प्राप्तेति । अनेन रावणवधोत्तरमेतत्काव्यकरणमिति सूचितम् । वाल्मीकिस्तद्विषयवासी ऋषिरित्यर्थादवगन्तव्यम् । चरितम् तत्प्रतिपादकं काव्यम् । अर्थवद्ध्वन्यलङ्कारादिप्रशस्तार्थम् । “आत्मवान्” इति पाठे ऽवहितान्तःकरणः । प्राशस्त्ये मतुप् । आत्मशब्दश्चान्तःकरणवाची ॥ १।४।१ ॥
चतुर्विंशदिति । चतुर्विंशतिरित्यर्थकश्छान्दसः शतानिति पुल्लिङ्गो ऽप्येवम् । तत्र पञ्चशतरूपसर्गसङ्ख्या षट्काण्डानामेव । श्लोकसङ्ख्या तु सोत्तराणामित्याहुः । कतककृतस्तु उक्तसङ्ख्यापेक्षया षट्त्रिंशत्सर्गसङ्ख्याधिक्यदर्शनात् चतुर्विंशत्सहस्रापेक्षया श्लोकसङ्ख्याया अप्याधिक्यदर्शनाच्च उत्तरकाण्डीयसर्गसङ्ख्यानुक्तेश्च प्रक्षिप्तो ऽयं श्लोको न त्वार्ष इत्याहुः ॥ १।४।२ ॥
कृत्वा त्विति । सहशब्दः सहितपरः भविष्येण सह सहितं विशिष्टं यदुत्तरं तेन सहितमिदं काव्यं ब्रह्मनियोगात्तत्प्रसादाच्च कृत्वा को नु प्रभुः समर्थ एतत्प्रयुञ्जीयात्सभासु पठञ्छ्रावयेत्सभ्यानिति तु चिन्तयामास । सहोत्तरमित्यत्रोत्तरपदार्थस्य सभविष्यमिति सविशेषणत्वे ऽप्यार्षः समासः । भविष्यं च सीताविसर्जनमारभ्येत्येके तस्या भूप्रवेशोत्तरकालिकमिति परे । प्रयुञ्जीयादिति च्छान्दसम् ॥ १।४।३ ॥
तस्येति । भावितात्मनो रामचरितबन्धनेन शुद्धचित्तस्य । अगृहीतामिति च्छान्दसम् । आवां गातारावित्युक्त्वा पादग्रहणं कृतवन्तौ । मुनिवेषौ राजकुमारावप्याश्रमस्थितिवशात्तथाभूतौ कुशीलवौ कुशलवौ कुशशब्दस्य कुशीभावः पृषोदरादित्वात् । ददर्श काव्यग्रहणे योग्यतयापश्यदित्यर्थः ॥ १।४।४,५ ॥
स त्विति । धीर्धारणावती मेधा । परिनिष्ठितौ जातवेदाध्ययनौ । उपबृंहणं वेदस्य तत्तदर्थे तात्पर्यग्रहणं तद्रूपायार्थाय प्रयोजनाय अनेन श्रुतितात्पर्यविषयीभूतार्थप्रतिपादकतया प्रामाण्यमस्योपादेयत्वं च सूचितम् ॥ १।४।६ ॥
काव्यमिति । रामस्यायनं चरितं तत्प्रतिपादकं च महत्काव्यं पौलस्त्यवधमित्येवंनामकं चकार । तत्तावदग्राहयतेति पूर्वेण सम्बन्धः, यथा कृष्णचरितवर्णनरूपमाघकाव्यस्य शिशुपालवध इति नाम ॥ १।४।७ ॥
पाठ्य इति । इतः श्लोकचतुष्टयमेकान्वयम् । पाठ्यगेययोर्भावे ण्यद्यतौ तेन पाठे गाने चेत्यर्थः । गानं तन्त्रीनाडीसमुत्थश्रुतिभेदोपेतम् उभयत्रापि मधुरं श्रोतृसुखजनकम् । प्रमाणानि द्रुतमध्यविलम्बितानि । सप्तजातयः षड्जादयः सप्तस्वराः सप्तस्वरविशिष्टगानानुरोधीति यावत् ॥ १।४।८ ॥
रसैरिति । वीरादीत्यादिना बीभत्साद्भुतशान्तसङ्ग्रहः । शृङ्गारादिरसैश्च युक्तम् । नवरसयोगीति यावत् । ईदृशं काव्यं तावगायताम् ॥ १।४।९ ॥
तौ विशेषयति तौ त्विति । गान्धर्वस्य समग्रनाट्यस्य तत्त्वज्ञौ स्थानं च मूर्छना च तयोः समाहारः स्थानमूर्छनं तत्र कोविदौ तत्तत्त्वज्ञौ (तत्त्वज्ञौ इत्येव युक्तम्) । “यदूर्ध्वं हृदयग्रन्थेः कपोलफलकादधः । प्राणसञ्चारणस्थानं स्थानमित्यभिधीयते ॥ उरः कण्ठः शिरश्चेति तत्पुनस्त्रिविधं भवेत् । मन्द्रं मध्यं च तारं च” इति शाण्डिल्यः । तथा “यत्रैव स्युः स्वराः पूर्णा मूर्छना सेत्युदाहृता” इति च । यत्र गीतविशेष इत्यर्थः । रूपिणौ प्रशस्तरूपवन्तौ ॥ १।४।१० ॥
रूपेति । अत्र रूपमवयवसंस्थानम् । उक्तस्य स्वरसम्पन्नावित्यस्यैव विवरणं मधुरस्वरेति । बिम्बात्सूर्यादेरुत्थितौ बिम्बाविव प्रतिबिम्बाविव तथा रामदेहादुत्थितौ परौ रामदेहावित्यर्थः ॥ १।४।११ ॥
ताविति । धर्म्यम् धर्मादनपेतम् । वाचोविधेयम् विनापि पुस्तकं पाठयोग्यम् ॥ १।४।१२ ॥
ऋषीणां द्विजातीनामिति गोबलीवर्द्रन्यायेन । साधूनां द्विजेतराणमपि यथोपदेशं जगतुः । तत्त्वज्ञौ काव्यस्य गानादेश्च तत्त्वज्ञौ । सुसमाहितौ सुतरां स्थिरचित्तौ ॥ १।४।१३ ॥
“लक्ष्यलक्षण” इति पाठे सामुद्रिकवद्भिर्लक्ष्यं (सामुद्रिकविद्भिरिति युक्तम्) परीक्ष्यं लक्षणं सुलक्षणं तेन लक्षितौ युतौ अत एव महात्मानौ महाभागौ च भागो भाग्यमत्र । “गीयतामिदमाख्यानं भवद्भ्यामृषिसंसदि । राजर्षीणां पुण्यकृतां साधूनां च समागमे ॥ गुरुणैवमनुज्ञातौ प्रकृत्या मधुरस्वरौ” इति क्वचित्पठ्यते, तदनन्वयीति स्पष्टमेव । भावितात्मनाम् शुद्धचित्तानाम् ॥ १।४।१४ ॥
मध्येसभमित्यव्ययीभावः । समीपस्थौ सहितावित्यर्थः । तद्गानम् ॥ १।४।१५,१६ ॥
प्रशस्तव्यावितीडभावनलोपौ छान्दसौ । अहो आश्चर्यम् ॥ १।४।१७ ॥
चिरेति । एतद्रावणवधान्तचरितम् । एवमृषिप्रशंसोत्तरं पुनस्तयोर्गानमाह भावं काव्याभिप्रायं तत्तद्रसरूपं प्रविश्य तन्मयीभूय सुष्ठु यथा श्रोतृ़णां रसाविर्भावो भवति तथागायतामित्यर्थः ॥ १।४।१८ ॥
सहिताविति । मधुरम् पाठतो गानतश्च । रक्तमुच्चैः स्वरसम्पदा षड्जादिस्वरसम्पदा सम्पन्नं यथा भवति तथागायतामिति पूर्वेण सम्बन्धः । एवम् “अहो गीतस्य” इत्याद्युक्तरीत्या ॥ १।४।१९ ॥
संरक्ततरमत्युच्चतरं तथाप्यत्यर्थम् मधुरम् । ततो रामायणगानश्रवणानन्दपरवशानां मुनीनां चेष्टा आह प्रीत इति । संस्थितः सभायामिति शेषः ॥ १।४।२०,२१ ॥
बृसी ऋषीणामासनम् ॥ १।४।२२२४ ॥
स्वस्तीत्याद्याशीः ॥ १।४।२५ ॥
आश्चर्यमित्यादि मनोहरमित्यन्तमेकं वाक्यम् ॥ १।४।२६ ॥
परमिति । कवीनामाधारं वर्णनीयार्थस्य प्रकारभेदलाभद्वारा । हे सर्वगीतिषु कोविदौ कुशीलवौ, इदं गीतं गायनयोग्यं वस्त्वभिगीतं सुष्ठु गीतं यथाक्रमं समाप्तं समापितं च । “अविगीतम्” इति पाठे ऽनवद्यम् । यथा तथा गीतमित्यर्थः ॥ १।४।२७ ॥
आयुष्यमायुर्जनकम् । पुष्टिरभ्युदयः । सर्वश्रुतिमनोहरं सर्वश्रुतीनां मनांस्युपनिषदस्तदर्थहरमित्यनेन मोक्षदं गीतमित्येवं सर्वत्र प्रशस्यमानौ । तत्रायोध्यायाम् ॥ १।४।२८ ॥
रथ्यासु स्वल्पवीथिषु राजमार्गेषु च गायमानौ तौ कदाचिद्भरताग्रजो रामो ददर्शेत्यन्वयः ॥ १।४।२९,३० ॥
“उपोपविष्टसचिवः” इति पाठे उप समीप उपविष्टाः सचिवा यस्येत्यर्थः । “उपोपविष्टैः सचिवैः” इति पाठे समीपस्थैर्मन्त्रिभिर्भ्रातृभिश्च समन्वित इत्यर्थः । “आत्मरूपसम्पन्नौ” इति पाठे आत्मसदृशावित्यर्थः । “दृष्ट्वा तु रूपसम्पन्नौ” इति प्रचुरः पाठः ॥ १।४।३१ ॥
अनयोः सकाशादेतदाख्यानं श्रूयतामिति लक्ष्मणादीनुवाच ॥ १।४।३२ ॥
विचित्रार्थपदमिति पूर्वान्वयी । ततो गायकौ गातुं प्रैरयत् । स्वचित्तायतनिःस्वनं स्वस्य श्रोतृचित्तस्य चानुरूप आयतस्तारो निःस्वनो नादो यत्र तथा । स्वबलानुरूपं श्रोतृचित्ताह्लादकं च यथा भवति तावदुच्चस्वरमिति फलितम् ॥ १।४।३३ ॥
तन्त्रीलयवत्तन्त्रीशब्दसदृशम् । विश्रुतार्थं विशेषतः श्रुतमात्रेणार्थबोधजनकं यथा भवति तथातिशयेनागायतामित्यन्वयः । सर्वगात्राणि श्रोतृणां सर्वगात्राणि ह्वादयद्रोमाञ्चादिप्रादुर्भावेणानन्दानुभावनसमर्थानि कुर्वत् । मनस आह्लादो नाम निद्रायामिव विस्मृतान्यव्यापारता । हृदयानि । हृदयमित्युपनिषन्निर्वचनाद्धृदयं प्रत्यगात्मा । उपाधिभेदाद्बहुवचनम् । तस्य ह्लादो नाम तत्सुखभोगः । श्रोत्रं कर्णशष्कुली तदाश्रयं श्रोत्रेन्द्रियं तस्य सुखम् ॥ १।४।३४ ॥
अथाख्यानस्य श्रवणे प्रयोजनमुपदिशन्पुनरपि लक्ष्मणादीनत्यादरेण श्रवणार्थं प्रेरयति इमाविति । तत्तस्मात् महातपस्विनावाश्रमवासात्तपोयुक्तौ स्वरूपतस्त्वाजानुबाहुत्वादिपार्थिवलक्षणान्वितौ मुनिशिष्यत्वाच्च मुनी इमौ प्रबन्धस्य गायकौ । चरितं गेयं काव्यं च महानुभावं शब्दार्थालङ्कारललितसन्दर्भत्वादिवैभवेन सार्वभौमविषयत्वेन च महावैभवम् अतो निबोधतादरेण शृणुत । किञ्च । यतस्तत्काव्यं तच्छ्रवणं च ममापि भूतिकरमिहामुत्राभ्युदयकरं प्रचक्षते ऽनेककल्पजीविनो वृद्धाः पूर्वपूर्वरामायणस्य तैस्तत्फलत्वोक्त्या अस्यापि तत्फलकत्वमिति भाव इति प्राञ्चः । वस्तुतो मम चरितं मत्सम्बन्धि तच्चरितं मच्चरितार्थप्रतिपादकं तल्लोकोत्तरं काव्यं निबोधत । यतस्तच्छ्रोतृ़णां भूतिकरमपि भुक्तिमुक्तिदमपि प्रचक्षते पूर्ववत् । श्रवणमात्रेण सर्वगात्राह्लादाद्यपि शब्दग्राह्यम्, अत एव महानुभावम् महाप्रभावम् । अस्य श्लोकस्य लक्ष्मणादीनामेतच्छ्रवणप्रवर्तकार्थकत्वेनैवमेवास्य व्याख्योचितेति द्रष्टव्यम् ॥ १।४।३५ ॥
तत इति । रामवचःप्रेरितौ तौ । मार्गविधानसम्पदा । गानं द्विविधम् मार्गो देशी चेति । तत्र प्राकृतावलम्बि गानं देशी संस्कृतावलम्बि तु गानं मार्गः । तयोर्मध्ये मार्गाख्यगानमार्गावलम्बनसामग्र्या अगायताम् । परिषद्गतः सभागतः स रामो ऽपि बुभूषया स्वचरितस्य चिरकालं स्थितीच्छया प्रबन्धस्य गीतश्रवणे आसक्तमना बभूव । शनैःपदेनोत्तमपुरुषत्वात्स्वप्रशंसार्थके ऽत्र काव्ये शनैः प्रवृत्तिरिति ध्वन्यते । स्वयं श्रवणे चोत्तरोत्तरं श्लोकानामुपादेयत्वबुद्ध्या श्रवणे प्रवृत्तौ तस्य स्थिरत्वं भवतीति तदाशयः । स्वप्रवर्तितकविकृतत्वाच्चैवमिच्छा भगवत इति बोध्यम् । इहामुत्रस्वाभ्युदयेच्छयेति व्याख्यानं त्वयुक्तम्, भगवतः स्वाभ्युदयेच्छाया बाधात् । एतेन राज्ञां कविकृतस्वकाव्यश्रवणमावश्यकमिति सूचितम् ॥ १।४।३६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥ ४ ॥