०१६ पायसप्रदानम्

तत इति । नियुक्तः प्रार्थितः । यद्वाज्ञप्त इत्यर्थः । अत एव जानन्नपि वधोपायमज्ञ इव तेषामविनीतत्वलज्जापरिहाराय तान्पप्रच्छेत्यर्थः । जानन् वधोपायमिति शेषः ॥ १।१६।१ ॥

उपाय इति । यमुपायमास्थाय तमहं निहन्यां स तस्य वध उपायः क इत्यन्वयः ॥ १।१६।२,३ ॥

स हीति । लोकपूर्वजः सर्वलोकसमष्टित्वात् “हिरण्यगर्भः समवर्तताग्रे” इति श्रुतेश्च । यद्वा ब्रह्मा चतुर्मुखः लोकपूर्वजत्वं च हिरण्यगर्भतादात्म्याध्यासेन ॥ १।१६।४ ॥

सन्तुष्ट इति । मानुषभिन्नेभ्यः । प्राणिमात्रेभ्यो भयं न भवेदिति वरं ददावित्यन्वयः ॥ १।१६।५,६ ॥

दृष्टो निश्चितः ॥ १।१६।७,८ ॥

स चापीति । दशरथो ऽपीत्यर्थः । तस्मिन्काले भगवदवतितीर्षाकाले । पुत्रियामिति ह्रस्वच्छान्दसः ॥ १।१६।९ ॥

स इति । निश्चयमवतारविषयम् । आमन्त्र्य । साधयामीत्युक्त्वेत्यर्थः । अन्तर्धानं गत इति । तस्मादेव समाजादिति शेषः ॥ १।१६।१० ॥

तत इति । अन्तर्धानानन्तरमित्यर्थः । अन्तर्धाय भगवानेव स्वतेजःसम्भृतपायसमादाय हुताग्नेः सकाशात्प्रादुर्भवति स्म । न ह्यन्यस्य भगवत्तेजोधारणे शक्तिरस्ति । तदेवाह महद्भूतमिति । “एको विष्णुर्महद्भूतम्” इत्युक्तेः । अतुलप्रभम् विद्युदादिवद्दृष्टिप्रतिघातकतेजोवत् । भूतम् प्राणी ॥ १।१६।११ ॥

कृष्णम् कृष्णवर्णम् । स्निग्धाश्चिक्कणा हर्यक्षस्य सिंहस्येव तनुजा लोमानि श्मश्रुप्रवरा मूर्धजाः केशाश्च यस्य तत् । मुखस्थरोमाणि श्मश्रुप्रवरो मुखस्थं व्याप्तं रोम ॥ १।१६।१२ ॥

समुत्सेध उच्छ्रायः । दुप्तशार्दूलवद्विक्रमः पादविन्यासो यस्य तत् ॥ १।१६।१३ ॥

दिवाकरेति । तद्वत्प्रभामण्डुलव्याप्तम् । तैक्ष्ण्ये दृष्टान्तो दीप्तानलेत्यादि । तप्तेति । राजतो रजतविकारः । अन्तपरिच्छदः पिधानपात्रं यस्यास्ताम् ॥ १।१६।१४ ॥

पात्रीति । लिङ्गसामान्यादुत्प्रेक्षते पत्नीमिवेति । प्रगृह्येति । स्वयं दोर्भ्यां प्रगृह्य प्रादुर्भूतमित्यन्वयः । मायामयीमिव । इवशब्द एवार्थे । भगवतो मायैवेत्यर्थः ॥ १।१६।१५ ॥

दशरथं समवेक्ष्येत्यन्वयः । प्राजापत्यम् प्रजापतिना प्रेषितम् । प्रजापतेः प्रजापालकाद्विष्णोः सम्भूतम् । तद्रूपमित्यर्थः ॥ १।१६।१६ ॥

ततः परं प्राजापत्यं मां विद्धीति तदुक्त्यनन्तरम् । पूर्वं कृत्यात इव भीत एव तद्वचनश्रवणोत्तरं निर्भय उवाचेत्यर्थः ॥ १।१६।१७ ॥

देवानर्चयता । हयमेधेनेति शेषः ॥ १।१६।१८ ॥

देवनिर्मितम् देवेन प्रजापतिना निर्मितम् । धन्यम् प्रशस्तम् ॥ १।१६।१९ ॥

भार्याणाम् । सम्बन्धसामान्ये षष्ठी । भार्याभ्य इत्यर्थः । आनुरूप्यम् महिषीत्वयशःशीलगुणादिना ॥ १।१६।२० ॥

हिरण्मयीम् हिरण्यविकाराम् ॥ १।१६।२१ ॥

मुदेति । अभिप्रदक्षिणम् पुनःपुनः प्रदक्षिणम् ॥ १।१६।२२ ॥

वित्तम् धनम् ॥ १।१६।२३ ॥

अद्भुतप्रख्यमद्भुताकारम् । संवर्तयित्वा समाप्य । कर्म पायसदानरूपम् । तत्रैवाग्निकुण्ड एव ॥ १।१६।२४ ॥

हर्षरश्मिभिर्हर्षोद्भूतमुखकान्तिभिः । उद्योतं द्योतमानमन्तःपुरं तद्वर्ति स्त्रीजातं शारदचन्द्रस्यांशुभिर्नभ इवेत्यन्वयः ॥ १।१६।२५,२६ ॥

कौसल्याया इति । अर्धशब्दो ऽत्र समप्रविभागवाची । अर्धादर्धम् तुरीयांशमित्यर्थः ॥ १।१६।२७ ॥

अवशिष्टार्धमवशिष्टस्य चतुर्धांशस्यार्धम् । अष्टमांशमित्यर्थः । पुनरवशिष्टार्धमष्टमांशम् ॥ १।१६।२८ ॥

अनुचिन्त्येति । “कैकेय्यपेक्षया ज्येष्ठत्वं कौसल्यापेक्षया कनिष्ठत्वं च सुमित्राया विचार्य पादोनांशार्धदानम् । तस्यै कनिष्ठत्वाच्च कैकेय्यै अष्टमांशदानम् । वल्लभायां सम्भोगकर्मणि पक्षपातः, न धर्म्य(र्म?)विभागकर्मणि । एवं च भरतशत्रुघ्नौ पादस्यार्धमर्धम्” इत्याहुः । अपरे तु “रामभरतौ प्रत्येकं त्र्यंशौ । लक्ष्मणशत्रुघ्नौ चाष्टमांशौ । तथाहि कौसल्यायै दत्तार्धस्यार्धादर्धं चतुर्थांशरूपं सुमित्रायै दत्तवान् । कौसल्यया दापितवानित्यर्थः । एवं कैकेय्यै कौसल्यादत्तार्धावशिष्टमर्धं ददौ । ततः कौसल्यादत्तावशिष्टस्य कैकेय्यै दत्तस्य यदर्धं तदर्धं विचार्य पुनरपि सुमित्रायै ददौ । तया दापयामासेत्यर्थः । अत्रार्धपदावृत्तिर्बोध्या । तदुक्तं कालिदासेन “स तेजो वैष्णवं पत्न्योर्विभेजे चरुसञ्ज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः सम्भावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ ते बहुज्ञस्य चित्तज्ञे पत्न्यौ प्रत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे । सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि ॥ " इति। अर्धार्धभागाभ्यामित्यस्य स्वस्वलब्धांशसम्बन्ध्यर्धार्धभागाभ्यामित्यर्थः। पृथगिति। विभज्येति शेषः। कतकस्याप्येवं रीतिरेव संमता” इत्याहुः। क्वचित्तु “इत्युक्त्वा प्रददौ तस्यै हविषोऽर्धं नराधिपः। स्वयमेव समं कृत्वा भागं भगवतां वरः ॥

अर्धादर्धं ददौ चापि कैकेय्यै स नराधिपः । चतुर्भागं द्विधा कृत्वा सुमित्रायै ददौ तदा ॥ " इति दृश्यमानः पाठः। स त्वसाम्प्रदायिक एव तत्तद्दत्तभागजन्यस्य तत्तत्पुत्रैकवाक्यतौचित्येन। अपरे तु “व्याख्यैवात्र ज्यायसी। पाठान्तरे व्याख्यान्तरे च लक्ष्मणरामयोरेव भरतशत्रुघ्नयोरेवैकवाक्यतायां बीजालाभः। उक्तं च पाद्मे “युगां बभूवतुस्तत्र सुस्निग्धौ रामलक्ष्मणौ। तथा भरतशत्रुघ्नौ पायसांशवशात्स्वतः” इति” इति दिक् ॥

१।१६।२९ ॥

ताश्चेति । प्राप्य प्रहर्षेणोदितं विकसितं चेतो यासां ताः स्त्रियो नरेन्द्रस्य सम्मानमपक्षपातेन यथोचितव्यवहारं मेनिर इत्यन्वयः ॥ १।१६।३० ॥

तत इति । महीपतेः स्त्रिय इत्यन्वयः । उत्तमपायसम् । उत्तमत्वं च तस्य विष्णुतेजःसम्भूतत्वात् । “हुनाशनादित्यसमानतेजसः” इति गर्भाणां स्त्रीणां च तन्त्रेण विशेषणम् ॥ १।१६।३१ ॥

प्रतिलब्धमानसः । प्रतिलब्धशब्दः प्रतिलब्धस्वास्थ्यपरः । तादृशं मानसं यस्येत्यर्थः । यद्वा पूर्णमनोरथ इत्यर्थः । यथाशब्दश्चार्थे । त्रिदिवे हरिरिन्द्रश्च । हृष्ट इत्यर्थः । सुरेन्द्रेत्यादि राजविशेषणम् । भगवदंशगर्भसम्भवेन तैः पूजितो मनसा स्तुतः ॥ १।१६।३२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥ १६ ॥