापादिप्रवृत्त्यनर्हेत्यर्थः । अतः स्वपुत्रमित्यादि ॥ १।१९।८ ॥

बालानां कपोलसमीपशिखा काकपक्षः । नन्वनेन बालेन किं करिष्यसीत्यत्राह शक्त इत्यादि । मया । पितृस्थानीयेनेति शेषः । दिव्यं तेजो वैष्णवं तेन । युक्त इति शेषः ॥ १।१९।९ ॥

विकर्तारो विघ्नकर्तारस्तेषां विनाशने ऽपि शक्तः, किं पुनर्मद्यज्ञरक्षणे । मारीचसुबाहुसेनाभिप्रायेण तेषामिति बहुवचनम् । राज्ञो दानप्ररोचनायाह श्रेयश्चेति । बहुरूपमस्त्रदानविवाहादिरूपम् । च किञ्च मुखपाण्डुत्वादिनिवर्तकं बहुरूपं विपुलतरं परमार्थरूपं च श्रेय आत्मस्वरूपं प्रदास्यामि वसिष्ठद्वारा दापयिष्यामि । बोधयिष्यामीत्यर्थः । रामस्य सुद्धमुक्तस्वभावत्वे ऽपि लोकानां तत्त्वबोधनमेव रामबोधनस्य फलम् । सनत्कुमारशापवशात्तिरोहितस्य ज्ञानस्य प्रादुर्भूतिश्च फलमिति बोध्यम् । तदुक्तमादित्यपुराणे “विज्ञानमेतदखिलं विश्वाकारमबुद्धयः । पश्यन्ति ज्ञानिनस्त्वेकमात्मरूपमिदं जगत् । दुर्विज्ञेयं वसिष्ठेन रामाय कथितं पुरा ॥ " इति स्कन्दं प्रति शिवोक्तेः। योगवासिष्ठे स्फुटतरमेतत्। मुख्यश्रेयश्च विष्णुपुराणे द्वितीयांशे “तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विज। तद्वदाखिलविज्ञानजलवीच्युदधिर्भवान् ॥

" इति राजप्रश्ने पुत्रस्वर्गादीनामापेक्षिकश्रेयस्त्वे ऽपि न परमार्थरूपं श्रेयस्त्वमित्युक्त्वा “एको व्यापीसमः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः ॥ परं ज्ञानमयो ऽसद्धिर्नामजात्यादिभिर्विभुः । न योगवान्न युक्तो ऽभून्नैव पार्थिव योक्ष्यते ॥ तस्यात्मपरदेहेषु सतो ऽप्येकमयं हि यत् । विज्ञानं परमार्थो ऽसौ” इति जडभरतोक्त्यात्मस्वरूपमेव परमार्थश्रेयस्त्वेन दर्शितम् । तथात्रैव “आत्मा ध्येयः सदा भूप योगयुक्तैस्तथापरम् । श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मना ॥ " इत्युक्तं प्रघट्टकान्तरे तथा जीवपरमात्मनोर्यः संयोग उपाधिनिर्गमरूपः स परं श्रेय इति तदर्थः। “विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥

" इति प्रघट्टकान्तरोक्तेः “परमात्मात्मनोर्योगः परमार्थ इतीर्यते” इति तेनैवोक्तत्वाच्चेत्यलम् ॥ १।१९।१० ॥

त्रयाणाम् । त्रिष्वित्यर्थः । येन मद्दत्तास्त्रादिना । आसाद्य । युद्ध इति शेषः ॥ १।१९।११ ॥

न चेति । तत्र हेतुमाह वीर्येत्यादि । रामस्तर्हि कथं हन्यादित्यत्राह कालेति ॥ १।१९।१२ ॥

रामस्य रामवीर्यस्य । पुत्रगतम् पुत्रविषयम् । राम इति शेषः । नायं तव पुत्रः । किं तर्हि दिव्यमेतत्तेज इति तात्पर्यम् ॥ १।१९।१३ ॥

तत्र हेतुमाह अहमिति । हताविति भूतप्रत्ययेन वधस्य सुकरत्वं ध्वन्यते । रामं निरतिशयवैभवविष्णुतेजों ऽशावताररूपम् ॥ १।१९।१४ ॥

स्वज्ञाने संवादमाह वसिष्ठो ऽपीत्यादि । ते ऽपि एवम् । विदुरिति शेषः । त इति त्वमित्यर्थे । धर्मलाभं परमं यशश्च यदि स्थिरमिच्छसीत्यन्वयः । तेन रामदानं तवापि फलदमित्याशयः ॥ १।१९।१५ ॥

मे मह्यम् । किञ्च मन्त्रिणां सम्मते ऽपि दातुमर्हसीत्याह यदीत्यादि । अभ्यनुज्ञाम् रामदानविषयकानुमतिम् ॥ १।१९।१६ ॥

ततस्तदा । अभिप्रेतम् ममेष्टम् । तव चासंसक्तमतीतबाल्यत्वान्मातापितृसक्तिरहितम्, ईश्वरत्वात्क्वाप्यनासक्तमिति व्यङ्ग्यम् ॥ १।१९।१७ ॥

नापि नातिचिरविप्रयोगस्ते पुत्रेणेत्याह दशेति । यज्ञसम्बन्धिदशरात्रात्मकः काल एव राममपेक्षत इति शेषः । हे राघव, ममायं यज्ञस्य कालो यथा यथोक्तं कालं नात्येति नातिक्रामति । ततो ऽधिको विलम्बो न भवतीत्यर्थः ॥ १।१९।१८ ॥

तथेति । अत्रापि पूर्वश्लोकान्त्यार्धमावृत्त्या सम्बध्यते । हे राघव, ममायं यज्ञस्य कालो नात्येति नातिपतेत्तथा कुरुष्वेत्यन्वयः । धर्मार्थसहितम् । अर्थो रामस्यास्त्रादिलाभरूपः ॥ १।१९।१९,२० ॥

चलनम् कम्पः । ततोत्थायेति च्छान्दसम् । व्यषीदतेत्यप्येवम् । भयान्वितो रक्षोनिमित्तपुत्रवियोगभयान्वितः ॥ १।१९।२१ ॥

इतीति । अतीवात्यर्थं हृदयस्य हृदयपुण्डरीकवर्त्यात्मनो मनसो ऽन्तःकरणस्य च विदारणं पीडाजनकम् । शुश्रुवाञ्छुश्राव । महान्नरपतिः । सर्वाभौम इति यावत् । महात्मा महाबुद्धिः । व्यथितमना मूर्च्छितचित्तः । अभवदवस्थातुमशक्त आसनात्प्रचचाल च । निःसञ्ज्ञः पपातेत्यर्थः ॥ १।१९।२२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥ १९ ॥