०११ ऋष्यशृङ्गागमनम्

एवं सनत्कुमारोक्तकथां तत्प्रसङ्गे ऋष्यशृङ्गानयनकथां च साम्प्रतिकीमुक्त्वा तदानयनार्थं महाराजेनैव गन्तव्यमिति बोधयितुमनेकयुगवृद्धः सुमन्त्रः पुनरपि तदर्थगर्भां सनत्कुमारोक्तां कथामाह भूय एवेति । देवप्रवरः सनत्कुमारः । यथेति यदित्यर्थे ॥ १।११।१ ॥

सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ १।११।२ ॥

अङ्गेति । अङ्गराजो रोमपादः । तस्य दशरथस्य । अस्य रोमपादस्य ॥ १।११।३ ॥

को ऽसावङ्गराज इत्यत्राह पुत्र इति । अङ्गस्याङ्गनामकस्य । तम् रोमपादं गमिष्यति । ऋष्यशृङ्गानयनार्थमिति शेषः । तमित्यस्य प्रतीति शेषः ॥ १।११।४ ॥

गमनप्रयोजनमाह अनपत्य इति । आहरेत निर्वहेत् । चकारेण धर्माद्यर्थं च ॥ १।११।५ ॥

श्रुत्वेति । अस्य राज्ञो दशरथस्यैतद्वाक्यं श्रुत्वा मनसा च तस्यावश्यकर्तव्यतां विचिन्त्य निश्चित्य पुत्रवन्तं शान्ताभर्तारं प्रदास्यत इत्यन्वयः । पुत्रवन्तमित्यनेन “जातपुत्रः कृष्णकेशो ऽग्निनादधीत” इति विद्युक्तमग्न्याधानादिकारित्वं सुचितम् । तेनाहिताग्नित्वेनार्त्विज्याधिकारस्तस्योक्तः । शान्तासहितं भर्तारमित्यर्थकेन शान्ताभर्तारमित्यनेन शान्तासाहित्यमपि सूचितम् ॥ १।११।६ ॥

तं यज्ञम् पुत्रकामेष्टिरूपम् ॥ १।११।७ ॥

वरयिष्यति वरणं करिष्यति । तत्करोति इति णिच् ॥ १।११।८ ॥

वरणविषयमाह यज्ञेति । यज्ञः प्रसवकारणम् । प्रसवः स्वर्गकारणमिति बोध्यम् । लभते लप्स्यते । तं कामम् प्रार्थितं काम्ययज्ञम् ॥ १।११।९ ॥

पुत्रा इति । वंशप्रतिष्ठानम् वंशाविच्छेदस्तत्कराः ॥ १।११।१० ॥

एवमिति । पूर्वम् पूर्वस्मिन्काले । कस्मिन्पूर्वकाले तत्राह पुरा देवयुगे । एतच्चतुर्युगी प्राक्तनचतुर्यग्याद्ये । सत्ययुग इत्यर्थः ॥ १।११।११ ॥

एतत्कथाकथनस्य विवक्षितमर्थमाह स इति । स्वयमेवेति । न तु पुरोहितादिद्वारा ॥ १।११।१२ ॥

अनुमान्य कृतानुमतिकं कृत्वा । अन्यथा मयि पुरोहिते स्थिते यज्ञार्थं कथमन्यानयनमिति तस्य क्रोधः स्यात् । अनुमतौ हेतुः सूतवाक्यं निशाम्येति । श्रावयित्वेत्यर्थः ॥ १।११।१३ ॥

यत्र रोमपादराष्ट्रे ॥ १।११।१४ ॥

अभिचक्राम जगाम । तं देशमासाद्य प्राप्य । अथो अनन्तरम् । रोमपादसमीपे द्विजश्रेष्ठं ऋषिपुत्रं ददर्श । ततस्तदागमनानन्तरं राजा रोमपादस्तस्य राज्ञो दशरथस्य यथान्यायं यथाविधि विशेषतो़ ऽत्यादरेण पूजां चक्र इत्यन्वयः । आदरे हेतुः सखित्वम् ॥ १।११।१५१७ ॥

सख्यमिति । सख्यम् स्वमैत्री । सम्बन्धकम् यौनादिसम्बन्धः । ऋषिपुत्राय रोमपादेनाख्यातं कथितम् । तदा तच्छ्रवणानन्तरकाले तं दशरथं प्रत्यपूजयत् । ऋष्यशृङ्गः इति शेषः । तेन सह रोमपादेन सह । सम्बन्धश्चायं तादृशो येन दशरथस्यापि जामातृत्वव्यवहारयोग्य ऋष्यशृङ्गः । एतदेवाभिप्रेत्योक्तं प्राक्तव जामातेति । क्वचिच्चैवं पठ्यते ऽपि “अनेन मे ऽनपत्याय दत्तेयं वरवर्णिनी । याचते पुत्रतुल्यैषा शान्ता प्रियतरात्मजा । सो ऽयं ते श्वशुरो ब्रह्मन्यथैवाहं तथा नृपः ॥ " इति। अत्र याचत इति चतुर्थ्यन्तम्। अत एव प्राक्सान्तःपुरस्याङ्गदेशे गमनमुक्तम्। कन्यास्नेहाद्धि तासां गमनमिति भाति ॥

१।११।१८,१९ ॥

उद्यतमुपक्रान्तम् । संश्रुत्य प्रतिज्ञाय ॥ १।११।२० ॥

प्रतिश्रुत्याकर्ण्य ॥ १।११।२१ ॥

स ऋष्यशृङ्गः । तौ रोमपाददशरथौ ॥ १।११।२२ ॥

सृहृदम् रोमपादम् ॥ १।११।२३,२४ ॥

स्वलङ्कृतत्वप्रकारमाह धूपितमित्यादि । आदौ सिक्तं तोयैः पश्चात्सम्मृष्टम् ॥ १।११।२५ ॥

प्रेषितमित्यस्योक्त्वेत्यादिः ॥ १।११।२६ ॥

द्विजमृष्यशृङ्गम् ॥ १।११।२७ ॥

इन्द्रकर्मणेन्द्रसहायार्थं कर्म यस्य तादृशेन राज्ञा सत्कृत्य प्रवेश्यमानं द्विजं दृष्ट्वा देवेन्द्रेण स्वनगरं प्रवेश्यमानं काश्यपं वामनं दृष्ट्वा यथा स्वर्गवासिनो मुदितास्तथात्र नागरा मुदिता इति पूर्वेणान्वयः । इन्द्रकर्मणेत्यनेन राज्ञः समग्रो महिमातिशयो ध्वनितः ॥ १।११।२८ ॥

उपवाहनात्स्वसमीपानयनात् ॥ १।११।२९ ॥

तथागमनमेव व्याचष्टे सह भर्त्रेति । प्रीत्या शान्तायां प्रीत्या । बहुकालविश्लेषोत्तरं मिलितत्वाच्चानन्दाप्तिरन्तःपुरस्य ॥ १।११।३० ॥

सहद्विजा सपुत्रभर्तृकेति यावत् ॥ १।११।३१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥ ११ ॥