एवं निश्चितमवगतं पुत्रदातृत्वं यस्य तादृश ऋष्यशृङ्ग आनीते सकलपापक्षयकारितया पूर्वसङ्कल्पितत्वेन चाश्वमेधं प्रस्तौति तत इति । बहुतिथे ऽनल्पे काले । गत इति शेषः । सुमनोहरे शास्त्रोक्तदोषरहिते । मनो ऽभवत्प्रावर्तत ॥ १।१२।१ ॥
तत इति । देववर्णिनम् देववर्चसम् । कुलस्य सन्तानार्थं कुलाविच्छेदरूपप्रयोजनमुद्दिश्य तेन स्वर्गार्थं च । यज्ञाय यज्ञार्थम् । विप्रमृष्यशङ्गम् ॥ १।१२।२४ ॥
आवाहय मत्समीपं प्रापय ॥ १।१२।५ ॥
तत इत्यादि व्याख्यातप्रायम् ॥ १।१२।६८ ॥
पुत्रार्थं हयमेधेन कर्मणा तदाख्येन कर्मणा । अनुष्ठानारम्भाय च पुनरुपन्यासः ॥ १।१२।९ ॥
ऋषिपुत्रो ऋष्यशृङ्गः ॥ १।१२।१०१२ ॥
धार्मिकी प्रजासंरक्षणरूपधर्मप्रयोजना ॥ १।१२।१३,१४ ॥
सम्भ्रियन्तु सम्पाद्यन्ताम् । गुरूणामित्यादयो व्याख्यातप्रायाः ॥ १।१२।१५२१ ॥
गतानामिति । गतेषु द्विजादिष्वित्यर्थः । सप्तम्यर्थे षष्ठी । विसर्जयित्वा । संवत्सरान्ते यागार्थमिति शेषः ॥ १।१२।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥ १२ ॥