पुत्रत्वमिति । गते गन्तुमुपक्रान्ते ॥ १।१७।१ ॥
सहायान्सहायकरणसमर्थान् । ननु कदाचिद्भगवान्प्रतिज्ञायापि नावतरेदत उक्तम् सत्यसन्धस्येति । सत्यप्रतिज्ञस्येत्यर्थः ॥ १।१७।२ ॥
मायाविदो ऽसुरादिमायासंहारसमर्थदेवमायाशक्तिमतः । जवे वेगविषये ॥ १।१७।३ ॥
असंहार्यानिति । परैरिति शेषः । संहननम् शरीरम् । सर्वास्त्रगुणसम्पन्नान्सर्वास्त्रनिवारणसामर्थ्यरूपगुणयुक्तान् । यद्वा प्रयोगोपसंहारादयस्तद्गुणाः । अमृतप्राशना देवाः ॥ १।१७।४ ॥
गन्धर्व्यो गन्धर्वपत्न्यः ॥ १।१७।५ ॥
वानरीणां तनूषु वानरीशरीरसदृशशरीरासु । अप्सरःप्रभृतिष्वित्यर्थः । हरिरूपेणेति । “तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं तु कुलस्य तव वानराः ॥ " इति रावणविषये नन्दिकेश्वरशापादेवमुक्तम्। तुल्यपराक्रमान् स्वस्वतुल्यपराक्रमानित्यर्थः ॥
१।१७।६ ॥
ननु त्वयापि स्वांशः स्रष्टव्य इति चेत्तत्राह पूर्वमेवेति । पूर्वयुग इत्यर्थः । तदुत्पत्तिप्रकारमाह जृम्भमाणस्येति । सहसा तत्क्षणे ॥ १।१७।७ ॥
एवम् वक्ष्यमाणप्रकारेण ॥ १।१७।८,९ ॥
वानरेन्द्रमिति । ननु राघवसहायार्थं तत्तत्स्वावतारकरणप्रेरणाद्वालिनो ऽवतारस्य तदसहायत्वात्किमर्थो ऽयमवतार इति चेत्, दुन्दुभ्यादिवधार्थं तदवतारस्यावश्यकत्वात्, पुत्रद्रारा तस्यापि राघवसहायत्वाच्च, दुन्दुभ्यादिवधेनापि तत्साहाय्यकरणाच्च, अस्यापि भगवदवतारात्पूर्वमुत्पत्तिर्ज्ञेया । तपनः सूर्यः ॥ १।१७।१०१२ ॥
पावकस्याग्नेः । अत्यरिच्यत । ततो ऽधिको ऽभवदित्यर्थः ॥ १।१७।१३ ॥
रूपेति । रूपलक्षणेन द्रविणेन युक्तौ । रूपसम्मतौ । रूपवत्त्वेन सर्वलोकसम्मतावित्यर्थः ॥ १।१७।१४ ॥
पर्जन्यस्तदभिमानिनी देवता । धर्मपुत्रो ऽपरः सुषेण इति युद्धकाण्डे वक्ष्यति । अत्र तु वरुणपुत्र उक्ताः ॥ १।१७।१५ ॥
वज्रसंहननं वज्रवदभेद्यं शरीरं तेनोपेतो युक्तः ॥ १।१७।१६ ॥
दशग्रीववधोद्यता इत्यस्य ये भविष्यन्तीति शेषः ॥ १।१७।१७ ॥
गजाचलसङ्काशा गजसदृशाः पर्वतसदृशाश्चेत्यर्थः ॥ १।१७।१८ ॥
गोपुच्छा वानरविशेषाः । क्षिप्रमेव तत्तद्योनौ देवानां रत्यव्यवहितोत्तरकालमेव । रूपम् वर्णः । वेषः संस्थानविशेषः ॥ १।१७।१९ ॥
तस्य तत्पुत्रस्य । तेन तदीयरूपवेषादिकं पृथक्पृथगसाङ्कर्येणाजायत । किञ्चिदुन्नतविक्रमा देवावस्थातो ऽपि किञ्चिदधिकपराक्रमा इत्यर्थः ॥ १।१७।२० ॥
ऋक्षीषु ऋक्षशरीरासु । चस्त्वर्थे । किन्नरीषु त्वित्यर्थः । एवमग्रे ऽपि । तार्क्ष्यास्तार्क्ष्यवंशजाः ॥ १।१७।२१ ॥
नागाः सर्पाः ॥ १।१७।२२ ॥
चारणा देवबन्दिनः । वनचारिणो वनवासिन इत्येकत्र । परत्र वनस्थफलभक्षकानित्यर्थः ॥ १।१७।२३२५ ॥
सर्वास्त्रकोविदा इति । स्वयंप्रतिभातसर्वास्त्रपरिहारोपाया इत्यर्थः । शिलाप्रहरणा इत्याद्युक्तेस्तेषामस्त्रप्रयोक्तृत्वाभावात् । विचालयेयुरित्यादौ शक्यार्थे लिङ् । विचालनशक्ता इत्यर्थः ॥ १।१७।२६ ॥
आप्लवेयुः सन्तरेयुः ॥ १।१७।२७ ॥
प्रव्रजतः स्वच्छन्दगतीन् ॥ १।१७।२८ ॥
नादेनेत्यस्य पातयेयुरित्यनेनान्वयः ॥ १।१७।२९ ॥
शतसहस्राणि । कोटिरित्यर्थः । ते प्रागुक्ता हरीणां प्रधानेषु यूथेषु मध्ये हरियूथपा बभूवुः । यूथपश्रेष्ठान्वीरांश्च हरीनजनयन्नित्यर्थः ॥ १।१७।३० ॥
ऋक्षवतः पर्वतविशेषस्य प्रस्थान्सानूनुपतस्थुरासेवन्ते स्म ॥ १।१७।३१,३२ ॥
भ्रातरौ सुग्रीववालिनौ । सर्वे च सर्वे ऽप्युपतस्थुः । केचित्साक्षात्केचिन्नलादिद्वारेत्याह नलमित्यादि ॥ १।१७।३३ ॥
अर्दयन् आर्दयन्नित्यर्थः । अडभाव आर्षः ॥ १।१७।३४ ॥
वाली जुगोपेत्यन्वयः । देवराजावतारत्वादिति भावः ॥ १।१७।३५ ॥
विविधसंस्थानैर्नानाप्रकारसन्निवेशैः । नानाव्यञ्जनलक्षणैः परस्परभेदव्यञ्जकतत्तल्लक्षणयुतैः ॥ १।१७।३६ ॥
अचलकूटः पर्वतशृङ्गम् । यूथपाधिपैः । यूथपानामधिपैरित्यर्थः । भीमशरीररूपैर्भयजनकशरीराकृतिभिः ॥ १।१७।३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥ १७ ॥