००५ अयोध्यावर्णनम्

एवं सर्गचतुष्टयेनोपोद्घातं कृत्वा वस्तु निर्दिशति सर्वेति । कृत्स्नेयं वसुन्धरा प्रजापतिं वैवस्वतं मनुमुपादायोपक्रम्य जयशालिनां जयेन शोभावता नृपाणां सर्वापूर्वमैहिकामुष्मिकसर्वापूर्वसाधनं यथा भवति तथासीत् । सर्वापूर्वशब्दो ह्युपादेयपरो नियतनपुंसकलिङ्ग इति केचित् ॥ १।५।१ ॥

किं च येषां वंशे स सगरो नामाभूत् । सागर इत्यादिना समुद्रे सागरशब्दप्रवृत्तिस्तदधीनेति सूचितम् । षष्टिगुणितानि पुत्रसहस्राणि षष्टिपुत्रसहस्राणि । क्वचित्तु “षष्टिः” इति पृथक्पदापाठः अनेन तदुद्धारार्थं तद्वंश्येन जगत्पवित्रीकरणसमर्था गङ्गा यद्वंशे ऽवतारितेति व्यज्यते । तेन चातिशयितं तद्वंशमाहात्म्यं सूचितम् । तद्वंशस्य गङ्गापरनामकभगवदवतारयोग्यता च तेन सूचिता ॥ १।५।२ ॥

तेषामिक्ष्वाकूणां वंशे वंशविषये रामायणमिति नाम्ना प्रसिद्धं महदाख्यानमुत्पन्नमिति योजना इक्ष्वाक्वपत्येष्विक्ष्वाकुत्वारोपादिक्ष्वाकूणामित्युक्तिः ॥ १।५।३ ॥

तदिति । तदिदं बुद्धिस्थम् आदितः आदिमारभ्य निखिलमुत्तरकाण्डान्तं सर्वम् । सर्वशब्दो ऽवयवकार्त्स्न्ये । सर्वावयवकम् वर्णपदच्युतिरहितमिति यावत् । धर्मकामार्थाः सहिता यस्मात्तत् सहिता इत्यत्र केनेत्याकाङ्क्षायां मोक्षेणेति गम्यते । तेन पुरुषार्थचतुष्टयसाधनमिति फलितम् । वर्तयिष्यावो गास्यावः । तदनसूयतासूयामकुर्वता श्रोतव्यम् । अनेनासूयाराहित्यमेवैतच्छ्रवणाधिकारिविशेषणमित्युक्तम् । सर्वपुरुषार्थसाधनत्वाच्च श्रवणे ऽत्यादरः सूचितः ॥ १।५।४ ॥

कोशल इति । मुदितः राजभिर्धर्मतः परिपालनात् स्फीत उत्तरोत्तरं वृद्दिं प्राप्तः सरयूतीरे तदुपलक्षितदेशे निविष्टः स्थितः जनपदः अस्तीति शेषः ॥ १।५।५ ॥

अयोध्येति । तत्र कोशलजनपदे ऽयोध्या नाम लोकविश्रुता नगर्यस्ति, या मानवेन्द्रेण मनुना स्वयं निर्मितासीत् पुरी सप्तपुर्यन्तर्गता ॥ १।५।६ ॥

आयतेति । सरयूतीरोपश्लेषेण द्वादशयोजनदीर्घा त्रीणि योजनानीति शेषः । विस्तीर्णा तिर्यग्विस्तारवती महापथो बहिर्मार्गः ॥ १।५।७ ॥

राजेति । राजमार्गः सर्वपण्यशोभितो राजद्वारात्पुरः प्रवृत्तः । मुक्तपुष्पाणि विकसितपुष्पाणि ॥ १।५।८ ॥

तां त्विति । दिवि देवपतिरिन्द्रः पुरीममरावतीं यथावासयामास एवं राजा दशरथस्तां पुरीमावासयामास पूर्वाधिकलोकवसतिमतीं चकार । धर्मन्यायबलेन पोषणान्महतो राष्ट्रस्य विशेषेण वर्धनकर्ता ॥ १।५।९ ॥

कपाटेति । तोरणम् बहिर्द्वारालंकारदारुबन्धः । सुविभक्तमन्तरं येषां तादृशा आपणा यस्यां सा । सर्वयन्त्रायुधवतीम् प्राकारोपरीति शेषः । उषिताम् कृतवासाम् ॥ १।५।१० ॥

सूतेति । सूताः स्तुतिपाठकाः । मागधा वंशावलिकथकाः । अट्टाला उपरिगृहाः । शतघ्न्यो नाम प्राकारसंरक्षणार्थमयोभारनिर्मिताः प्राकारोपरिस्थापिता आयुधविशेषाः ॥ १।५।११ ॥

वध्विति । वधूनां नाटकशालासमुदायैः सर्वतो युक्ताम् उद्यानानि क्रीडार्थं पुष्पवाटिकाः सालः प्राकारः, सालवनं वा ॥ १।५।१२ ॥

दुर्गेति । जलदुर्गेण गम्भीरागाधा परिखा यस्यां ताम् । अत एव दुर्गाँ मित्रैरपि दुःखगम्याम् अन्यैः शत्रुभिर्दुरासदामश्क्यसमीपगमनामपि वाराणा गजाः ॥ १।५।१३ ॥

सामन्तेति । समन्ताद्भवै राजसमूहैः बलिः करस्तद्दानरूपं कर्म येषां तादृशैः ॥ १।५।१४ ॥

रत्नविकृतै रत्ननीर्मितैः पर्वतसदृशैः प्रासादैः शोभिताम् । कूटाख्यैरगारैर्गृहैः स्त्रीणां क्रीडागृहैरिति यावत् । कूटाः शालाः अगारं गृहमित्यन्ये ॥ १।५।१५ ॥

चित्रामिति । अष्टापदं सुवर्णं तज्जलेन कृत आकारो ऽलङ्कारो यस्या इत्येके द्यूतफलकाकारामित्यन्ये । विमानगृहम् सप्तभूमिगृहम् “विमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति निघण्टुः ॥ १।५।१६ ॥

गृहेति । गृहैः पौरकुटुम्बिगृहैर्गाढां निबिडाम् अत एवाविच्छिद्राम् इक्षुकाण्डरससमानस्वादूदकवतीम् ॥ १।५।१७ ॥

भृशं नादितां पृथिव्यामत्यर्थमत्यन्तम् । अनुत्तमामिति बहुव्रीहिः ॥ १।५।१८ ॥

तपसा प्राप्तं दिवि सिद्धानां विमानमिव पृथिव्यामनुत्तमामिति सम्बन्धः । सुष्ठु निवेशितो वेश्मनामन्तर्बाह्यप्रदेशो यस्यां ताम् ॥ १।५।१९ ॥

ये चेति । विविक्तम् स्वसमूहाद्भ्रष्टं सहायरहितम् अपरापरं परे पित्रादयः, अपरे पुत्रादयः, तैर्हीनम्, वंशस्यैकतन्तुमित्येके परकीयस्वकीयभिन्नं केवलप्रेक्षकमित्यन्ये तथा शब्दमात्रानुमितसत्तया वेधयोग्यम्, प्रच्छन्नमिति यावत् । तथा विततं च विरुध्य युद्धं कृत्वा पश्चात्ततं पलायितम् ईदृशाञ्शक्यवेधानपि ये बाणैर्न विध्यन्ति ये च लघुहस्ताः शीघ्रवेधिनः विशारदा अस्त्रशस्त्रप्रयोगसमर्थाः तेषां सहस्रैः पूर्णामित्युत्तरेण सम्बन्धः ॥ १।५।२० ॥

सिंहेति । बाहुबलैरपि मल्लयुद्धैरपि ॥ १।५।२१ ॥

महारथैः । “आत्मानं सारथिं चाश्वान्रक्षन्युध्येत यो नरः स महारथसञ्ज्ञः स्यात्” एको दशसहस्रैर्योद्धा च आवासयामास । तेषामावासेन तैः पूर्णा चकारेत्यर्थः ॥ १।५।२२ ॥

तामिति । अग्निमद्भिराहिताग्निभिर्गुणाः शमदमादयः । वेदानां षडङ्गानां च पारगैः । महर्षिकल्पैर्महर्षिसदृशैः केवलैर्मुख्यैर्ऋषिभिर्मन्त्रद्रष्ट़ृभिश्चावृताम् व्याप्ताम् ॥ १।५।२३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥ ५ ॥