००२ ब्रह्मागमनम्

नारदस्येति । विशारदो विशिष्टा व्याकरणसंस्कारादिविशेषवती विचित्रार्था च शारदा वाणी यस्य सः । सहशिष्य इत्यत्र “वोपसर्जनस्य” इति वैकल्पिकत्वात्सत्वाभावः । प्रश्नानुरूपं वाक्यगुणसमूहवच्चोत्तरं सम्यग्दत्तमिति पूजयामासातिविचित्रं भगवद्वचनमित्यादिशब्दैः ॥ १।२।१ ॥

यथावदिति । आपृच्छ्यैव साधु यामीत्युक्त्वैव । अभ्यनुज्ञातो यथासुखं विहरतामिति वाल्मीकिनानुगमनपूर्वमभ्यनुज्ञातः । अनेन गुरुशिष्ययोः स्नेहभक्तिप्रकाशनम् । विहायसमिति पुँल्लिङ्गम् ॥ १।२।२ ॥

स इति । स वाल्मीकिस्तस्मिन्नारदे देवलोकं गते सति मुहूर्तं स्वाश्रमे स्तित्वा पश्चान्माध्याह्निकार्थं जाह्नव्या अविदूरतः समीपे वर्तमानं तमसातीरं जगाम । यत्तु मुहूर्तमात्रेण देवलोकं गत इत्यन्वय इति, तन्न । छान्दसत्वकल्पने मानाभावात् । अव्ययत्वकल्पनस्याप्यगतिकगतिकत्वाच्च । “मुहूर्तात्” इति पाठस्तु कल्पितः ॥ १।२।३,४ ॥

अकर्दममिति । अवतरणप्रदेशस्य पङ्कराहित्यमनेनोच्यते । तीर्थमृषिजुष्टजलं निशामय पश्य । अत एव “शमो दर्शने” इति मित्वाभावादह्रस्वत्वम् । रमणीयत्वे हेतुः प्रसन्नाम्ब्विति । सन्मनुष्यचित्तस्य कामादिदोषराहित्येन नित्यप्रसन्नत्वात्सादृश्यम् ॥ १।२।५ ॥

न्यस्यतामिति । “वल्कला” इति पाठे छान्दसं स्त्रीत्वम् । “वल्कलमस्त्रियाम्” इति निघण्टुः । इदमेवात्यासन्नमपि गङ्गातीर्थम् । मध्याह्नकालातिक्रमादगत्वेति शेषः ॥ १।२।६ ॥

एवमिति । वाल्मीकेनेति । “तस्येदम्” इत्यण् । प्रायच्छतेति छान्दसम् । नियतः सेवापरः ॥ १।२।७ ॥

स इति । नियतेन्द्रियो जितेन्द्रियः । विचचार । अनुष्ठानयोग्यैकान्तदेशनिरीक्षणायेति शेषः ॥ १।२।८ ॥

तस्येति । तस्य वनस्याभ्याशे समीपे चरन्भगवांस्तद्वनाभ्याश एव चरन्तमनपायिनमाधिव्याधिरहितमत एव चारुनिःस्वनं क्रौञ्चयोर्मिथुनं ददर्श । चरन्तमनपायिनमित्यार्षम् ॥ १।२।९ ॥

तस्मादिति । मिथुनाद्विभक्तमेकं पुमांसं पापनिश्चयस्तद्धननरूपपापनिश्चयः । अत एव वैरनिलयो निजानपकारिष्वपि प्राणिष्वकारणवैराश्रयः स इव निषादस्तस्य पश्यतस्तं पश्यन्तमनादृत्य जघान । पश्यत इति षष्ठी चानादरे ॥ १।२।१० ॥

तमिति । चेष्टमानम् लुठन्तम् । निहतं दृष्ट्वा निषादेनेति शेषः । करुणां गिरम् दीनं शब्दम् । रुराव अकरोदित्यर्थः । पाठान्तरे “खे परिभ्रमा” । ख आकाशे परिभ्रमणं करोति सेत्यर्थः ॥ १।२।११ ॥

वियुक्तेति । सहचारिणा । अहोरात्रमिति शेषः । ताम्रशीर्षेण कुक्कुटादिवत्ताम्रवर्णशीर्षगतचूडायुक्तेन । मत्तेन कामसम्भोगवशादिति शेषः । अत एव पत्रिणा सम्भोगकालत्वाद्विततपक्षवता । सहितेन स्वसङ्गतेन तेनापूर्णरतित्वादत्यन्तं शोकः । इत्थंभूतेन पतिना वियुक्ता रुरावेति पूर्वेणान्वयः ॥ १।२।१२ ॥

तथाविधमिति । तथाविधम् कामभोगवशम् । धर्मात्मनो दयादाक्षिण्याहिंसादिधर्मप्रवणचित्तस्य कारुण्यं दया समपद्यत समजायत ॥ १।२।१३ ॥

तत इति । करुणवेदित्वात्सञ्जातकरुणत्वात् । ह्रस्वश्छान्दसः । विदेः सत्तार्थाल्लाभार्थाद्वा णिनिः । रुदतीं क्रौञ्चीं निशाम्य दृष्ट्वा । अयं काममोहितपक्षिवधरूपो ऽधर्म एवेति निश्चित्य क्रौञ्चीविषयकरुणावत्त्वेन, अर्थात्पापकारिणि निषाद आविर्भूतरोषतयेदं वक्ष्यमाणं वचनमब्रवीत् ॥ १।२।१४ ॥

मा निषादेति । क्रौञ्चहन्तृप्रत्यक्षदृश्यमाननिषादशापरूपो ऽर्थस्तु स्पष्ट एव । किञ्च मा लक्ष्मीर्निषीदत्यस्मिंस्तत्सम्बोधनं मानिषाद यद्यस्माद्धेतोः क्रौञ्चमिथुनान्मन्दोदरीरावणरूपादेकं काममोहितं रावणमवधीर्हतवानसि तस्मात्त्वं शाश्वतीः समा अनेकान्संवत्सरानद्वितीयां प्रतिष्ठामखण्डैश्वर्यानन्दावाप्तिमगमः प्राप्नुहि । तेन “अर्थतः शब्दतो वा ऽपि मनाक्काव्यार्थसूचनम्” इत्युक्तेः श्रीरामकृतरावणवधरूपकाव्यार्थः काव्यादाववश्यकर्तव्याशीर्वादश्च सूचित इति तीर्थः ॥

कतककृत्तु प्रत्यक्षसंहन्तृनिषादशापरूपो ऽर्थस्तु स्पष्ट एव । किञ्च नितरां सदेवर्षिगणं त्रैलोक्यं सादयति पीडयतीति निषादस्तस्य सम्बुद्धिर्हे निषाद रावण यद्यस्मात्क्रौञ्चमिथुनात् अल्पीभावार्थक्रुञ्चेः पचाद्यच् क्रुञ्चम् ततः स्वार्थिको ऽण् क्रौञ्चम् । राज्यक्षयवनवासादिदुःखेनात्यल्पीभूतं परमकार्श्यं गतं यन्मिथुनं सीतारामरूपं तस्मादेकं सीतारूपं यस्मादवधीर्वधाभ्यधिकपीडां प्रापितवानसि, तस्मात्त्वं प्रतिष्ठां या लङ्कापुरे पुत्रपौत्रभृत्यगणवैशिष्ट्येन ब्रह्मणा प्रतिष्ठा दत्ता तामतः परं मा गम इति काव्यार्थसूचनम् । त्रैलोक्यस्य परममङ्गलरूपं चेदं सत्यसरस्वत्या पुरस्तादाविर्भावितमित्याह । अत्रेदमवधेयम् रावणवधे जाते ऽयोध्याराज्यप्राप्त्यनन्तरं नारदं प्रति प्रश्न इति स्वयमेव व्याख्यातत्वादुत्तरकालिकैतच्छ्लोकस्यैव विधिघटितस्योक्तार्थस्य कतकमते कथं सङ्गतिः । कथं वा सर्वज्ञा सत्यसरस्वती भूतमर्थमाशास्यत्वेन निर्दिशेदिति । तीर्थव्याख्याने ऽपीदं काव्यार्थसूचनं कविना कार्यमिति तदुक्तसम्मतिश्लोकार्थाद्गम्यते । तत्र वाल्मीकेस्तथा तात्पर्ये “किमिदं व्याहृतं मया” इत्युक्तेरसङ्गतेः । न च किमिदमित्यस्य पद्यं गद्यं वेत्यर्थः । “तदप्येषः श्लोको ऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे” इत्यादि बहुशः श्रुतिषूपलम्भेनेदृशाक्षरसन्निवेशस्य श्लोकत्वेन मुनेरज्ञानमित्यस्यात्यन्तमनुचितत्वात् । प्राक्तननारदऋषिसंवादस्यापि श्लोकरूपतया तत्रैव सन्देहकरणौचित्याच्च । तत्प्रश्नोत्तरं सर्वं केवलसंस्कृतैरेव । एतछ्श्लोकोत्तरमेव श्लोकैस्तस्यापि निबन्धनमिति कल्पना तु न युक्ता मानाभावात् अन्यथोपपत्तेश्च । अधर्मत्वबुद्धिपूर्वं कथितवचनस्येदृशे ऽर्थे तात्पर्यसम्भवस्याप्यभावाच्च । माङो योगाभावे ऽगम इत्येतावन्मात्रेण लुङा भूतत्वस्यैव प्रतीत्याशिषो अप्रतीतेश्च । एतच्छ्लोकनिर्गमकाले कवेः काव्यं करिष्यामीति बुद्धेरप्यभावाच्च । ब्रह्मोपदेशानन्तरमेव हि तथा बुद्धिर्वाल्मीकेः ॥

मम तु प्रतिभाति नारदात्स्वगुणश्रवणानन्तरं मुनेः स्ववर्णनेच्छां ज्ञात्वा स्वचरित्रस्य च करुणारसमयत्वेन तत्प्रधानकाव्ये ऽतिकरुणचित्तस्यैवाधिकारादृषेः करुणचित्तत्वजिज्ञासयेव पूर्वभृगुदत्तशापस्य पुनरुक्तत्वकरणेन दार्ढ्यसम्पादनाय मुनेरीक्षणाय च भगवान् राम एव निषादरूपेण पश्यतो मुनेः पुरतस्तमनादृत्य क्रौञ्चं रक्षोविशेषरूपं जघान । ततस्तदिच्छावशादन्तयामितया तथा प्रेरणाच्च महानधर्मो ऽयमनेन कृत इति रुषा “पापमते निषाद यत्त्वं काममोहितं क्रौञ्चमिथुनान्मिथुनीभूतात्क्रौञ्चयुगाद्विभक्तमेकमवधीस्तत्त्वमपि शाश्वतीः समा आयुःशेषभूतानि बहूनि वर्षाणि प्रतिष्ठां स्वस्त्रीसाहित्येन स्थितिमिह लोके मा गमो मा प्राप्नुहि । किन्त्वत्यल्पकालमेव तथा वास एकमिथुनीभावपर्यन्तमिति यावत्” इति शप्तवान्मुनिः । “एकमवधीः” इत्युक्तेर्यथा स त्वया स्त्रीविरहितः कृतः सा च नायकहीना कृता, तथा त्वमपि प्रियया स्वभार्यया हीनो भव । सा च त्वया हीना भवत्विति पर्यवसानम् । अगम इत्यडागमस्तु माङ्योगे ऽप्यार्षत्वात् । तस्य रक्षोरूपत्वं त्वेतदुत्तरं ब्रह्मणः सकाशात्सकलरामवृत्तान्तज्ञानवरलाभोत्तरकालकृते “तस्मात्तु मिथुनादेकम्” इति श्लोके वैरनिलय इति विशेषणेन सूचितम् । रक्षःस्वेव तस्य लोकदृष्ट्या वैरनिलयत्वप्रसिद्धेः । निषादस्यापि प्राणिषु न वैरं किन्त्वाहाराद्यर्थमेव तद्धननमिति प्रसिद्धेश्च । अत एवारण्यकाण्डे मृगयाव्यसनमुपक्रम्य “विना वैरं च रौद्रः” इति, “तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ॥ " इति च वक्ष्यति।

“त्रीण्येव व्यसनान्यद्य कामजानि भवन्तु ते” इति चोपक्रमे उक्तम् । नन्वीदृशो ऽर्थस्त्वया केन मानेन निर्णीत इति चेच्छृणु । ऋष्यक्षरस्वारस्यात् । तच्चाग्रे स्फुटम् । तत्र सन्देहश्चेत्स्वान्तर्यामिणं पृच्छ । तदुक्तं पाद्मे शिवशिवासंवादे रामवैभववर्णने चतुर्विंशे ऽध्याये “ततो जानपदः कश्चित्पामरः काष्ठविक्रयी । स्ववधूगर्हणद्वारा रावणस्य गृहोषिताम् ॥ गर्हयामास वैदेहीं दुर्वृत्तो लोकनिन्दकः । तच्छ्रुत्वा देवि चारेभ्यो भीतो लोकापवादतः ॥ आहूय लक्ष्मणं प्राह रामो राजीवलोचनः । शुणु मे वचनं गुह्यं सीतासन्त्यागकारणम् ॥ वाल्मीकिना ऽथ भृगुणा शप्तो ऽस्मि किल लक्ष्मण । तस्मादेनां त्यजाम्यद्य जनो नैवात्र कारणम् ॥ " इति। तथा स्कान्दे पातालखण्डेऽयोध्यामाहात्म्ये तत्रत्यतीर्थाश्रमवर्णनप्रस्तावे “शापोक्त्या हृदि सन्तप्तं प्राचेतसमकल्मषम्। प्रोवाच वचनं ब्रह्मां तत्रागत्य सुसत्कृतः ॥

न निषादः स वै रामो मृगयां चर्तुमागतः । तस्य संवर्णनेनैव सुश्लोक्यस्त्वं भविष्यसि ॥ इत्युक्त्वा तु जगामाशु ब्रह्मलोकं सनातनः । ततः संवर्णयामास राघवं ग्रन्थकोटिभिः ॥ " कोटिभिः शतकोटिभिः। “चरितं रघुनाथस्य शतकोटिप्रविस्तरम्” इत्यन्यत्रोक्तेः। तच्च सम्पूर्णं ब्रह्मलोक इत्यैतिह्यम्। इह तु कुशलवोपदिष्टा चतुर्विंशतिसहस्रीत्यलम्। योगवासिष्ठे तु शापान्तराण्यप्युक्तानि। तथाहि “सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि। वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥

ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः । विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ॥ सनत्कुमार स्तब्धो ऽसि निष्कामो गर्वचेष्टया । अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् । किञ्चित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ " शापितः शप्तः। किञ्चित्कालमवतारान्तरेऽत्यल्पकालम्। तत्त्यक्त्वा तद्रूपं त्यक्त्वा। अज्ञानी स इव। तथा “भृगुर्भार्यां हतां दृष्ट्वा प्रोवाच क्रोधमूर्छितः। विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥

" तथा “वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् । अतस्त्वं स्त्रीवियोगं हि वचनान्मम यास्यसि ॥ " शीपितः शप्तः। छलनम् पतिवेषेण सम्भोगरूपम्। तथा “भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता। नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥

तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः । तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥ " इति। दुःखार्तः तृतीयार्थे आर्षी प्रथमा। दुःखार्तेनेत्यर्थः। ताराशापोऽपि किष्किन्धाकाण्डे तत्रैव वक्ष्यत इत्यलं विस्तरेण। “प्राचेतसेन मुनिना रामो राजीवलोचनः। तमसोपवने शप्तो वेषधृग्जानकीपतिः ॥

श्रीरामः प्राकृतां लीलां स्वीयां वर्णयितुं तदा । मन्दोदर्याः पतिः क्रूरः क्रौञ्चवद्विनिपातितः ॥ अण्डजं निहतं दृष्ट्वा मुनिः शापमथाददौ । चिरं प्रतिष्ठा मा भूत्ते निषाद भुवि हिंसक ॥ शापं श्रुत्वैव सर्वात्मा तत्रैवान्तरधीयत । शोकाक्रान्तस्तु वाल्मीकिर्ब्रह्मणा ऽ ऽशु सुबोधितः ॥ " इति। “त्यक्त्वा जीर्णदुकूलवद्वसुमतीं बद्धोऽम्बुधिर्बिन्दुवद्बाणाग्रेण जरत्कपोतक इव व्यापादितो रावणः। लङ्का कापि विभीषणाय सहसा मुद्रेव हस्तेऽर्पिता श्रुत्वैवं रघुनायकस्य चरितं को वा नरो नाञ्चति ॥

" ॥ १।२।१५ ॥

तस्येति । मया मुनिना शान्तेन तपस्विना शकुनिशोकपीडितेनेदमीदृशं क्रूरं तपोनाशकरं किं व्याहृतमिति वीक्षतो ऽन्तर्यामिप्रेरणया निषादे सर्वतो महत्त्वसम्भावनया दृश्यमानक्रौञ्चे तद्वैपरीत्यसम्भावनयातिनिन्द्यमयशस्करं महापातकेभ्यो ऽप्यधिकं पापं वृत्तमिति चिन्ता बभूव । यद्यप्येतत्सर्वं वाल्मीकिकृतमेव तथापि कुशलवगेयतया ऽस्य काव्यस्य करणात्तदुक्तितयैवमुक्तिः । अन्यथा स्वचिन्तायाः स्वापरोक्षत्वाद्बभूवेति लिडसङ्गतिः स्यात् । यद्वा सर्गचतुष्टयमाद्यमुपोद्घातरूपं कस्यचिच्छिष्यस्य । वाल्मीकीयोपोद्घातत्वाच्च वाल्मीकीयोक्तिः । पारोक्ष्यमारोप्य स्वयमपि तथोक्तिरुपोद्घातत्वद्योतनायेत्यन्ये ॥ १।२।१६ ॥

चिन्तयन्निति । महदयशस्करमिदं कर्म वृत्तमिति चिन्तयन्सत्यसङ्कल्पतयेत्थं मतिं सङ्कल्पं चकार । तदभिलापकं वाक्यं शिष्यमब्रवीदिति सम्बन्धः ॥ १।२।१७ ॥

पादेति । अष्टाक्षरानुष्टुप्पादैर्बद्धः । अक्षरसमश्छन्दःशास्त्रोक्तगुरुलध्वक्षरवैषम्यरहितः । तथा तन्त्री वीणा, लयस्तालमृदङ्गवेणुहस्ताभिनयानां समकालं विरामः, ताभ्यां युक्तः । तन्त्र्यामारोप्य वाद्यैः सह गातुं योग्य इति यावत् अतः शोकार्तस्य शापरूपतयानौचित्येन प्रवृत्तो ऽपि मे मम श्लोको यशोरूपो भवतु अन्यथा ऽयशोरूपो मा भूदित्यर्थः । अत्र “भवतु” इति पाठ एव बहुपुस्तकसम्मतस्तीर्थसम्मतश्च । “श्लोको यशसि पद्ये च” इति निघण्टुः ॥ १।२।१८ ॥

शिष्य इति । एवं ब्रुवतस्तस्यर्षेर्वाक्यं यशो भवत्वित्येवंरूपं हृष्टः सन् तथैवेदं यशोरूपमेवेदमित्यनुमोदनेन प्रतिजग्राहाङ्गीचकार । अयशोरूपे ऽपि यशस्त्वानुमोदनेन गुरुस्तस्य तुष्टो ऽभवदित्यर्थः ॥ १।२।१९ ॥

स इति । अभिषेकमिति मध्याह्नकर्तव्यानुष्ठानोपलक्षणम् । तमेवार्थमवशतः शापार्थश्लोकोत्पत्तिरूपम् । उपावर्तत न्यवर्तत ॥ १।२।२० ॥

श्रुतवान्बहुश्रुतः पृष्ठतः पृष्ठभागेन प्रसारितकरः परिपूर्णं कलशमादायानु पश्चाज्जगामेत्यन्वयः ॥ १।२।२१ ॥

स इति । मुखतो ऽन्याः कथाश्चकार, मनसा तु शापार्थकश्लोकविषयं ध्यानमास्थितः । यत्तु ध्यानमम्बाया गायत्र्याश्चतुर्मुखरुद्रप्राधान्येन ध्यानमास्थित इत्यर्थ इति, तन्न । तदा स्थितो ऽन्याः कथाश्चकारेत्यस्यासङ्गतेरित्यलं ध्यानपदार्थानभिज्ञदूषणाभिनिवेशेन ॥ १।२।२२ ॥

अथ तच्चिन्तां निवर्तयितुं ब्रह्मागमनमाह आजगामेति । स्वयं प्रभुरनन्यमुखनिरीक्षकतया सर्वलोकसृष्ट्युपयोगिज्ञानैश्वर्यादिशक्तिमान् अत एव भूरादिलोकनिर्माता । तम् शापवाक्योच्चारणवशादतिचिन्ताक्रान्तम् ॥ १।२।२३ ॥

वाग्यतो ऽतिसम्भ्रमवशाद्यतवाक् । प्रयतो ऽतिनम्रः ॥ १।२।२४ ॥

पूजयामासेति । वन्दनम् स्तुतिः । प्रणम्येति पृथगुक्तेः । एनमित्याद्युत्तरान्वयि ॥ १।२।२५ ॥

एनम् मुनिम् । ब्रह्मा । अनामयमामयः पीडा तद्रहितम् । व्ययहीनमितियावत् । तप इति शेषः । तत्पृष्ट्वा ऽनन्तरं स्वयमासन उपविश्य ऋषय आसनं दिदेश । आसन उपवेष्टुमनुमेन इत्यर्थः । “वाल्मीकये च ऋषये” इति पाठः । एतेन “ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्” इत्युक्तेर्बाह्मणं प्रत्ययं प्रश्नः स्मार्ताचारविरुद्धः । तं देवमित्यनेनैव सिद्धे एनमित्यस्य वैयर्थ्यापत्तिश्चेत्यपास्तम् ॥ १।२।२६ ॥

लोकपितामह उपविष्टे सति तदनुज्ञया स्वयमुपाविशदिति सम्बन्धः ॥ १।२।२७ ॥

तद्गतेन क्रौञ्चगतेन । वैरं गृह्णाति सा चासौ बुद्धिस्तद्वता । कर्तरि ल्युट् बाहुलकात् । निषादेनेति शेषः । कष्टं कृतम् क्रौञ्चवधरूपं तपोनाशसम्पादकशापनिःसारणेन कष्टं कृतम् । मयेति शेषः ॥ १।२।२८ ॥

कष्टमेवाहयदिति । हन्याद्धतवानित्यर्थे छान्दसम् । अकारणाद्दृश्यमानकारणं विना । उप समीपे । ब्रह्मणः समीपे ॥ १।२।२९ ॥

शोकपरायणः क्रौञ्चवधकृतक्रौञ्चीदुःखदर्शनजेन स्वस्य मुखतस्तपोहानिकरशापार्थकश्लोकस्यावशतो निःसरणजेन च शोकेन व्याप्तः । अत एवान्तर्गतमना अन्तर्गते श्लोकार्थ एव दत्तचित्तः श्लोकं जगाविति सम्बन्धः । तं तथा शोकग्रस्तम् । प्रहसन्मदिच्छयावतीर्णां सरस्वतीं न जानातीति हासं कुर्वन् ॥ १।२।३० ॥

तद्वचनमेवाह श्लोक एवास्त्वयमिति । अयं त्वया बद्धः श्लोको यशोरूप एवास्तु । श्लोकशब्दस्य पद्यपरतया योजने “अस्तु” इति पाठस्यासङ्गत्यापत्तेः । अस्तीत्युक्तेरेवे ब्रह्मण औचित्यात् । मम त्वयशोरूपस्य यशोरूपताशीर्दानमिति नासङ्गतिः । “श्लोक एव त्वया” इति पाठे ऽपि यशोरूप एवायं त्वया बद्धः । अत्र तव विचारः सन्देहो मास्तु । मद्वचनात्त्वत्सङ्कल्पाच्चास्य तथा भावप्राप्तेरित्याशयः । ननु भवतु त्वदाशिषा तथात्वमस्याः, परन्तु शान्तस्वभावस्यर्षेर्ममेदृशी वागत्यन्तमनुचितेत्यपि मा विषादं कुर्वित्याह मच्छन्दादिति । मत्सङ्कल्पादित्यर्थः । विष्णोरवतारभूतस्य रामस्य सङ्कल्पो ऽपि स्वसङ्कल्पत्वेनोक्तः । “एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः” इति हरिवंशोक्तेः । नन्वीदृशसङ्कल्पो ब्रह्मणो ऽपि किमर्थमिति चेच्छृणु । येषां परस्य दारवियोगादिजनकं कर्म स्वस्य दारवियोगादिकं जनयितुं नालम्, तेषामपि ब्रह्मशापस्तज्जनने ऽलमिति लोके ब्राह्मणमाहात्म्यं सूचयितुम् । एवं राज्यादिसत्त्वे ऽपि कामजय एवोत्तमः, न तु तद्भोगचापलम्, इति च स्वव्यवहारेण शिक्षयितुम्, तत्प्रायाश्चित्तविधया स्वकीर्तिवर्णनेन मुनेर्यशोवृद्ध्यर्थं भगवद्विषयमहापापप्रायश्चित्तत्वात्कैमुतिकन्यायेनेतरजनानां सर्वपापप्रायश्चित्तं रामायणश्रवणादीत्यर्थतत्त्वं बोधयितुं चेति गृहाण एतदृष्यक्षरस्वारस्यबलेन मया योजितम् अतो निरीर्ष्यं सहृदया विचारयन्तु ॥ १।२।३१ ॥

एवं परवशप्रवृत्तस्यापि शापस्य भगवद्विषयतयेतरसकलमन्वाद्युक्तप्रायश्चित्तानिवर्त्यस्य यं प्रत्यसौ शापस्तच्चरितवर्णनरूपं प्रायश्चित्तमुपदिशति रामस्य चरितमिति । लोके रामस्य । रमते इति रामः । बाहुलकात्कर्तरि घञ् । तेन लोकाधिष्ठातुर्लोकान्तर्यामिणश्चेत्यर्थः । कुरु वर्णयस्व । धर्मात्मन इत्यनेन रावणादिवधवत्क्रौञ्चवधो ऽपि धर्मफलक एव लोकव्यवहारेण लोकहितत्वात्त्वद्रक्षकत्वाच्चेति सूचितम् ॥ १।२।३२ ॥

वृत्तमिति । अस्य नारदोक्तविशेषपरत्वादपौनरुक्त्यम् । धियमीरयतीति धीरः तेन बुद्धिप्रेरकस्येत्यर्थः तेन गायत्र्यर्थभूतस्येत्युक्तम् ॥ १।२।३३ ॥

रामलक्ष्मणयो राक्षसानां सीतायाश्च यत्प्रकाशं तदीयानां प्रकाशं तवाविदितम् । यदि वा यदपि तदीयानामपि रहो ऽविदितम्, तव तु सुतरामविदितम्, तदपि सर्वं ते विदितं भविष्यति । अनेन तत्करणयोग्यतादानम् । यच्च “मा निषाद” इतिवदपर्यालोच्यापि वाक्त्वत्तो निःसरिष्यति सा ऽपि नान्यथा भविष्यति, तेनास्या अपि सत्यत्वं भावीति ध्वनितम् ॥ १।२।३४,३५ ॥

एवं सामर्थ्यं दत्त्वोपसंहरति कुर्विति । यावदित्याद्युत्तरान्वयि ॥ १।२।३६,३७ ॥

तावदिति । यावत्त्वत्कृतकथाप्रचारस्तावदधश्च त्वं दयापूर्वमप्यतिमहति क्रोधकरणादधोगमनयोग्यो ऽपि त्वमूर्ध्वं सर्वोर्ध्वं वर्तमानेषु मल्लोकेषु निवासं प्राप्स्यसि । ततो मया सह मोक्ष्यस इत्यर्थः । लोकेष्विति तदवयवाभिप्रायं बहुवचनम् । ऊर्ध्वमधश्च विद्यमानेषु मल्लोकेषु मन्निर्मितलोकेषु निवत्स्यसि सर्वत्राप्रतिहतगतिः सञ्चरिष्यसि ततःपरं मुक्तिं प्राप्स्यसीति तीर्थः । तत्र मल्लोकेष्वित्यस्य चारितार्थ्यं चिन्त्यम् । इतीति । तत्रैवान्तर्धानेनास्याप्यन्तर्यामिरूपतोक्ता । तत इति । विस्मयमाश्चर्यम् ॥ १।२।३८ ॥

तस्येति । प्रीयमाणा आश्चर्यमिदमस्मद्गुरोः पद्यं यद्ब्रह्मणाप्यनुमोदितम् । प्राहुश्च वक्ष्यमाणमित्यर्थः ॥ १।२।३९ ॥

तदेवाह समेति । साम्यम् गुरुलघ्वक्षरराहित्यम् । यो ऋषिणा गीतः सः । अन्वतिशयितशोकोत्पत्त्यनन्तरं व्याहरणाद्भूयः शोको विपुलः शोक एव श्लोकत्वं प्राप्त इति वयं मन्यामह इति प्राहुरिति सम्बन्धः । उत्प्रेक्षा चेयम् । तेनास्य श्लोकस्य करुणरसमयत्वं ध्वनितम् । अत्र नष्टक्रौञ्चालम्बनकः क्रौञ्चीविरावानुदीपितो निषादविषयक्रौधव्यभिचारिको “मा निषाद” इत्यादिवाक्यानुभावकः करुणो रस इति बोध्यम् । यत्तु पूर्वश्लोके प्राहुरित्यस्य पठन्तीत्यर्थकरणम्, पुनः पुनः पाठेनानन्दवन्तो ऽभूवन्निति फलितार्थकथनम्, अत्र च श्लोके भूयो ऽनुव्याहरणान्मुहुर्मुहुः शिष्यैः पुनः पाठाल्लोके शोकः श्लोकत्वेन प्रतिबद्धो ऽभवच्छ्लोकत्वं प्राप्त इति तीर्थादिव्याख्यानं तदतिनिःसारमिति स्पष्टमेव ॥ १।२।४० ॥

तस्येति । ईदृशैः “मा निषाद” इतिवत्करुणारसप्रधानैरित्यर्थः । अनेनान्ये रसा अत्र गुणीभूता इति ध्वनितम् ॥ १।२।४१ ॥

उदारेति । उदारस्य यद्वृत्तम् चरितम् उदारं वा यच्चरितं तद्रूपार्थबोधकैः पदैः मनोरमैः श्रुतिकटुत्वादिदोषरहितैः । अस्य यशस्विनो रामस्य दाशरथे रामस्य नारदोपदिष्टस्य । श्लोकशतैरिति शतशब्दो ऽनन्तवाची ॥ १।२।४२ ॥

एवं काव्यनिर्माणमुक्त्वा तत्र श्रोतृ़नभिमुखीकरोति तदिति । समासस्तत्पुरुषादिः, सन्धिरेकादेशादिजः, योगः प्रकृतिप्रत्ययोः, एते उपगता यथाव्याकरणालङ्कारशास्त्रमर्यादं यस्मिन्काव्ये तादृशं काव्यं रघुवरचरितं तद्वर्णनरूपम् । समः पतत्प्रकर्षदिदोषरहितः, मधुरः करुणारसयुक्तत्वेन माधुर्यगुणप्रधानः, उपनतः प्रसन्नतयोपलभ्यमानो यो ऽर्थस्तद्बोधकवाक्यैर्निबद्धम् उपनतत्वेन प्रसादगुणवत्ता दर्शिता । समुदायेन वैदर्भीरीतिमत्त्वं ध्वनितम् । रघेर्गत्यर्थान्निष्पन्नरघुवरशब्देन तस्य सर्वान्तर्यामित्वं ध्वनितम् । ईदृशस्यापि मिथ्यार्थकत्वे ऽनुपादेयत्वं स्यादत आह मुनिप्रणीतं ब्रह्मानुग्रहप्राप्तसत्यवागृषिप्रणीतम् । पुरुषार्थस्वर्गमोक्षादिसाधनत्वं तु रघुवरचरितमित्यनेनोक्तप्रायमेव । दशशिरसश्च वधमित्यनेन वधान्तमिदं श्रोतव्यमिति सूचितम्, तेनैव सूचितफललाभात् । उत्तरकाण्डं त्वस्य खिलम्, भारतस्य हरिवंशवत् । अत एवाग्रिमसर्गे वनसञ्चरणपर्यन्तवृत्तान्वेषणमेव समाधिना ऋषिर्वक्ष्यतीति प्राञ्चः । परे तु दशशिरसो वधं चेत्यन्वयः । तेन सीतात्यागादिरूपोत्तरकाण्डीयवृत्तान्तसङ्ग्रह इत्याहुः ॥ १।२।४३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥ २ ॥