श्रुत्वेति । नारदात्काव्यविषयं रामचरितरूपं वस्तु श्रुत्वा समग्रं प्रकाशरहस्यसहितं कुर्विति च ब्रह्ममुखाच्छ्रत्वा तस्य धीमतो रामस्य यद्वृत्तं चरितं सरहःप्रकाशं तद्भूयः पुनर्व्यक्तं साक्षात्कारविषयो यथा भवति तथा कर्तुमन्वेषते उद्युङ्क्ते स्मेति शेषः । धर्मार्थेति त्रिवर्गोपलक्षणं फलत्वेन तत्सहितम् । हितम् मोक्षफलकम् ॥ १।३।१ ॥
उद्योगमेवाह उपेति । आचम्येत्यर्थः । सम्यक्स्मृत्युक्ताचमनरीत्या इदमन्येषामपि प्रायत्यसम्पादकानामुपलक्षणम् । प्रागग्रेषु दर्भेषु स्थित्वा धर्मेण योगजेन ब्रह्मप्रसादरूपेण च गतिं रामादीनां चरितरूपामन्वेषते ऽतियत्नेन पश्यति स्म ॥ १।३।२ ॥
रामेत्यादि । श्लोकद्वयमेकं वाक्यम् । भार्याकौसल्याद्यास्तत्सहितेन दशरथेन रामादिभिश्च यत्प्राप्तं सम्बद्धं चरितं राज्यपालनादिरूपं हसितादिरूपं च तत्सर्वं तत्र समाधौ तत्त्वतो धर्मवीर्येण योगजबलेन पश्यति स्म ॥ १।३।३,४ ॥
अयोध्यावासकालिकं वृत्तं निरीक्ष्य तदनन्तरं वनकालिकं च निरीक्षितमित्याह स्त्रीतृतीयेनेति । द्वितीयो लक्ष्मणः । तत्सर्वं चेति चस्य तदुत्तरकालिकमुत्तरकाण्डस्थं चेत्यर्थ इत्यपरे ॥ १।३।५ ॥
नेदं दर्शनं स्वप्नवदित्याह तत इति । पूर्वाचरितयोगाभ्यासादित्यर्थः । योगम् समाधिम् । तत्र समाधौ पुरा पश्यति अपश्यदित्यर्थः । यन्निर्वृत्तं जातम् इदमुपलक्षणम् । यच्च भावि तच्चरित्रं पश्यति स्मेति यावत् ॥ १।३।६ ॥
तदिति । धर्मेण योगजेन अत एव महामतिः । तत्सर्वमतीतमनागतं च तद्विषयं काव्यम् । अभिरामस्येत्यनेन तादृशकाव्यकरणस्य रागप्राप्तोक्ता ॥ १।३।७ ॥
कामेति । कामरूपो यो ऽर्थः पुरुषार्थस्तद्रूपेण गुणेन फलेन युक्तं धर्मार्थरूपपुरुषार्थफलेन विस्तरवत् विस्तरेण तदुभयप्रतिपादकं तद्दातृ चेत्यर्थः । रत्नैः काव्यगुणालङ्कारव्यङ्ग्यैराढ्यम् पूर्णम् । सर्वश्रुतीनां मनोभूताः सारभूता उपनिषदस्तासां हरं तदर्थप्रतिपादकम्, तेन मोक्षफलकत्वम् । व्याख्यानान्तरं त्वचमत्कारीत्युपेक्षितम् ॥ १।३।८ ॥
स इति । रघुवंशस्य तद्वंशावतीर्णरामस्य नारदकथनक्रमेणैव तच्चरितं तत्प्रतिपादकं काव्यं चकारेत्यर्थः ॥ १।३।९ ॥
विस्तरेण वर्णनीयानर्थान् “इष्टं हि विदुषां लोके समासव्यासधारणम्” इत्युक्तेः समासेन सङ्क्षेपेणाह जन्मेत्यादिना । वीर्यं स्वयमक्षतस्य पराभिभवसामर्थ्यम् । सर्वानुकूलतां सर्वेषामनुवर्तनरूपां प्रियतां विश्लेषासहत्वपर्यवसायिनी वस्तुसौन्दर्यबलाद्विषयलाभे ऽप्यनिवर्त्याविद्यमानानामपि दोषाणामदर्शनकरी, व्यसनसहस्रसम्पाते ऽप्यनिवर्त्या या अनुपस्कृतवस्तुमात्रालम्बिनीच्छा प्रेमपदवाच्या तद्विषयताम् । एवं भगवति रामे मायाशबले जातं प्रेम चित्तशुद्धिद्वारा शुद्धविषयं प्रेमोत्पाद्य निदिध्यासनद्वारा मुक्तिजनकज्ञानपर्यवसायीति बोध्यम् । क्षान्तिम् “उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते” इत्युक्तरूपाम् । सौम्यतामक्रूरदर्शनताम् ॥ १।३।१० ॥
नानेति । विश्वामित्रसहायने विश्वामित्रेण सह गमने तदुपस्थितिकाले सभायां मार्गे गमनकाले च चित्राः नाना कथाः अन्याश्च कथा योगवासिष्ठोक्ता ब्रह्मप्रतिपादिकाः कथा अत्र ग्रन्थे उक्ता गङ्गादिकथाश्चेत्यर्थः । एतेनात्र श्लोके नानेत्यन्या इति च व्यर्थमित्यपास्तम् । जानक्याश्चेति चेनोर्मिलादिसङ्ग्रहः ॥ १।३।११ ॥
रामेति । द्वितीयः परशुरामः । गुणान्विनयजयरूपान् ॥ १।३।१२ ॥
विघातं चेति । विवासनम् वनं प्रति प्रस्थापनम् । परलोकस्य चाश्रयम् परलोकगमनम्, मरणमिति यावत् ॥ १।३।१३ ॥
प्रकृतीनामिति । प्रकृतीनां वञ्चनपूर्वकविसर्जनमयोध्यां प्रति परावर्तनम् । निषादाधिपो गुहः । सूतः सुमन्त्रः ॥ १।३।१४ ॥
गङ्गाया इति । अभ्यनुज्ञानम् सम्मतिः ॥ १।३।१५ ॥
वास्त्विति । वास्तुकर्म चित्रकूटे गृहनिर्माणम् । निवेशम् तत्र गृहे ऽवस्थानम् । प्रसादनम् भरतकर्तृकम् ॥ १।३।१६ ॥
पादुकेति । श्रेष्ठपादुकयोर्भरतकृतमभिषेकम् । नन्दिग्रामस्य नितरामतिशयेन वासनम्, भरते तत्र गते सर्वप्रजास्तत्रैव वासं कृतवत्य इत्यर्थः ॥ १।३।१७ ॥
दर्शनमिति । अनसूयासमास्यामनसूयया सह सीतायाः समास्या सहासनम् । यद्यप्येतद्विराधवधात्पूर्वमेव तथापि क्रमे तात्पर्याभावाद्व्यत्ययेनाभिधानम् । अङ्गरागश्चन्दनादिः ॥ १।३।१८ ॥
दर्शनमिति । अगस्त्यसकाशाद्धनुषो ग्रहणम् ॥ १।३।१९ ॥
वधमिति । उत्थानम् जानकीहरणोद्योगम् ॥ १।३।२०२२ ॥
ऋष्येति । प्रत्ययोत्पादनम् शालभेदादिभिः सुग्रीवस्य विश्वासजननम् । विग्रहम् युद्धम् ॥ १।३।२३ ॥
वालीति । सुग्रीवप्रतिपादनम् सुग्रीवस्य राज्ये स्थापनम् । समयम् शरदि यात्रा कर्तव्येति रामसुग्रीवयोः सङ्केतम् । वर्षेति । वर्षाकालिकवासाङ्गीकरणम् ॥ १।३।२४ ॥
कोपमिति । उपसङ्ग्रहम् वानराणां मेलनम् । पृथिव्याश्च निवेदनम् सुग्रीवेण वानरान्प्रति पृथ्वीसंस्थानकथनम् ॥ १।३।२५ ॥
अङ्गुलीयकदानम् रामकर्तकं हनुमति । प्रायोपवेशनं प्रायेणानशनेन वानराणामुपवेशनं समुद्रसमीपे वासः ॥ १।३।२६२८ ॥
एकस्यापि विचिन्तनमसहायस्य कर्तव्यार्थविचारं चेत्यर्थः । अवरोधो ऽन्तःपुरम् ॥ १।३।२९ ॥
यानम् गमनम् ॥ १।३।३० ॥
अभिज्ञानम् रामदत्ताङ्गुलीयकम् ॥ १।३।३१,३२ ॥
ग्रहणमिति । लङ्काया दाहेन तत्रत्यानामाक्रन्दनं लङ्कादाहे हनुमद्गर्जनमित्यर्थो वा । “अभिमर्दनम्” इति पाठे लङ्काया दाहेनाभितो मर्दनमित्यर्थः । प्रतिप्लवनम् पुनः सागरोत्तरणम् ॥ १।३।३३ ॥
मणिनिर्यातनम् सीताया दत्तस्य स्वशिरोरत्नस्य राघवे दानम् । नलसेतोर्नलनिर्मितसेतोः ॥ १।३।३४ ॥
प्रतारम् । सेनाया इति शेषः ॥ १।३।३५ ॥
निबर्हणम् मारणम् । अरे रावणस्य ॥ १।३।३६ ॥
अयोध्यायाश्च गमनम् तदुद्देश्यकं गमनम् ॥ १।३।३७ ॥
रामाभिषेकाभ्युदयम् रामाभिषेकोत्सवम् । सर्वत्र चकारेत्यनुकृष्यते ॥ १।३।३८ ॥
अनागतं चेति । यत्किञ्चिदित्यनेन सीताविसर्जनात्पूर्वकालिकस्य भूयस्त्वमनन्तरकालस्याल्पता द्योत्यते तत्सर्वमुत्तरे सर्वतो विशिष्टे काव्ये चकार निबबन्धेत्यर्थः ॥ १।३।३९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥ ३ ॥