०१० ऋष्यशृङ्गकथा

सुमन्त्र इति । चोदितस्तादृशतपस्विनो गणिकाभिरानयनमत्याश्चर्यमिति विस्तरेण कथनाय प्रेरितः । मन्त्रिभिः सह सम्मन्त्र्य रोमपादेन यथार्ष्यशृङ्ग आनीतो येन चोपायेनानीतस्तन्मया निगदितं सर्वं प्रकारं मे मत्तो मन्त्रिभिः सह शृण्विति योजना ॥ १।१०।१ ॥

रोमेति । सहामात्यः पुरोहितस्तमुवाच । निरपायो ऽव्यभिचारिफलः ॥ १।१०।२ ॥

नारीणां नारीसम्बन्धिविषयाणां शब्दादीनां तत्सम्बन्धिसुखस्य चेत्यर्थः ॥ १।१०।३ ॥

अभिमतैः । प्राणिमात्रस्येति शेषः । इन्द्रियार्थैस्तद्विषयैर्दिव्यगीत्यादिभिः । अध्यवसीयतामस्मदुक्तकरणाय यत्यताम् ॥ १।१०।४ ॥

तदाह गणिका इति । सत्कृता विचित्राम्बराभरणान्नपानादिभिः ॥ १।१०।५ ॥

श्रुत्वेति । राजा पुरोहितं तथेति त्वयैव तथा कर्तव्यमिति प्रत्युवाच । अत्यल्पविषयत्वाद्राज्ञ एवं वादः । अथ पुरोहितस्य विप्रत्वाद्गणिकाभिः संवादो ऽनुचित इति सो ऽपि मन्त्रिणः प्रत्युवाच । मन्त्रिणश्च ते तथा चक्रुः साक्षाद्गणिकाः प्रैरयन् ॥ १।१०।६ ॥

वारेति । तन्मन्त्रिवचः । अस्मिन्वने युष्मज्जनपदप्रान्तवर्तिनि शृङ्गवेरपुरवने । आश्रमस्य विभाण्डकाश्रमस्याविदूरे निकटे स्थित्वा ऋषिपुत्रस्य धीरत्वादिगुणविशिष्टस्य दर्शने यत्नं कुर्वन्ति स्म चक्रुः ॥ १।१०।७ ॥

पितुरुपलालनादभिर्नित्यसन्तुष्टः स आश्रमान्नातिचक्रामाश्रमाद्दूरं न निरगात् ॥ १।१०।८ ॥

नेति । रूपादिकं जन्मप्रभृति दृष्टपूर्वं न भवति यथा तथा व्यवह्रियत इति शेषः । नगरजं सत्वमश्वगजादि । राष्ट्रजम् सूकरकुक्कुटादि ॥ १।१०।९ ॥

तत इति । तं देशम् वारस्त्रीसञ्चारदेशम् । यदृच्छया दैववशात् ॥ १।१०।१०,११ ॥

क इति । कस्त्वं किंजातिः कस्य पुत्र इति च किंनामा च । किं वर्तसे किंकर्मासि । अपि चैकः संस्त्वं विजने दूरे जनवासरूपग्रामादिभ्यो दूरे वने किमर्थं चरसीति प्रश्नत्रयम् ॥ १।१०।१२ ॥

अदृष्टेति । स्त्रिय इत्यस्य दृष्टा इति शेषः । अनेन हार्दमूलभूता “चलस्य चेतसो या स्यादुदासीनेषु वस्तुषु । अवारणीया वृत्तिः सा दृष्टिशब्देन कथ्यते ॥ " इत्युक्तलक्षणा दृष्टिरुक्ता। ततः सर्वांशेऽनुपेक्षात्मकज्ञानरूपः परिचयोऽपि मध्ये ज्ञेयः। अतस्तासु हार्दाद्दर्शनजस्नेहात्। “दोषानालोकिनी प्रीत्याख्यचित्तवृत्तिर्हार्दम्” इत्युक्तेः। स्वकम् स्वीयम्। अदृष्टरूपाः प्रागदृष्टैवंरूपाः। काम्यरूपाः कमनीयरूपाः। एतद्द्वयं च स्नेहकारणम् ॥

१।१०।१३ ॥

पितेति । नामेत्यन्तमाद्यप्रश्नोत्तरम् । द्वितीयप्रश्नोत्तरमाह कर्म च मदीयं भुवि प्रसिद्धम् । तपोरूपमित्यर्थः ॥ १।१०।१४ ॥

तृतीयप्रश्नोत्तरमाह इहेति । इह वने । आश्रमपदः । आर्षं पुंस्त्वम् । वर्तत इति शेषः । सर्वेषामिति निर्देशो वस्तुमात्राभिप्रायेणा । अनेन स्त्रीस्वरूपापरिज्ञानं सूचितम् ॥ १।१०।१५ ॥

ऋषीति । आसेत्यार्षम् । बभूवेत्यर्थः । तद्द्रष्टुं मतिर्बभूवेत्यन्वयः ॥ १।१०।१६ ॥

नो ऽस्माकम् । भक्ष्यमिति शेषः ॥ १।१०।१७ ॥

प्रतीति । समुत्सुका ऋष्यशृङ्गस्य तदाश्रमतो नयने । ऋषेर्विभाण्डकात् ॥ १।१०।१८ ॥

मुख्यानि प्रशस्तास्वादवन्ति । प्रतारणार्थं मोदका एवमुच्यन्ते । प्रतिगृहाण । ते भद्रम् कल्याणम् । भक्षयस्व च । फलानीति शेषः । मा चिरम् । ऋषेरागमनात्पूर्वमेव भक्षणीयमित्याशयः ॥ १।१०।१९ ॥

तत इति । समालिङ्गय स्पर्शेनापि वशीकर्तुमालिङ्गनम् । हर्षसमन्विताः । बालब्रह्मचारितो गाढतरालिङ्गनप्राप्त्या स्वकार्यानुकूलस्पर्शप्राप्त्या च ॥ १।१०।२० ॥

तानीति । ताभिः प्रीत्या दत्तानि । तेजस्वी वारवनितास्पर्शे ऽप्यूर्ध्वरेतस्त्वाद्ब्रह्मज्ञत्वाच्चाहीनतेजाः । मन्यते । यो मन्यते स इव व्यवहरतीत्यर्थः । पूर्वमनास्वादितान्यनास्वादितपूर्वाणि । नित्यनिवासिनामिति कर्तरि शेषे षष्ठी ॥ १।१०।२१ ॥

व्रतचर्यां मिथ्यैव किञ्चिद्व्रतमनुष्ठेयमस्माकमिति निवेद्य ज्ञापयित्वा । तस्मादपदेशाद्व्याजात् । तस्य पितुर्विभाण्डकाद्भीताः स्त्रियो गच्छन्ति स्म गताः ॥ १।१०।२२ ॥

अस्वस्थहृदयो ऽप्रसन्नचित्त आसीत् । दुःखात्तादृशचाक्षुषादिविषयसुखविश्लेषजात् । परिवर्तनमेकदेशानवस्थितिः ॥ १।१०।२३ ॥

तत इति । उक्ताद्धेतो । मनसा चिन्ययन् । तासां दर्शनस्पर्शनगमनादिप्रकारान्स्मरन्नित्यर्थः । तत्र गमनमेतद्वारकमवश्यं भावीति चिन्तयन्नित्यर्थश्च ॥ १।१०।२४ ॥

तं कं तत्राह मनोज्ञा इति ॥ १।१०।२५ ॥

उपसृत्य प्रत्युद्गम्य ॥ १।१०।२६ ॥

चित्राणीति । यद्यत्रैव चित्राणि मूलानि फलानि च भवेयुः । सम्भावनायां लिङ् । अतस्तत्र गमनं व्यर्थमिति चेत्तत्राप्येष विधिः । विचित्रफलमूलभक्षणविधिर्विशेषेणेतो ऽप्याधिक्येन भविष्यति ॥ १।१०।२७ ॥

श्रुत्वा त्विति । गङ्गायां पूर्वस्थापितां नावमारोप्य प्रवाहेणैवाङ्गदेशं निन्युरिति महाभारते ॥ १।१०।२८ ॥

तत्रेति । अङ्गदेशे ॥ १।१०।२९ ॥

वर्षेणेति । वर्षेण सहैव विषयं स्वदेशमागतं विप्रं प्रत्युद्गम्य प्रह्वो ऽञ्जल्यादिपूर्वं नम्रः । जात इति शेषः । शिरसा महीं गतश्च । साष्टाङ्गनमस्कारं च कृतवानित्यर्थः ॥ १।१०।३० ॥

अर्घ्यं चेति । अर्घ्यादिपूजिताद्विप्रेन्द्रादृष्यशृङ्गात्प्रसादं मयि सापराधे ऽपि भवान्नित्यप्रसन्नो ऽस्त्वित्येवं सौमुख्यं वव्रे । किमर्थमित्यत आह मेति । अतिजुगुप्सितं गणिकाभिः स्वानयनं व्यवहारकाले ज्ञात्वा तं विप्रमृष्यशृङ्गं तत्पितरं विभाण्डकं च मन्युः क्रोध आविशेत् । स मा प्रविशत्वित्यर्थमिति भावः ॥ १।१०।३१ ॥

अन्तरिति । प्रसन्नत्वादेव तदनुज्ञयान्तःपुरं प्रवेश्य हर्षं वृष्टिजमृषिसम्बन्धजं च ॥ १।१०।३२ ॥

एवमिति । ननु गणिकास्पर्शतत्स्पृष्टफलभक्षणादिभिरस्य तपोहानौ कथं तद्गमनमात्रेण वृष्टिः, न च स्त्रीत्वाद्यज्ञानान्न तपोहानिः । ईषद्दोषस्तु तपसैव दग्ध इति वाच्यम् । निर्मलब्रह्मचर्येण विदितनिखिलवेदशास्त्रतत्त्वस्य शास्त्रतः स्त्रीस्वरूपज्ञानस्य ब्रह्मचर्ये तत्परिहारज्ञानस्य च दुर्निवारत्वात्, वने वनचरस्त्रीणामनुभवाच्च । सर्वथाज्ञत्वे ऽनुग्रहशक्त्यभावापत्तेश्चेति चेन्न । निर्मलब्रह्मचर्येण ब्रह्मज्ञतया सर्वत्र ब्रह्मदृष्ट्या च दोषलेशस्याप्यस्पर्शात् । प्रारब्धवशात्क्षत्रियस्त्रीसम्बन्धं भाविनं तद्द्वारकं जानन्नेव गणिकाभिस्तथा व्यवजह्रे तासां भयानुत्पत्तये । अत एव “न तेन” इति नवमश्लोके “तथा व्यवह्रियते” इति शेषः पूरितो ऽस्माभिः प्राक् । एतत्सर्वं जानन्पितापि तमनुयाय न शप्तवान् । राजानमित्येवात्र तत्त्वम् । अनेन तत्त्वज्ञस्य सर्वदोषासम्बन्धो ध्वनितः । ब्रह्मज्ञे दानसङ्कल्पमात्रेण फलसिद्धिरित्यादि च सूचितम् । यत्तु क्वचिद्विभाण्डकस्य पुत्रान्वेषणं क्रोधेन ततो मार्गे ऋष्यशृङ्गाय शान्तादानादिवृत्तान्तलाभेन पुनराश्रमं परावृत्यागमनवर्णनं तदपि तत्त्वज्ञत्व एवोपपद्यते । अन्यथा स्वपुत्रस्य गणिकाद्वारकब्रह्मचर्यविलोपकृतो रोषो ऽज्ञस्य तस्य केनाप्युपायेन वारयितुमशक्य इत्यलम् ॥ १।१०।३३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे दशमः सर्गः ॥ १० ॥