०१३ यज्ञशाला-प्रवेशः

अथ “संवत्सरान्ते दीक्षेत” इति सूत्रात्पूर्ववसन्तविसृष्टाश्वस्य पुनः संवत्सरान्ते वसन्ते प्राप्ते दीक्षाप्रवृत्तिरुपदिश्यते पुनरिति । प्रसवरूपफलं हयमेधेन भावयितुं गतः । वसिष्ठान्तिकमिति शेषः ॥ १।१३।१ ॥

वसिष्ठं च । चादरुन्धतीम् । प्रश्रितम् विनययुक्तम् ॥ १।१३।२ ॥

यथोक्तम् शाश्त्रोक्तप्रकारानतिक्रमेण । यज्ञाङ्गेष्वश्वादिषु । यथा ब्रह्मराक्षसादिभिर्विघ्ना न क्रियन्ते तथा विधीयताम् । क्रियतामित्यर्थः ॥ १।१३।३ ॥

भवानिति । सुहृदः । स्निग्धत्वाव्यभिचारादतिशयप्रतिपत्तये पुनः स्निग्धेति विशेषणम् । मह्यमिति षष्ठ्यर्थे । परमो महानित्यपि स्निग्धपदवत् । विसृष्टपुनःप्राप्ताश्वकत्वादुद्यतः । आरब्धो यज्ञसम्बन्ध्यङ्गानुष्ठानरूपो भारो भवतैव सर्ववेदशास्त्रज्ञेन वोढव्यो वोढुमर्हः ॥ १।१३।४ ॥

समर्थितम् सम्यक्प्रार्थितम् ॥ १।१३।५ ॥

ततो ऽब्रवीदिति । वसिष्ठो ऽत्र कर्ता । स्थापत्यं स्थपते रथकारस्य कर्म तत्र निष्ठितान्प्रवीणान् ॥ १।१३।६ ॥

कर्मान्तिकानासमाप्तिकर्मनिर्वाहकान्भृत्यान् । शिल्पकारान् । शिल्पम् चित्रादि । वर्धकींस्तक्ष्णः । खनकाः कूपवापीनिर्मातारः । गणकाञ्ज्योतिर्विदः । शिल्पिनश्चर्मकाराद्याः । नटाः सूत्रधाराः । नर्तका नृत्यकारिणः ॥ १।१३।७ ॥

समीहन्तां कर्म कुर्वन्वित्यब्रवीदिति पूर्वेणान्वयः । यज्ञकर्मेत्यस्य निर्वर्तयितुमिति शेषः ॥ १।१३।८ ॥

इष्टका इति । बहुसाहस्री । बहुसहस्रसङ्ख्येया इत्यर्थः । जातावेकावचनम् । राज्ञो योग्या उपकार्या राजसद्मानि । गुणा अन्नपानाद्युपकरणानि । सर्वत्राब्रवीदित्यनुकर्षः ॥ १।१३।९ ॥

सुनिष्ठिता महावर्षवातादिनिवारणक्षमाः ॥ १।१३।१० ॥

कर्तव्या इत्यस्यावासा इति शेषः । पार्थिवानामल्पमाण्डलिकानाम् ॥ १।१३।११ ॥

वैदेशिकनिवासिनाम् । वैदेशिकानां स्वदेशनिवासिनां चेत्यर्थः । महदावासा इत्यत्रात्वाभाव आर्षः ॥ १।१३।१२ ॥

सर्वकामैरुपस्थिताः काम्यमानैः सर्वपदार्थैर्युक्ताः । जनस्येतरक्षुद्रजनस्यापि बहुशोभनं यथा भवति तथावासाः कार्या इत्यर्थः ॥ १।१३।१३ ॥

दातव्यमिति । सत्कृत्य परलोकप्रयोजनबुद्ध्या शास्त्रोक्तसत्कारपूर्वकं देयमित्यर्थः । न तु लीलयोत्सवमात्रबुद्ध्यानादरेण । यथा पूजां प्राप्नुवन्ति पूजां मन्यन्ते तथा सुसत्कृताः कार्या इत्यर्थः ॥ १।१३।१४,१५ ॥

तेषामपीति । अपिस्त्वर्थे । यथाक्रमम् ज्येष्ठानुक्रमेण । तत्रोपपत्तिमाह ये वसुभिर्धनर्भोजनादिभिश्च पूजिताः सेवकास्तेषां सर्वं कार्यं सुविहितं भवति । किञ्चिदपि कार्यं न पिरहीयते न हीनं भवति । तस्मान्मयि प्रीतियुक्तेन चित्तेन भवन्तस्तथा कुर्वन्तु यथा सर्वे सुहृदस्ते च शिल्प्यादयश्च वस्वादिभिः पूजिताः स्युरिति ॥ १।१३।१६१८ ॥

यथोक्तमिति । यत्त्वयोक्तं तद्यथोक्तं त्वदुक्तानतिक्रमेण सुविहितम् । न किञ्चित्तत्र लुप्यत इति शेषः । किञ्चोक्तम् । भावे क्तः । वचनं यथा कथयिष्यसि तच्च तथैव करिष्यामः । तत्रापि न किञ्चिद्धीनं भविष्यति । ततो नियोजनानन्तरम् ॥ १।१३।१९,२० ॥

मानवाश्चतुर्वर्णातिरिक्ताः सङ्करादयः ॥ १।१३।२१ ॥

तमिति । मिथिलाधिपं स्वयमेव । आनयेति सम्बन्धः । न तु दूतमात्रप्रेषणेन । कुत एवं विशेषः कुतश्च तदानयनस्य प्रथममुपदेशस्तत्राह पूर्वं सम्बन्धिनम् पूर्वस्मिन्नेव काले भाविनं सम्बन्धिनम् । समस्तपाठे मयूरव्यंसकादित्वात्समासः । तं योगबलेन ज्ञात्वा । ततो हेतोर्भाविसम्बन्धित्वाद्धेतोः सर्वेभ्यः पूर्वं पूर्वकाले तदानयनं ब्रवीमीत्यर्थः ॥ १।१३।२२,२३ ॥

केकयराजानमित्यनित्यत्वात्समासान्ताभावः ॥ १।१३।२४२६ ॥

सत्कृतं यथा भवति तथा । आनयस्वेति शेषः । प्राचीनान्प्राग्देशवर्तिनः । सौराष्ट्रे भवानित्यर्थे ढगार्षः ॥ १।१३।२७,२८ ॥

यथा यथायोग्यदूतप्रेषणेन ॥ १।१३।२९,३० ॥

स्वयमेवेति । वसिष्ठेन विशिष्योक्तानिति शेषः ॥ १।१३।३१ ॥

ते चेति । पूर्वनियुक्ता इत्यर्थः । “वसिष्ठाय महर्षय” इति पाठः ॥ १।१३।३२ ॥

अवज्ञयानादरेण । लीलया श्रद्धया । आवश्यकत्वादेतत्पुनः शिक्षितम् ॥ १।१३।३३ ॥

तदेवाह अवज्ञयेति ॥ १।१३।३४ ॥

रत्नान्युत्तमवस्तूनि ॥ १।१३।३५,३६ ॥

यज्ञियम् यज्ञोपयोगि स्रुक्स्रुवादिसम्भाररूपम् । अन्तिकात् । समीपे वर्तमानमित्यर्थः ॥ १।१३।३७ ॥

मनसेवेति । क्षिप्रसिद्धत्वोपकरणसौष्ठवज्ञापनायोत्प्रेक्षेयम् ॥ १।१३।३८ ॥

वसिष्ठवचनादित्यत्र वसिष्ठेति लुप्तविभक्तिकं पृथक्पदम् । वसिष्ठस्य ऋष्यशृङ्गस्य च प्रत्येकमुभयोश्च मिलितयोर्वचनात् ॥ १।१३।३९ ॥

आरभन्नितिच्छान्दसम् ॥ १।१३।४० ॥

यज्ञवाटमित्यर्धं पूर्वान्वयि । शास्त्रम् कल्पसूत्रादि । विधिस्तदुक्तप्रकारः ॥ १।१३।४१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥