मेधावीति । मेधाव्यशेषवेदशाखाधारणयोग्यबुद्धिमान् । वेदज्ञः स्वरूपतो ऽर्थतश्च वेदतत्त्ववित्स ऋष्यशृङ्गः प्रतिश्रुतार्थनिर्वाहाय किं कर्तव्यमिति निश्चेतुं किञ्चित्कालं ध्यात्वा समाधिं कृत्वेदमुत्तरमिदमिहोत्तरानुष्ठेयकृत्यमिति निश्चित्य पश्चाल्लब्धसञ्ज्ञः समाध्युत्त्थितस्तं नृपमब्रवीत् ॥ १।१५।१ ॥
किमब्रवीत्तदाह इष्टमिति । पुत्रीयाम् पुत्रप्राप्तिकारणभूताम् । पुत्रकारणात्पुत्रप्राप्तिहेतोः । अथर्ववेदप्रोक्तैर्मन्त्रैर्विधानतः कल्पसूत्रतः सिद्धां नियतफलत्वेन प्रसिद्धामिष्टिं करिष्यामि । इत्युक्त्वेति शेषः ॥ १।१५।२ ॥
तत इति । मन्त्रदृष्टेन मन्त्रपूर्वकतया कल्पसूत्रे दृष्टेन ॥ १।१५।३ ॥
तत इति । तत्रेत्यर्थः ॥ १।१५।४ ॥
ता इति । समेत्य । अन्तर्धानशक्त्येतरानवलोकमिति शेषः ॥ १।१५।५,६ ॥
कुतस्तस्य युष्मद्बाधनक्षमवीर्यलाभ इत्यत आह त्वयेति । मानयन्तः । सर्वदेवतावध्यत्वरूपत्वद्दत्तवरं परिपालयन्त इत्यर्थः ॥ १।१५।७ ॥
उच्छ्रितान्सम्पत्त्यादिभिरधिकान् । त्रिदशराजानमिति समासान्तो ऽनित्यत्वान्न कृतः । प्रधर्षयितुमिच्छतीत्युक्तेरेतदुत्तरकालमिन्द्रजित्कृत इन्द्रबन्ध इति ज्ञायते ॥ १।१५।८ ॥
असुरान् राहुप्रमुखान् ॥ १।१५।९ ॥
प्रतपति । प्रतापयतीत्यर्थः । क्रौर्यातिशयद्योतकमेतज्जातीयं न वाति नाधिकं वाति । चञ्चलोर्मिमालास्वभावो ऽपि न कम्पत इति विरोधालङ्कारः ॥ १।१५।१० ॥
तत्तस्मात्कारणात् । तस्मादुक्तगुणविशिष्टात् ॥ १।१५।११ ॥
एवमिति । भगवान्ब्रह्मेति शेषः । हन्तेत्यनुकम्पायाम् ॥ १।१५।१२ ॥
तेनेति । तत्तथास्त्वित्युक्तमिति योजना ॥ १।१५।१३ ॥
नेति । तदा वरणसमये । मृत्युर्मृत्युजनकः ॥ १।१५।१४,१५ ॥
एतस्मिन्नन्तरे सर्वदेवतासन्तोषकाले । विष्णुः सदा भूभारोद्धारादिकर्ता ॥ १।१५।१६ ॥
वैनतेयो गरुडः । केयूरम् बाहुभूषणम् ॥ १।१५।१७ ॥
ब्रह्मणा चेति । वन्द्यमान इत्यनुकृष्यते । समभिष्टूय सम्यक्स्तुत्वा । सन्नताः प्रणताः ॥ १।१५।१८ ॥
त्वामिति । अस्मद्दुःखहरणस्य त्वदेकसाध्यत्वादवतर्तुं नियोक्ष्यामहे । तदेवाह राज्ञ इत्यादिना ॥ १।१५।१९ ॥
धर्मज्ञस्येत्यादिराजविशेषणानि । ह्रीश्रीत्यादि राजपत्नीविशेषणम् । चावतारयोग्यताध्वननाय ॥ १।१५।२० ॥
आत्मानम् सोपकरणमात्मानम् । “अन्येद्युः पाञ्चजन्यात्मा कैकेय्यां भरतो ऽभवत् । तदन्येद्युः सुमित्रायामनन्तात्मा च लक्ष्मणः । सुदर्शनात्मा शत्रुघ्नो द्वौ जातौ युगपत्प्रिये” इति पाद्मोक्तेः । अत्रात्मानमित्युक्त्या शङ्खचक्रानन्तानामपि भगवद्रूपता सूचिता । हुंकारेण भवानिव पाञ्चजन्यः शब्दमात्रेण सकलभुवनक्षोभकत्वाद्विष्णुतुल्य एवेति बोध्यम् । चतुर्विधमिति । चातुर्विध्यविधानं रावणेन्द्रजिल्लवणगन्धर्ववधादीनां प्रत्येकं देवकार्यरूपाणां सद्भावात् ॥ १।१५।२१ ॥
कुतो ममैव नियोगस्तत्राह अवध्यमिति ॥ १।१५।२२,२३ ॥
रौद्रेण कृत्याकृत्यविचारशून्येन । वधार्थम् वधप्रार्थनार्थम् ॥ १।१५।२४,२५ ॥
वधायेति । नृणां लोक इत्यस्यावतरितुमिति शेषः ॥ १।१५।२६ ॥
धर्मसंहितान् धर्मसहितानित्यर्थः । “धर्मसंहितम्” इति वा पाठः ॥ १।१५।२७,२८ ॥
हत्वेति । हत्वा वत्स्यामीति योजना ॥ १।१५।२९,३० ॥
मानुष्य इति । मनुष्यलोके यथा देवैराज्ञप्तं तथात्मनो जन्मभूमिं चिन्तयामास योग्यत्वेन विचारयामास । ततो विचारानन्तरम् ॥ १।१५।३१ ॥
रोचयामासैच्छत् । स्तुतिभिस्तुष्टुवुः ॥ १।१५।३२ ॥
स्तुत्वा च यदूचुस्तदाह तमिति । रावणमुद्धर समूलमुन्मूलय विरावणं विशेषेण त्रिलोकीक्रन्दनम् । तपस्विनां भयावहमित्यन्वयः । रावणस्मरणेनातिभीतचित्तानां देवानामुक्तौ तमित्यस्य पुनरुक्तिर्न दोषाय । अत्रेन्द्रादिदेवानां सपितामहानां नियोजकत्वं विभोश्च नियोज्यत्वं न दोषो लीलावत्त्वादित्यन्यत्र विस्तरः ॥ १।१५।३३ ॥
तमिति । तं हत्वैवेत्यन्वयः । सबान्धवमित्यनेन लवणादिवधसूचनम् । हे सुरेन्द्र उपेन्द्र । गुप्तम् । अर्थात्त्वयेति शेषः । गतदोषकल्मषम् दोषा रागादयस्तद्रूपकल्मषहीनम् । स्वर्लोकम् वैकुण्ठाख्यम् । गतज्वरः स्वभावतो निवृत्ताशेषतापः ॥ १।१५।३४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥ १५ ॥