०१४ अश्वमेधयजनम्

अथेति । अश्वोत्सर्गानन्तरम् । वर्षेपूर्णे तस्मिन्नश्वे सदः प्राप्ते सति कर्म प्रावर्ततेत्यर्थः । अत्र त्रिंशद्दिनात्मकसावनमासपरिछिन्नो वत्सरः ॥ १।१४।१ ॥

ऋष्यशृङ्गमिति । “अनेन प्रधानार्त्विज्यं ब्रह्मत्वं तस्य गम्यते” इति कतकः । अग्रे पुत्रेष्टौ “इष्टिं ते ऽहं करिष्यामि” इति ऋष्यशृङ्गोक्तेः “जुहावाग्रौ च तेजस्वी” इति ऋष्यशृङ्गं प्रक्रम्य वाल्मीक्युक्तेश्चाध्वर्यवमस्येति युक्तम् ॥ १।१४।२ ॥

कर्मेति । वेदपारगा अधीतस्य वेदस्य पारं फलवदर्थावबोधं गच्छन्ति प्राप्नुवन्ति ते याजका ऋत्विजः । यथाविधि कल्पसूत्रार्थकश्रुत्यनतिक्रमेण । न्यायो ऽत्र तन्निर्वाहिका पूर्वमीमांसा । तं चानतिक्रम्य । परिक्रामन्ति शास्त्रोक्तस्वस्वक्रियाक्रमकालमविस्मृत्य प्रवर्तन्ते ॥ १।१४।३ ॥

प्रवर्ग्यमारादुपकारकं कर्मविशेषम् । उपसदमिष्टिविशेषम् । अधिकं

प्रकृत्युपदिष्टाङ्गातिदेशात्तत्तद्विकृत्यपेक्षितो विषेषो ऽधिकं कर्म ॥ १।१४।४ ॥

अभिपूज्येति । तत्तत्कर्माङ्गदेवतामिति शेषः । (तत्तत्कर्मपूजादेवतामिति शेषः) यथा यथाविधि । प्रातःसवनादि कर्मविशेषः ॥ १।१४।५ ॥

ऐन्द्र इन्द्रदेवताको हविर्भागो दत्तः । राजा सोमलता चाभिषुतो ग्रावभिः सङ्क्षुद्य निःसारितसारः ॥ १।१४।६ ॥

तृतीयेति । यथेत्यस्य यथाविधीत्यर्थः ॥ १।१४।७ ॥

शिक्षाक्षरसमन्वितैः शिक्षाभ्यासकालस्तत्र गृहीतान्यक्षराणि शिक्षाक्षराणि तत्समन्वितैः । स्वरतो वर्णतश्चाहीनैरिति यावत् । ऋष्यशृङ्गादय इत्यत्रादिशब्दः प्रधानवाची । “भीष्मादिश्च सुयोधनः” इतिवत् ॥ १।१४।८ ॥

गीतिभिः सामभिः ॥ १।१४।९ ॥

न चेति । अहुतमन्यथा हुतम् । स्खलितमज्ञानतो न किमपि कर्म त्यक्तम् । ब्रह्मवत् मन्त्रवत् । क्षेमयुक्तम् क्षेमो विध्यपराधराहित्यम् । यद्वा क्षेमो विघ्नराहित्यम् ॥ १।१४।१० ॥

नेति । श्रान्तः स्वस्वार्त्विज्याशक्तः । अशतानुचरः शतसेवकरहितः ॥ १।१४।११ ॥

ब्राह्मणा इति । त्रैवर्णिकोपलक्षणं द्विजत्वात् । नाथवन्तो दासाः । शूद्रा इति

यावत् । तापसा अदासाः शैवादिमार्गमाश्रिताः शुद्राः । क्षमणा बौद्धसन्न्यासिनः । यद्वा श्रमणपदं सन्न्यास्युपलक्षणम् ॥ १।१४।१२ ॥

न तृप्तिरुपलभ्यते । भोज्यसौष्ठवात् । उदरपूर्तावपि रसातिशयलोभेन मानसी तृत्पिर्नोपलभ्यत इत्यर्थः । यद्वा अनिशं भुञ्जानेष्वपि जनेषु यजमानस्य तृप्तिरलंबुद्धिर्नासीदित्यर्थः ॥ १।१४।१३,१४ ॥

अन्नेति लुप्तषष्ठीकं पृथक्पदम् । तस्य सिद्धस्येति पक्वस्येत्यर्थकं विशेषणम् । विधिवत्सूदशास्त्रोक्तप्रकारेण सिद्धस्येत्यन्वयः ॥ १।१४।१५ ॥

सुविहिताः सुविहिततृप्तिकाः ॥ १।१४।१६ ॥

अन्नमिति । स्वाद्वन्नम् । भुक्त्वेति शेषः । प्रशंसाकारमाह “अहो तृप्ताः स्म भद्रं ते” इति प्रशंसां राघवः शुश्रावेत्यन्वयः । यद्वा “विधिवत्स्वादु” इत्यपि प्रशंसाकारः ॥ १।१४।१७ ॥

स्वलंकृता इति । अनेन राजकृतो यज्ञपरिचारकसत्कारो ध्वनितः । तान्परिवेषयितृ़न् । अन्ये तत्सहायभूताः । भोक्तृबाहुल्येन परिवेषणस्याल्पासाध्यत्वात् । पाकशालातो ऽन्नप्रापकास्तत्सहायाः । अत एव तस्य स्त्र्यसाध्यत्वात्पुरुषकर्तृकत्वम् ॥ १।१४।१८ ॥

कर्मान्तर इति । एकसवनं समाप्य पुनः सवनान्तरारम्भकालागमात्पूर्वस्मिन्नन्तरालकाले । हेतुवादान्हेतूपन्यासपूर्वकान्वादांश्चक्रुः ॥ १।१४।१९ ॥

संस्तरे यज्ञे । प्रचोदिताः । शास्त्रीयैर्ब्रूहिप्रेष्यादिश्ब्दैः प्रेरिता इत्यर्थः ॥ १।१४।२० ॥

सदस्या विधिदर्शिनः ॥ १।१४।२१ ॥

यूपोच्छ्रये यूपोत्क्षेपणप्रेषकाले । तथा खादिराः । तावन्तः षट्सङ्ख्याकाः । बिल्वसहिताः एकैकबिल्वयूपसमीपे स्थिताः । परे ऽन्ये पर्णिनः पालाशा यूपाः । ते ऽपि षडिति तथाशब्दार्थः ॥ १।१४।२२ ॥

श्लोष्मातको रज्जुदालस्तन्मय एको यूपो ऽश्वमेधे । दिष्टः । उपदिष्ट इत्यर्थः । “श्लेष्मातकमयो ऽग्निष्ठः” इति पाठे ऽग्निष्ठो ऽग्न्यभिमुखः । तथा देवदारुमयो ऽप्यस्ति यूपः । स च नैकः, नापि षट् । किंतु द्वौ । तौ च व्यस्तबाहुभ्यां प्रसारितभुजाभ्यां तावदायामेन परिग्रहः स्वीकारो ययोस्तौ । एवं चैकविंशतिरश्वमेधे यूपा इत्युक्तम् । ते च तत्सूत्रश्रुत्योः प्रसिद्धा इत्यन्यत्र विस्तरः ॥

१।१४।२३ ॥

काञ्चनालंकृता भवन्नित्यत्र अडभावश्छान्दसः । शास्त्रज्ञैः शास्त्रं शिल्पशास्त्रं शुल्बशास्त्रं च ॥ १।१४।२४ ॥

“महोच्छ्रायपरीणाहो यूपो ऽन्यः सर्वकाञ्चनः । यज्ञे समभवत्तत्र

शोभार्थमुपकल्पितः” इति क्वचित्पाठः । एकेति । अरत्निर्नाम चतुर्विंशत्यङ्गुलयः ॥ १।१४।२५ ॥

अष्टास्त्रयः । अस्रिः कोणः । तक्षणविशेषेण श्लक्षणस्पर्शवता स्वरूपेण युक्ताः ॥ १।१४।२६ ॥

यथा सप्तर्षयो विराजन्ते, तथा यूपा व्यराजन्तेत्यर्थः ॥ १।१४।२७ ॥

इष्टका इति । यथान्यायं यथासूत्रमर्धेष्टकामण्डलेष्टकादयश्च कारिताः । शुल्बवद्भिरिति शेषः । अग्निरग्न्याधारभूतो देशः । स ब्राह्मणैरिष्टकाभिश्चितः । बद्ध इत्यर्थः । “शुल्बकर्मणि” इति पाठे शुल्बसूत्रोक्तकर्मणीत्यर्थः । केचित्तु “तत्रेष्टकाबद्धे देशे ऽग्निश्चितः स्थापित इत्यर्थः ।” इत्याहुः ॥ १।१४।२८ ॥

स चित्यो ऽग्निः सञ्चितः स्थापितः । कथं सञ्चित इत्यत्राह गरुडो गरुडसंस्थानः । रुक्मपक्षः । “सहस्रं हिरण्यशल्कैः प्रतिदिशमग्निं प्रोक्षति” इति सूत्राद्रुक्मपक्षत्वम्" इति केचित् । अत्र पक्षे “त्रिगुणो ऽष्टादशात्मकः” इत्यस्य असामञ्जस्यं मत्वा “चितदेशविशेषणानीमानि । स्वर्णेष्टकाभिः पक्षनिर्माणाद्रुक्मपक्षत्वम्” इत्यन्ये । त्रिगुणः प्रस्तारः । तदेवाह अष्टादशात्मक इति । षट् चितयो भवन्तीति प्रकृतौ उक्तेरिति भावः ॥ १।१४।२९ ॥

यथाशास्त्रम् “इन्द्राय राज्ञे” इत्याद्यनुवाकैः प्रतिपादिताः ॥ १।१४।३० ॥

शामित्रे मारणविशसनादिकर्मणि ॥ १।१४।३१ ॥

नियतम् बद्धम् । अश्वरत्नेषूत्तमम् श्रेष्ठम् । नियतमित्यनुकर्षः ॥ १।१४।३२ ॥

कौसल्येति । परिचर्य प्रोक्षणादिना संस्कृत्य । त्रिभिः कृपाणैरसिभिरेनमश्वं विशशासास्य विशसनं कृतवती । “महिष्यश्चास्यासिना कल्पयन्ति” इति सूत्रात् ॥ १।१४।३३ ॥

पतत्रिणेति । पुराश्वानां पक्षाः सन्तीति प्रसिद्ध्यैवं वादः । “पतत्रिणा गरुडवेगेनेत्यर्थ” इत्यन्ये । सुस्थितेन स्थिरेण चेतसोपलक्षिता सती कौसल्या धर्मेच्छयैकां रजनीमश्वेन सहावसत् ॥ १।१४।३४ ॥

“अथ होत्रादयो महिष्या कृताभिषेकया परिवृत्त्या राज्ञो भोगाद्बहिष्कृतया दास्या च सह वावातां राज्ञो वल्लभां भुजिष्यामश्वेन समयोजयन्निति सम्बन्ध” इति केचित् । अपरे तु “वावाताशब्दो राज्ञो मध्यमजातीयद्वितीयभार्यावाची । तदुक्तमैतरेयब्राह्मणभाष्ये तृतीयपञ्चिकास्थद्वाविंशतिखण्डस्थवावातेतिप्रतीकव्याख्यानावसरे “राज्ञां हि त्रिविधाः स्त्रियः, उत्तममध्यमाधमजातीयाः । तासां मध्य उत्तमजातेः क्षत्रियाया महिषीति नाम, मध्यमजातेर्वैश्याया वावातेति, अधमजातेः शूद्रायाः परिवृत्तिः” इति । अत एवाश्वलायनसूत्रे दशमाध्याये ऽष्टमखण्डस्थवावातेतिप्रतीकं गृहीत्वा द्वितीया भार्येति व्याख्यातं नारायणवृत्तिकृता ॥ १।१४।३५ ॥

वपां चन्द्राख्यं मेदः । “चन्द्रं नाम मेदो ऽस्ति । तदुद्धरति नास्य वपा विद्यते” इति सूत्रात् । परमेण श्रौतप्रयोगचातुर्येण सम्पन्नो युक्तः ॥ १।१४।३६ ॥

नराधिपो दशरथः ॥ १।१४।३७ ॥

हयस्येति । सर्वाणि ब्राह्मणा इत्यत्र गुरोरपि लघूच्चारणतया लघुकार्यकरत्वस्य च्छन्दःशास्त्र उक्तत्वान्न च्छन्दोभङ्गः ॥ १।१४।३८ ॥

प्लक्षेति । अन्येषामश्वमेधातिरिक्तयज्ञानां पाशुकं हविः प्लक्षशाखासु निधायावदीयते । अश्वमेधे प्रधानस्य पशोरश्वस्य हविर्भागो वैतसै कटे निधायावदातव्य इष्यते ॥ १।१४।३९ ॥

त्र्यह इति । “अश्वमेधस्य त्रीणि सवनीयान्यहानि” इति कल्पसूत्रेण तन्मूलब्राह्मणैश्चाश्वमेधस्त्र्यहःसङ्ख्यात उक्तः । सवनीयाह्नां प्राधान्यात् । तानि त्र्यहोरात्राणि गणयति । चतुष्टोमशब्देनाग्निष्टोमः ॥ १।१४।४० ॥

उत्तरं तृतीयशास्त्रदर्शनाद्विहिता बहवः प्रधानाः क्रतवस्तत्र कारिताः ॥ १।१४।४१ ॥

तानाह ज्योतिरित्यादि । आयुरायुष्टोमः । अतिरात्राविति द्विवचनादतिरात्रस्य द्विःप्रयोगः । तथा आप्तोर्यामाविति । महाक्रतुरिति जातावेकवचनम् । एते महाक्रतव इत्यर्थः ॥ १।१४।४२ ॥

प्राचीमिति ॥ १।१४।४३ ॥

विनिर्मिता कल्पेषु विहिता । स्वयम्भूविहिते । “प्रजापतिरश्वमेधमसृजत” इति श्रुतेः ॥ १।१४।४४ ॥

क्रतुमिति । धरां चतुर्दिगवच्छिन्नाम् ॥ १।१४।४५,४६ ॥

भवानिति । भोगैकप्रयोजनत्वाद्भूमेस्तयास्माकं न किञ्चित्प्रयोजनम्, नापि चोरादिभ्यो रक्षणे वयं शक्ताः ॥ १।१४।४७ ॥

तत्र हेतुमाह रता इति । स्वाध्यायो वेदाध्ययनम् । तेन दण्डादावस्माकमधिकारो ऽपि नेति ध्वनितम् । भूमिपेत्यनेन तवैवैषा योग्येति त्वमेव निष्क्रयेण पुनरिमां गृहाणेति सूचितम् । तदाह निष्क्रयमिति । मूल्यमित्यर्थः । ननु भुवो मूल्यं दातुमशक्यम् । अतः किञ्चिदेवेति ॥ १।१४।४८ ॥

किञ्चित्पदार्थानाह मणिरत्नमनर्घ्यरत्नम् । तस्यापि राजार्हत्वादाह सुवर्णमिति । यद्वा समुद्यतमुपस्थितम् । यत्किञ्चिदेव भवच्छक्यमित्यर्थः ॥ १।१४।४९ ॥

शतसहस्राणि । दशलक्षमिति यावत् ॥ १।१४।५० ॥

सुवर्णम् षोडशमाषकम् । चतुर्गुणम् चत्वारिंशत्कोटिम् । ततः सर्वे ऋत्विजः सहिता दक्षिणाप्राप्तं सर्वं वसु धनमङ्गीकृत्य विभागाय ऋष्यशृङ्गवसिष्ठाभ्यां प्रददुस्तस्य पुरो न्यस्तवन्तः ॥ १।१४।५१ ॥

तदाह ऋष्येति । प्रविभागं कृत्वा । वसिष्ठादिद्वारा विभज्य गृहीत्वेत्यर्थः ॥ १।१४।५२ ॥

सुप्रीतेति । सन्तुष्टाः सन्तो ऽत्यन्तं मुदिताः स्मेत्यूचुः । राजानमिति शेषः । प्रसर्पकेभ्यो ऽभ्यागतेभ्यः ॥ १।१४।५३ ॥

जाम्बूनदम् जम्बूनदीप्रभवं सुवर्णम् । कोटिशब्दो ऽनन्तवाची । अथ सर्वदक्षिणादानानन्तरं याचमानाय दरिद्राय कस्मैचिद्दातव्यवस्त्वन्तराभावाद्धस्ताभरणमेव ददौ ॥ १।१४।५४ ॥

ततः । तेन हस्ताभरणदानेनेत्यर्थः ॥ १।१४।५५ ॥

विविधा आशिषः “आब्रह्मन्नायुष्मन्त” इत्याद्याः ॥ १।१४।५६,५७ ॥

स्वर्नयनम् स्वर्गप्रापकम् । दुस्तरं प्राकृतै राजभिरप्राप्तसमाप्तिकम् ॥ १।१४।५८ ॥

कुलस्य वर्धनं तादृशं कर्म ॥ १।१४।५९ ॥

पुनरप्युवाच । पुत्रजनककर्मणे पुनरपि प्रेरयामासेत्यर्थः । यद्यपि पुत्रकामेष्ट्यैव पुत्रावाप्तिः सम्भवति, तथापि तपोरतस्य वैश्यस्य श्रावणस्य वधे तद्वियोगातुरतपोरततन्मातापितृमरणेन च ब्रह्मवधसमपापोत्पत्त्या तत्प्रायश्चित्तत्वेनाश्वमेधानुष्ठानं बोध्यम् ॥ १।१४।६० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥ १४ ॥