००७ मन्त्रिगुणगौरवम्

अथ तस्य मन्त्रिसम्पदुच्यते तस्येति । गुणैरमात्यापेक्षितैर्गुणैर्युक्ताः । इक्ष्वाकोस्तद्वंशजस्य दशरथस्य । गुणानाह मन्त्रज्ञा इति । मन्त्रः कार्यविचारः । इङ्गितम् पराभिप्रायम् । प्रियस्य राज्ञो हिततत्पराः ॥ १।७।१ ॥

अष्टाविति । शुचयो ऽसत्यस्वामिद्रोहादिरूपवाङ्मनसाशुचित्वरहिताः । नित्यश आत्मप्रयोजनसमये ऽपि राजकृत्येषु तदनुष्ठानेष्वनुरक्तास्तत्पराः ॥ १।७।२ ॥

तान्नामत आह धृष्टिरित्यादि ॥ १।७।३ ॥

अभिमतौ ऋत्विजौ मुख्यर्त्विजौ । “अपरे उक्ताष्टप्रधानमन्त्रिव्यतिरिक्ता” इत्येके । “परे मन्त्रिण इत्युक्त्या वसिष्ठवामदेवयोर्मन्त्रित्वमपि सूच्यत” इति तीर्थः । तन्न “मन्त्रिणश्च तथा” इति पाठे परेषामृत्विक्त्वालाभे ऽपि वसिष्ठवामदेवयोमन्त्रित्वस्य शब्दमर्यादया व्यङ्गमर्यादया चालाभात् । वस्तुतः “तथापरे” इत्यस्य ऋत्विज इत्यर्थः । “मन्त्रिणश्च” इत्यस्य वसिष्ठाद्या इति शेषः । अमात्या देशादिकार्यनिर्वाहकाः । मन्त्रिणो व्यवहारद्रष्टार इति भेदः ॥ १।७।४ ॥

परामेवाह सुयज्ञ इत्यादि । सुयज्ञ ऋषिविशेषः ॥ १।७।५ ॥

“एतैर्ब्रह्मर्षिभिर्नित्यं सहितास्तस्य ऋत्विजः ।” इत्यनेन सर्वथा कर्मसाद्गुण्यं दर्शितम् । पौर्वकाः परम्परागता इत्यर्थकममात्यर्त्विजां विशेषणम् । विद्येति । विद्यया सह विनीताः । विद्याविनयोभयसम्पन्ना इत्यर्थः । यथायोगं वक्ष्यमाणानि विशेषणान्यमात्येषु मन्त्रिषु च योजनीयानि ॥ १।७।६ ॥

शस्त्रज्ञाः शस्त्रप्रतिपादकधनुर्वेदविदः । प्रणिहिताः सर्वराजकार्येषु सावधानाः । यथावचनकारिणः राज्ञ इति शेषः ॥ १।७।७ ॥

कामार्थहेतोरिति द्वन्द्वगर्भः कर्मधारयः ॥ १।७।८ ॥

स्वेषु मित्रेषु । परेषु शत्रुषु । चारेण करणेन कृतं क्रियमाणमपि वा । अपि चिकीर्षितं च । तेषां न किञ्चिदविदितमभूदिति शेषः ॥ १।७।९ ॥

सोहृदं विषयविशेषगतदोषान्दोषत्वेनागृह्णंश्चित्तवृत्तिविशेषस्तत्र परीक्षिताः । राज्ञेति शेषः । प्राप्तः सापराधत्वलक्षणः कालो यस्य तं धारयेयुः । कुर्युरित्यर्थः ॥ १।७।१० ॥

कोशसङ्ग्रहणं चतुरङ्गबलपरिग्रहे हेतुः । अहितं स्वहिताचरणरहितं शत्रुमप्यविदूषकमनपराधिनं न हिंस्युः ॥ १।७।११ ॥

राजशास्त्रम् नीतिशास्त्रम् अनुष्ठिता अनुसारिणः । शुचीनामिति । स्तेयानृतरहिताः शुचयः । विषयो देशः ॥ १।७।१२ ॥

ब्रह्मेति । “अभिपूरयन्” इति पाठे ऽडभाव आर्षः । सुतीक्ष्णेति । बलाबलमपराधतारतम्यम् । पुरुषस्येत्युपलक्षणम् । देशादीनां च बलाबलं सम्प्रेक्ष्येत्यर्थः । “देशकालवयःशक्तीः सञ्चिन्त्या दण्डकर्मणि” इति वचनात् । अयं कोशपूरणहेतुः ॥ १।७।१३ ॥

एकबुद्धीनाम् परस्परमेकबुद्धीनाम् । सम्प्रजानताम् पुरराष्ट्रवृत्तान्तं विचारयताम् । तेषां विचारविषये पुरादौ मृषावादित्वगुणविशिष्टः को ऽपि नासीत् ॥ १।७।१४ ॥

प्रेति । मन्त्रिणां नीत्या सर्वं प्रशान्तम् । निर्बाधमासीदित्यर्थः ॥ १।७।१५ ॥

नरेन्द्रस्य हितार्था हितप्रयोजनाः । सर्वत्रासन्निति शेषः ॥ १।७।१६ ॥

गुरोः सम्बन्धसामान्ये षष्ठी । गुरुणा स्वस्वाचार्येण राज्ञा च । अर्शआद्यजन्तगुणशब्देन गुणवत्तया गृहीता इत्यर्थः । तेन गुर्वनुग्रहप्राप्तसर्वैश्वर्यत्वं च सूचितम् । “गुणागुणगृहीताः” इति पाठे गुणदोषग्रहीतार इत्यर्थः । बहुव्रीहिः । आहिताग्न्यादित्वात्परनिपातो निष्ठान्तस्य । विदेशेष्वपि सर्वतो विज्ञातत्वे हेतुः । बुद्धिनिश्चया बुद्धिसम्पन्नाः ॥ १।७।१७ ॥

अभितो गुमवन्तः सर्वदेशे सर्वकाले च गुणवन्तः । सन्धीति । सन्ध्यादिविषयकशास्त्रतत्त्वज्ञाः । प्रकृत्या त्रिगुणया सम्पदान्विताः । तत्र सात्त्विक्या सम्पदा शिष्टपालने, तामस्या सम्पदा दुष्टनिग्रहकाले, भोगकाले राजस्या सम्पदा धनधान्यदासीदासशिबिकाश्वगजादिरूपया ॥ १।७।१८ ॥

संवरणम् रक्षणम् । बुद्धिषु विश्वारेषु ॥ १।७।१९ ॥

ईदृशैः प्रागुक्तरूपैरमात्यैश्च । चादृत्विङ्मन्त्रिभिः । अत एव गुणोपेतैरुपपन्न इति योजना ॥ १।७।२० ॥

चारेण स्वपरदेशवृत्तान्तम् । प्रजा धर्मेण यक्ता यथा भवन्ति तथा पुरुषै रक्षयन् । सर्वत्र हेतौ शता ॥ १।७।२१ ॥

अतो हेतोर्विश्रुतः । सत्यसङ्गरो रणे सत्यप्रतिज्ञः । तत्रायोध्यायाम् ॥ १।७।२२ ॥

अधिगमः प्राप्तिः । नताः सामन्ता यस्य । कण्टकाः शत्रवः चोराश्च ॥ १।७।२३ ॥

तैरिति । मन्त्रो विचारस्तत्साध्यं हितम् । उभयत्र निविष्टैः कुशलैः सूक्ष्मार्थदर्शननिपुणैः समर्थैस्तत्साधनशक्तैः । तेजोमयैः प्रचुरतेजोवद्भिः । तेजः पराभिभवसामर्थ्यम् । गोभिः किरणैर्युक्त उदितो ऽर्क इव । “गवामपि तेजोमयैरित्यत्यन्तस्वार्थिकमयडन्तं विशेषणम्” इत्येके । तदपुष्टम् ॥ १।७।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥ ७ ॥