तस्यामिति । वेदवित् । त्रैवर्णिकमात्रस्याद्यो ऽयं गुणः । सर्वसङ्ग्रहः सर्वेषामपरिमितचतुरङ्गबलराष्ट्रदुर्गादीनां सङ्ग्राहकः । एवं सामादिप्रयोग एवं फलं भविष्यतीत्यादिदीर्घदर्शनशीलः । तेजः प्रतापः ॥ १।६।१ ॥
अतिरथो दशसहस्रमहारथैर्योद्धा । वशी स्वाधीनः ॥ १।६।२ ॥
धनम् हिरण्यादि । अन्यैः सञ्चयैर्धान्यादिसञ्चयैः ॥ १।६।३,४ ॥
तेनेति । सत्याभिसन्धः सत्यप्रतिज्ञः । धर्मकामार्थैस्त्रिवर्गस्तत्सम्पादककर्मानुष्ठानप्राधान्येन पालिता ऽभवदिति योजना ॥ १।६।५ ॥
धर्मात्मानो धर्मवासनावच्चित्ताः । बहुश्रुता इति बहुव्रीहिः ॥ १।६।६ ॥
नाल्पेति । सतामुत्कृष्टवस्तूनां निचयः सन्निचयः । अल्पः सन्निचयो यस्य स नास्ति । अभावमुखेन सर्वेषां बहुधनवत्ता सूच्यते । यो ऽप्यगवादिमान् । अर्थाभावे ऽव्ययीभावे नञ्तत्पुरुषे वा । ततो मतुप् । अत एवासिद्धार्थो ऽसिद्धैहिकामुष्मिकप्रयोजन ईदृशः कुटुम्बी न कश्चिदासीदिति योजना । एवमग्रे ऽपि ॥ १।६।७ ॥
कामी कामैकतत्परः । कदर्यः । “आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीड्येत् । लोभाढ्यः पितरौ भ्रातृ़न्स कदर्य इति स्मृतः ॥ " “नृशंसो घातुकः क्रूरः”। शक्यमिति सामान्ये नपुंशकम्। अत्र नञावृत्त्या काम्यादिषु सम्बध्यते। तेनैकगुणवतां समुदितगुणवतां च तत्र सत्ता निषिध्यते ॥
१।६।८ ॥
सर्व इति । सुसंयताः सुष्ठु निगृहीतेन्द्रियाः ॥ १।६।९ ॥
भोगो धर्माविरुद्धः कामभोगः । अमृष्टो ऽनिर्मलः । “न नलिप्ताङ्गः” इति पाठः । नलिप्ताङ्ग इति सुप्सुपेति समासः । लेपश्चन्दनादिना । तदाहनासुगन्ध इति ॥ १।६।१० ॥
निष्क उरोभूषणम् । अनात्मवानजितान्तःकरणः ॥ १।६।११ ॥
अयज्वा सोमयागरहितः । क्षुद्रो ऽल्पविद्यैश्वर्यादिमान् । अवृत्तः सदाचाररहितः । न । सङ्करः कुण्डगोलकादिः । “न च निर्वृत्तसंकरः” इति पाठे निर्वृत्तमनुष्ठितम्, साङ्कर्यं परक्षेत्रे बीजावापादिरूपं येन स इत्यर्थः । सङ्करशब्दो भावप्रधानः ॥ १।६।१२ ॥
स्वेति । दानम् नित्यप्राप्तं यथाशक्ति विधिना । परदत्तस्य स्वीकारः प्रतिग्रहस्तत्र संयताः संकुचिताः, निषिद्धप्रतिग्रहरहिता इत्यर्थः ॥ १।६।१३ ॥
नास्तिको नास्ति परलोक इति बुद्धिमान् । अनृत्यसत्यवचनः । “अनृतः” इति पाठे ऽपि अर्शआद्यचा स एवार्थः । अशक्तः स्वीयैहिकामुष्मिकार्थसाधनासमर्थः ॥ १।६।१४ ॥
नेति । व्रतमेकादश्यादिव्रतम् । क्षिप्तचित्त इति । उन्मादादिनेति शेषः । व्यथित आदिव्याधिपीडितः ॥ १।६।१५ ॥
कश्चिदिति । नार्याम् नाश्रीमतीत्याद्यूह्यम् । श्रीः शोभा कान्तिः । रूपम् गौरत्वादि । राजा दशरथस्तस्मिन्भक्तिः स्नेहस्तदभाववान् नाभूत् ॥ १।६।१६ ॥
प्रथमं राजानं स्तुत्वा “तस्मिन्पुरवरे” इत्यादिभिर्ब्राह्मणप्रशंसा कृता । इदानीं क्षत्रियादिसाधारण्येन वर्णाः प्रशस्यन्ते वर्णोष्विति त्रिभिः । अग्र्यचतुर्थेष्वग्र्यो ब्राह्मणः स चतुर्थो येषा तेषु । सर्वे वर्णा इति शेषः । “वदान्यो दानशौण्डः स्यात्” इति विश्वः । सर्वत्रासन्निति शेषः ॥ १।६।१७,१८ ॥
ब्रह्ममुखम् ब्राह्मणप्रधानम् । तदाज्ञावर्तीत्यर्थः । शूद्राणां स्वकर्माह त्रीनिति । उपचारः सेवा ॥ १।६।१९,२० ॥
योधानामिति । शौर्यातिशयादग्नितुल्यानाम् । पेशलानामकुटिलानाम् । अमर्षिणाम् कृताभिभवासहिष्णूनाम् । कृतविद्यानामभ्यस्तास्त्रशस्त्रादिविद्यानाम् । योधानां सङ्घैः सम्पूर्णेति योजना ॥ १।६।२१ ॥
काम्बोजविषये काम्बोजदेशे । बाह्लीकैस्तद्देशजैः । “बाह्लीजैः” इति क्वचित्पाठः । वनायुर्देशविशेषः । हरिरिन्द्रस्तस्य हय उच्चैःश्रवास्तद्वदुत्तमैः । नदीजैः सिन्धुनदसमीपोद्भवैः ॥ १।६।२२ ॥
हैमवतैर्हिमवत्पर्वतजातैः । मातङ्गैर्गजैः ॥ १।६।२३ ॥
ऐरावतादयो दिग्गजाः ॥ १।६।२४ ॥
भद्रैरिति । “भद्रा मन्द्रा मृगाश्चेति विज्ञैयास्त्रिविधा गजाः । क्रमेण हिमवद्विन्ध्यसह्यजाः” भद्रमन्द्रमृगास्त्रिस्वभावाः सङ्कीर्णा गजाः । भद्रमन्द्रादयो द्विस्वभावाः ॥ १।६।२५ ॥
नित्येति । द्वियोजने द्वयोर्योजनयोः । अत्यन्तसंयोगे द्वितीया । भूयो ऽभ्यधिकम् । सत्यनामा योद्धुमशक्येत्यन्वर्थनामा । राज्ञो मूलधाम एतावत् ॥ १।६।२६ ॥
तामिति । शमिता नाशिता अमित्रा येन । नक्षत्राणि नक्षत्रलोकान् ॥ १।६।२७ ॥
तामिति । अर्गलं नाम कपाटावष्टम्भकतिर्यक्स्थापितदारुविशेषः ॥ १।६।२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥ ६ ॥