प्रासङ्गिकदेवतावतारमुक्त्वा प्रकृतः प्रधानावतार उच्यत निर्वृत्त इत्यादि । निर्वृत्ते समाप्ते । “पुत्रोत्पत्तिं विचिन्तयन्” इत्यन्तो वृत्तानुवादः । हयमेध इत्यस्य पुत्रेष्टियुत इति शेषः ॥ १।१८।१ ॥
प्रविवेश प्रवेशाभिमुखो बभूव ॥ १।१८।२ ॥
मुनिपुङ्गवम् वसिष्ठम् ऋष्यशृङ्गं च ॥ १।१८।३ ॥
शुभ्राणि दशरथदत्तवस्त्राभरणादिनात्युज्ज्वलानि । अत एव प्रहृष्टानि ॥ १।१८।४ ॥
द्विजोत्तमान्वसिष्ठादीन् ॥ १।१८।५ ॥
सानुयात्रेण सभूत्येन राज्ञा दशरथेनानुगम्यमान ऋष्यशृङ्गः प्रययौ स्वस्थानमिति शेषः ॥ १।१८।६ ॥
सर्वान्वसिष्ठादीनपि । तत्र पुरे ॥ १।१८।७ ॥
ऋतूनामिति प्रथमार्थे षष्ठी । समत्ययुः समतीताः । नावमिके नवम्यां तिथौ । स्वार्थे ठक् ॥ १।१८।८ ॥
अदितिदैवत्ये पुनर्वसौ । पञ्चसु रविभौमशनिगुरुशुक्रेषूच्चसंस्थेषु मेषमकरतुलाकर्कमीनस्थेषु सचन्द्रगुरौ कर्कटे लग्ने स्थिते सति ॥ १।१८।९ ॥
प्रोद्यमाने तत्र लग्ने । उदयं गच्छति सतीत्यर्थः । सर्वलोकनमस्कृतम् । अस्य सर्वलोकरूपश्चासौ नमस्कृतश्च तमित्यप्यर्थः । तेनादौ प्रादुर्भावसमये मात्रा विराड्रूपस्य दर्शनम्, ततस्तद्रूपदर्शनविस्मयात्तया नमस्कृतः सन्मायया बालभावं दधाविति सूचितम् ॥ १।१८।१० ॥
विष्णोः । शङ्खचक्रानन्तविशिष्टस्य विष्णेरित्यर्थः । अर्धम् । किञ्चिन्न्यूनमर्धमित्यर्थः । शङ्खचक्रादेरभावादिति भावः ॥ १।१८।११ ॥
देवानां वरेण देवश्रेष्ठेन ॥ १।१८।१२ ॥
चतुर्भागः । चतुर्न्यूनो भागश्चतुर्भागः । पायसार्धस्य चतुर्थांशन्यूनो भागः । अत एव साक्षाद्विष्णोः समुदितो युक्तः । अस्य पाञ्चजन्यावतारतया स्वधारकस्य विष्णोः साक्षाद्विष्णुत्वमुक्तम् । अनेन पाञ्चजन्यस्यापि विष्णुत्वमेवेति सूचितम् । तदीयसर्वगुणवत्तासूचनेनास्यापि रामतुल्यत्वं रामपायसांशसमपायसांशजन्यत्वं च सूचितम् ॥ १।१८।१३ ॥
विष्णोरर्धेति । विष्णो रामस्य । अर्धशब्दो ऽत्र भागवाची न समांशवाची । तेन पायसाष्टमांशौ लक्ष्मणशत्रुघ्नाविति बोध्यम् ॥ १।१८।१४ ॥
सार्प आश्लेषा । कुलीरः कर्कटः । अभ्युदित इत्यस्य उच्चस्थ इत्यर्थः । सौमित्री इति द्विवचनेन तयोर्यमजत्वं सूच्यते ॥ १।१८।१५ ॥
राज्ञ इति । पृथग्गुणवन्तः प्रत्येकमनन्यसाधारणगुणवन्तः । अनुरूपा ज्येष्ठकनिष्ठत्वादियोग्यव्यवहारवन्तः । रुच्या कान्त्या । प्रोष्ठपदा इति पूर्वाभाद्रपदोत्तराभाद्रपदयोर्नाम । तयोश्च प्रत्येकं द्वे द्वे तारे इति ज्योतिःशास्त्रप्रसिद्धम् । तैत्तिरीयश्रुतिरपि “चत्वार एकमभिकर्म देवाः । प्रोष्ठपदास इति यान्वदन्ति” इति । तदुपमा इत्यर्थः ॥ १।१८।१६ ॥
जगुरिति । रामाद्युत्पत्तिकाल इति शेषः । पतदित्यत्राडभावश्छान्दसः ॥ १।१८।१७,१८ ॥
गायनैर्गायकैः । वादनैर्वादकैः । विराविण्यः सशब्दाः रथ्या इति विशेष्यम् । सर्वरत्नसमन्विता नटाद्युद्देशेन क्षिप्तै रत्नैर्युक्ताः ॥ १।१८।१९ ॥
प्रदेयान्पारितोषिकान् । सूताः पौराणिकाः । मागधा वंशावलीकीर्तकाः । बन्दिनः स्तुतिपाठकाः । सम्बन्धसामान्ये षष्ठी । सूतादिसम्बन्धि यद्देयं पारितोषिकं तत्तेभ्यो ददावित्यन्वयः ॥ १।१८।२० ॥
अतीत्येति । एकादशाहशब्दः सूतकान्तोपलक्षणम् । अन्यथा “क्षत्रियस्य द्वादशाहं सूतकम्” इति स्मृतिविरोधः स्यात् । तथा च रामजन्मतस्त्रयोदशे दिने नामकरणमकरोदित्यर्थः । अस्य निरुक्तिः पूर्वं दर्शिता । “श्रियः कमलवासिन्या रमणो ऽयं यतो हरिः । तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् । सहस्रनामसदृशं स्मरणान्मुक्तिदं नृणाम् ॥ " इति पाद्म उक्तम् ॥
१।१८।२१ ॥
नामानि कुरुते । नामकरणमकारयदित्यर्थः । वर्तमानसामीप्ये लट् । अन्तर्भावितण्यर्थता च । यत्तु कतकेन “राज्ञो नामकरणादावनधिकार” इत्युक्तम् । अकरोदित्यत्र च “पुरोहितद्वारा” इति शेषपूरणं कृतम्, तत्र मानं चिन्त्यम् ॥ १।१८।२२ ॥
ब्राह्मणान्भोजयामासेति । राजाज्ञयेति शेषः । बहु । बहुमानपूर्वकमित्यर्थः ॥ १।१८।२३ ॥
जन्मक्रियादीनि । तदाद्युपनयनान्तानीत्यर्थः । अकारयत् । वसीष्ठो राज्ञेति शेषः । केतुर्बिरुदध्वजः । स यथान्नदानादिकीर्तिं ख्यापयत्येवमिक्ष्वाकुकुलवैभवप्रकाशकः । रतिः प्रीतिः ॥ १।१८।२४ ॥
स्वयम्भूर्हिरण्यगर्भः । स इव सर्वशक्तिमत्वेन संमतः ॥ १।१८।२५ ॥
ज्ञानोपसम्पन्नाः । तत्त्वज्ञानयुक्ता इति केचित् । गुणैः साधारणैः । क्षत्रासाधारणैश्च सद्गुणैरित्यर्थः । तेषामिति निर्धारणे षष्ठी । रामः । सर्वसद्गुण इति शेषः ॥ १।१८।२६ ॥
इष्टः सर्वस्येत्यादि । गुणकथने पौनरुक्त्यं दार्ढ्याय । रथचर्यासुरणोचितरथप्रचारेषु ॥ १।१८।२७ ॥
लक्ष्मिवर्धन इति ह्रस्व आर्षः ॥ १।१८।२८ ॥
रामस्य सुस्निग्ध इति प्राक्तनेनान्वयः । स्वशरीरादपि तस्य स्वात्भभूतस्य रामस्य प्रियकरः ॥ १।१८।२९ ॥
रामस्यापरो बहिःसञ्चरन्प्राण इव लक्ष्मणः प्रियः । तदेवाह न चेति ॥ १।१८।३० ॥
मृगयाम् । आखेटमुद्दिश्येत्यर्थः ॥ १।१८।३१ ॥
परिपालयन् । रामशरीरमिति शेषः । अनेन लक्ष्मणस्य भक्त्यतिशय उक्तः । हि यतः शत्रुघ्नो लक्ष्मणावरजः । अतो रामावरजस्य भरतस्य प्रिय इति शेषः । रामलक्ष्मणाविव भरतशत्रुघ्नौ परस्परप्रियावित्यर्थः ॥ १।१८।३२ ॥
तस्य शत्रुघ्नस्य । स । भरत इति शेषः । तथा तस्य भरतस्य शत्रुघ्नः प्रिय आसीत् ॥ १।१८।३३ ॥
देवैश्चतुर्भिर्दिक्पालैः । यद्वा वसुरुद्रादित्यविश्वेदेवैस्ते सर्वे रामादयो गुणैः समुदिता युक्ताः । आसन्निति शेषः ॥ १।१८।३४ ॥
एवंप्रभावाणाम् प्रागुक्तप्रभाववताम् । लाभेनेति शेषः ॥ १।१८।३५ ॥
पिता हृष्ट इत्यन्वयः । वैदिकाध्ययने वेदसम्बन्ध्यध्ययने ॥ १।१८।३६ ॥
दारक्रिया विवाहः । “कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे । कपोलतलसंलीनपाणिः पद्मासनस्थितः ॥ " इत्यादियोगवासिष्ठोक्तरीत्या संसारासारत्वदर्शनेन जातानां मुखपाण्डुतादीनां कामकृतत्वसम्भावनया विवाहक्रियाचिन्तनमिति बोध्यम् ॥
१।१८।३७ ॥
सोपाध्यायः सपुरोहितः ॥ १।१८।३८,३९ ॥
कौशिकः कुशिकगोत्रापत्यम् । विलम्बे शापत्रासाद्द्वाराध्यक्षा राजवेश्म त्वरया प्रविविशुः । तदागमननिवेदनायेति शेषः ॥ १।१८।४० ॥
सम्भ्रान्तमनसः क्षुभितचित्ताः । तेन तदीयेन विश्वामित्रसम्बन्धिना ॥ १।१८।४१ ॥
इक्ष्वाकवे । तद्वंशजत्वात्ताच्छब्द्यम् । समाहित एकाग्रचित्तः ॥ १।१८।४२ ॥
ब्रह्माणम् बृहस्पतिम् । “बृहस्पतिर्देवानां ब्रह्म” इति श्रुतेः । संशितव्रतम् तीक्ष्णनियमम् ॥ १।१८।४३ ॥
उपहारयदिति । वसिष्ठेनेति शेषः । अडभाव आर्षः । राज्ञो ऽर्घ्यं राजप्रेरणया वसिष्ठानीतम् ॥ १।१८।४४ ॥
कुशलपदमनामयोपलक्षणम् । “क्षत्रबन्धुमनामयम्” इति स्मृतेः । अव्ययम् वृद्धिम् ॥ १।१८।४५ ॥
पुनर्विशिष्य पृच्छति कुशलमिति । विशेषप्रकारमाह अपि त इति । अपिः प्रश्ने । एवमग्रे ऽपि । सामन्ताः सन्नता नम्रा अपि रिपवो जिताः ॥ १।१८।४६ ॥
अपि दैवं कर्म होमदेवतार्चनादिकम् । मानुषं कर्म सामभेदादिकम् । राज्ञः प्रेरितार्घ्यदातृत्वेन प्रथमतो राज्ञे ऽनामयादि पृष्ट्वा ततो वसिष्ठेन समागम्यालिङ्गनादि कृत्वा कुशलमित्यस्य पप्रच्छेति शेषः । अनेन राजपुरोहितत्वकृतः पूर्वस्पर्धयेषदपमानो वसिष्ठस्य विश्वामित्रकृतः सूचितः । “वसिष्ठश्च समागम्य प्रहसन्मुनिपुङ्गवः । यथार्हं पूजयित्वैनं(वं) पप्रच्छ कुशलं तदा” इति क्वचित्पाठः । तत्र पूर्वं मां स्पर्धमानो ऽपि मद्राजसन्निधावागत इति हासः ॥ १।१८।४७ ॥
ऋषीन्वामदेवादीन्यथान्यायं सङ्गत्य कुशलं चोवाच । अत्र वामदेवादिभिः स्वस्थानस्थैरेव समागम्य स्वकार्यसिद्धये तान्गृहीत्वैव ते स्वयं च राजसदनं विविशुरित्यन्वयः ॥ १।१८।४८ ॥
पूजिता इत्यस्य राज्ञेति शेषः ॥ १।१८।४९ ॥
परमोदारः परमदाता । हृष्टः पुलकितः । अनूदके इत्यार्षं दीर्घत्वम् ॥ १।१८।५० ॥
सदृशदारेषु जातिवयोरूपगुणतुल्येषु । प्रनष्टस्य । निध्यादेरिति शेषः । महः पुत्रजन्माद्युत्सवस्तस्मादुदयो यस्य स हर्षो यथा तथा त आगमनं मन्ये । अत्र स्वकार्यहर्षसादृश्यस्यागमन उक्त्या तवागमनजहर्षस्यानिर्वाच्यत्वं व्यज्यते । स्वागतं त इति भिन्नं वाक्यम् । च परं कं कामं किमु केन प्रकारेण करोमि । कुर्यामित्यर्थः । वर्तमानसामीप्ये लट् ॥ १।१८।५१,५२ ॥
पात्रभूतः सर्वसेवायोग्यः । दिष्ट्या शुभादृष्टेन । सुजीवितम् । अद्यैव तत्फललाभादिति भावः ॥ १।१८।५३ ॥
पूर्वमिति । राजर्षिशब्दसाधकेन तपसा पूर्वमतिशयितकान्तिमान् ॥ १।१८।५४ ॥
अनु पश्चाद्ब्रह्मर्षित्वसाधकेन तपसा ब्रह्मर्षित्वं प्राप्तो ऽतो मया बहुधा बहुप्रकारेण राजर्षिब्रह्मर्षिप्रकारेण पूज्यो ऽसीत्यन्वयः । तदिति । परमं पवित्रमिदं त्वदागमनं यन्मम पुरो ऽभूत्तदद्भुतमत्याश्चर्यमित्यर्थः ॥ १।१८।५५ ॥
हे प्रभो तव सन्दर्शनाच्छुभक्षेत्रं सकलपापाभावविशिष्टसकलशुभसाधनपुण्यवद्देहं गतः प्राप्तवान् । तेन सफलजन्मता निष्पापता च ध्वनिता । “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” इति भगवद्गीतोक्तेः । ब्रूहीति । तुभ्यमिति षष्ठ्यर्थे चतुर्थी । ते यत्कार्यं प्रति यत्कार्यार्थमागमनं तन्मया प्रार्थितः सन्ब्रूहि कथय ॥ १।१८।५६ ॥
स्वाभिमतकार्ययोगेनानुगृहीतो ऽहं त्वत्प्रयोजनपरिवृद्धिं निष्पत्तिं कर्तुमिच्चामि । विमर्शं करिष्यति न वेति सन्देहम् ॥ १।१८।५७ ॥
तत्र हेतुमाह दैवतं हीति । इतश्च न सन्देह इत्याह मम चेति । तवागमनजः कृत्स्नो धर्मो मम महानभ्युदयः प्राप्तः । हर्षातिशयाद्द्विजेति पुनरुक्तिर्न दोषाय ॥ १।१८।५८ ॥
इतीति । यतो हृदयसुखमत एव श्रुतिसुखम् । आत्मवता स्वाधीनेन । विनीतम् विनययुक्तम् । प्रथितैर्गुणैस्त्रिशङ्कुस्वर्गारोहणादिभिर्यशो यस्य । गुणैः शमदमादिभिः । परमऋषिः “ऋत्यकः” इति प्रकृतिभावः ॥ १।१८।५९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे ऽष्टादशः सर्गः ॥ १८ ॥