॥ अथ रामकृता तिलकाख्या टीका ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ ॥ बालकाण्डः ॥
श्रीमद्राघवपादपद्मयुगलं पद्मार्चितं पद्मया
पद्मस्थेन तु पद्मजेन विनुतं पद्माश्रयस्याप्तये ।
यद्वेदैश्च नुतं सुखैकनिलयं सर्वाश्रयं निष्क्रियं
शश्वच्छङ्करशङ्करं मुहुरहो सन्नौमि तल्लब्धये ॥ १ ॥
श्रीमद्ब्रह्म तदेव वीजममलं यस्याङ्करश्चिन्मयः
काण्डैः सप्तभिरन्वितो ऽतिविततो ऋष्यालवालोदितः ।
पत्रैस्तत्त्वसहस्रकैः सुविलसच्छाखाशतैः पञ्चभिः
चात्मप्राप्तिफलप्रदो विजयते रामायणस्वस्तरुः ॥ २ ॥
वाल्मीकिगिरिसम्भूता रामाम्भोनिधिसङ्गता ।
श्रीमद्रामायणी गङ्गा पुनाति भुवनत्रयम् ॥ ३ ॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥ ४ ॥
रामं रामानुजं सीतां भरतं भरतानुजम् ।
सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः ॥ ५ ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ६।
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन्रामकथानादं को न याति परां गतिम् ॥ ७ ॥
यः पिबन्सततं रामचरितामृतसागरम् ।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥ ८ ॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्दे ऽनिलात्मजम् ॥ ९ ॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १० ॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ११ ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १२ ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ १३ ॥
जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः ।
दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ॥ १४ ॥
जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥ १५ ॥
नत्वा रामं शिवं साम्बं रामो रामप्रवर्तकः ।
रामायणस्य तिलकं कुरुते रामतुष्टये ॥ १६ ॥
ननु रामायणस्यैहिकामुष्मिकफलदत्वे मानाभावात्किं तद्व्याख्यानेनेति चेन्न “इदं पवित्रं पापघ्नम्” इत्यादि “जनश्च शूद्रो ऽपि महत्त्वमीयात्” इत्यन्तश्लोकैरैहिकार्थसाधकत्वस्य स्पष्टमत्रैव श्रूयमाणत्वात्, “शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा” इति मूलरामायणवचनेन ब्रह्मलोकावाप्तेः फलस्य स्पष्टमुक्तत्वाच्च । अपि च गायत्र्या ब्रह्मानुसन्धानाद्ब्रह्मलोकावाप्तिवत्तत्प्रतिपाद्यस्य लीलावताररूपतया रामस्य विभववैभवानुसन्धानेन ब्रह्मलोकावाप्तिरुचितैव । न च “काव्यालापांश्च वर्जयेत्” इति निषेधप्रसक्तिस्तस्यानृषिप्रणीतपुरुषार्थसाधनकाव्यविषयत्त्वात्, यत्रास्याध्ययने त्रैवर्णिकस्याधिकारो गायत्रीप्रतिपाद्यार्थप्रतिपादकत्वात् श्रवणे तु स्त्रीशूद्रादीनामप्यधिकारः । अथादिकविवाल्मीकिः सर्वोत्तमवस्तुज्ञानाय कृतसङ्कल्पो दिव्यतत्काव्यकृतिशक्तिलाभाय तादृशवस्तुज्ञानाय च कृतकष्टसमाधिसाधितपरमपुण्यचयस्तत्पुण्यचयसुप्रीतभगवन्नियोगसमुपागतं देवर्षिं नारदमभ्यर्च्य “कोन्वस्मिन्” इत्यादि पप्रच्छ । स च देवर्षी रामकथामुदितमना रामचरितमनुसृत्य सङ्क्षेपत उपदिश्य यथागतं जगाम । ततस्तदनुग्रहलब्धं रामचरितरहस्यं निरवशेषं तत्प्रसादादेव सम्यग्विज्ञाय भूलोकवर्तिनां चतुर्णां वर्णानां तापत्रयविमोचनाय ब्रह्मांशभूत एव भगवान्प्राचेतसो वाल्मीकिः स्वकृतशतकोटिरामायणसारभूतं चतुर्विंशत्यक्षरगायत्र्याख्यपरमब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रश्लोकरूपं कुशलवाभ्यामग्राहयत् । तस्यास्य दिव्यकाव्यस्याद्यः सर्गो वाल्मीकेर्नारदस्योपदेशरूपः । तत्र “नापृष्टः कस्यचिद्ब्रूयात्” इति न्यायेनापेक्षितप्रश्नोपक्षेपः
तपःस्वाध्यायेत्यादि । “श्रुत्वा चैतत्” इत्यन्तेन सम्बन्धः । तपस्त्वेन श्रुतः स्वाध्यायस्तपःस्वाध्यायः । “तपःस्वाध्याय इति ब्राह्मणम्” इत्यापस्तम्बोक्तेः । स्वाध्यायशब्देनाप्रायत्यानध्ययनकालदेशपरिहारादिनियमोपेततया
फलवदर्थावबोधपर्यन्तं स्वशाखाध्ययनमुच्यते । तस्मिन्निरतः तदभ्यासनिरत इति यावत् । यत्तु तपश्च स्वाध्यायश्च तपःस्वाध्यायौ तयोर्निरतः । तपःशब्देन चित्तप्रसादहेतुभूतं व्रतनियमादिकर्मोच्यते । यद्वा “यस्य ज्ञानमयं तपः” इति श्रुतेस्तपःशब्देन ब्रह्मविषयज्ञानमुच्यत इति, तन्न । तपोविशिष्टपुंविशेषप्रसिद्धमुनिपुङ्गवशब्देनैवोक्ततपःसम्पत्तैः सिद्धत्वादिति कतककृतः । एवं हि तपोरतमित्येव सिद्धे स्वाध्यायपदवैयर्थ्यापत्तिः । तस्मात्तपःशब्देन निदिध्यासनजन्यपरिपाकवद्ब्रह्मज्ञानमुच्यते । मुनिपुङ्गवशब्देन मननजन्यपरिपाकवत्त्वमेवोच्यत इति न तेन गतार्थतेत्यन्ये । वाग्विदां स्वरूपतो ऽर्थतश्च शब्दब्रह्मतत्त्वविदां पाणिनिपतञ्जल्यादीनां मध्ये वरम् श्रेष्ठम् । मुनिशब्द उक्तार्थः । तेषु पुङ्गवम् श्रेष्ठम् । एवं विशिष्टं नारदम् । तपस्वी कृच्छ्रैकादश्युपवासादिलक्षणं मुख्यं तपः, “तपो नानशनात्परम्” इति श्रुतेः स्वाध्यायरूपं च तपः, समनस्केन्द्रियाणामैकाग्र्यरूपं च तपस्तद्वान् । वाल्मीकिर्वल्मीकस्यापत्यम् “वाल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ” इति ब्रह्मवैवर्तोक्तेः । वल्मीकप्रभवत्वेन गोणीपुत्रादिवद्गौणस्य वल्मीकापत्यत्वं गृहीत्वेञ् साधुरपत्यार्थः । यद्वा वाल्मीक इति ऋषिविशेषस्य सञ्ज्ञेत्याहुः । नारदं नराणामिदं नारमज्ञानं तद्द्यति खण्डयति ज्ञानोपदेशेनेति नारदः । “गायन्नारायणकथां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः” इति नारदीयोक्तेः । तं पप्रच्छेत्वन्वयः । अत्र प्रष्टुरुक्तविशेषणेन दिव्यार्थविषयश्रवणाधिकारसम्पदुक्ता । वक्तुरप्युक्तविशेषणः सार्वज्ञ्यादि प्रतिपादितम् ।
ग्रहणधारणहेतुशिष्यानुग्रहशक्तिमत्वं च प्रतिपादितम् ॥ १।१।१ ॥
अथ प्रश्नमभिनयति को न्विति । नुशब्दो वितर्के । साम्प्रतं वर्तमानकाले ऽस्मिँल्लोके भूलक्षणे को नु गुणवान् । प्रशस्तबहुगुणवानित्यर्थः । भूमप्रंशसादौ मतुप् । अस्यैव प्रपञ्चः कश्च वीर्ववानित्यादि । दिव्यास्त्रबलादिजशक्तिविशेषेण पराभिभवसामर्थ्यं वीर्यं तद्वान् । कश्च श्रौतस्मार्तसकलधर्मरहस्यज्ञः । बह्वीमप्यकृतिमुपेक्ष्यैकामप्युपकृतिं बह्वीं मन्यत इति कृतज्ञः । सत्यवाक्यः सर्वावस्थास्वपि यथाश्रुतदृष्टतत्त्वार्थवक्ता । दृढव्रतः आपद्यपि धर्माय परिगृहीतव्रतविशेषस्य त्यागरहितः ॥ १।१।२ ॥
चारित्रेणेति । चरित्रमेव चारित्रम् । स्वार्थिको ऽण् । वृत्तसम्पदनेनोच्यते । सर्वभूतेषु सर्वप्राणिषु मध्ये कः पुमान्हितः । ऐहिकामुष्मिकहितवहो ऽशत्रुभ्यः । यत्तु सर्वप्राणिषु सापराधिष्वपि हितकरणशील इति व्याचक्षते तत्तु हितयोगे चतुर्थ्यापत्तेरयुक्तम् । विद्वानात्मानात्मसकलपदार्थतत्त्वज्ञः । समर्थो लौकिकव्यवहारे प्रजारञ्जनादौ चातुर्यं सामर्थ्यं तद्वान् । कामाधिकसौन्दर्यवत्त्वेन नित्यसुखरूपत्वेन चैकप्रियं केवलप्रियं दुःखासम्भिन्नप्रियत्ववद्दर्शनं यस्य सः । यत्त्वेकं प्रति प्रियं दर्शनं यस्येति तदयुक्तम्, सर्वप्रियत्वस्य प्रतिपादनात् । एको ऽद्वितीयः स चासौ प्रियदर्शनश्चेत्यर्थ इति तीर्थः ॥ १।१।३ ॥
आत्मवानिति । वशीकृतान्तःकरण इत्यर्थः । जितक्रौधो निन्दाहिंसादिजनकचित्तवृत्तिविशेषरहितः । क्रोधो ऽत्र कामादीनामप्युपलक्षणम् । द्युतिः सर्वलोकस्य दिदृक्षाजनको देहकान्तिविशेषस्तद्वान् । अनसूयको विद्यैश्वर्यादितपःसुपरौन्नत्यासहनमसूया तद्रहितः । असूयतेः कण्ड्वादियङन्तादुपतापार्थाण्ण्वुल् । संयुगे युद्धकाले जातरोषस्य कस्य रोषाद्देवाश्च देवा अपीन्द्रादयो ऽपि अपिना असुराश्च बिभ्यति अतिबलवतो ऽस्मानप्यस्य क्रोधः संहरिष्यतीति भयं प्राप्नुवन्तीत्यर्थः । कस्येति सम्बन्धसामान्ये षष्ठीत्यन्ये । कस्य संयुगे कस्माद्बिभ्यतीति तीर्थः ॥ १।१।४ ॥
एतदित्युक्तगुणसामान्यापेक्षया नपुंसकम् । एतद्दिव्यपुरुषगुणजातं कस्यास्तीति श्रोतुमहमिच्छामि । उक्तगुणसामग्र्यस्यैकत्र दुर्लभत्वात्तादृशपुरुषविशेषज्ञाने मे परं सर्वस्मादपि कौतुकान्तरादुत्कटं कौतुकं वर्तते । नन्वेवंविधनरो मयापि दुर्ज्ञेयो नेत्याह हि यतो महर्षे अपरोक्षीकृताशेषार्थ त्वमेवंविधमुक्तगुणवन्तं नरं दिव्यपुरुषं ज्ञातुं समर्थो ऽसि सर्वलोकप्रसिद्धसामर्थ्यो ऽसि । तस्मात्त्वत्त एव श्रोतुमिच्छामीति पूर्वेण सम्बन्धः ॥ १।१।५ ॥
श्रुत्वेति । एतदुक्तप्रश्नजातम् । त्रिलोकज्ञः भूर्भुवःस्वर्लोकलक्षणांस्त्र्यवयवलोकांस्तत्रत्यवृत्तान्तं जानातीत्यर्थः । एवं च द्विगुत्वाभावान्न ङीप् । नारदो वाल्मीकेरेतद्वचः श्रुत्वा श्रूयतामिति चामन्त्र्यैकाग्र्यसिद्धये ऽभिमुखीकृत्य स्वगतस्यार्थस्य चिरं प्रतिपिपादयिषितस्य जिज्ञासुलाभेन प्रहृष्टो भूत्वा वक्ष्यमाणं वाक्यमब्रवीत् ॥ १।१।६ ॥
बहव इति । ये बहवो गुणास्त्वया कीर्तितास्त एकत्र प्राकृतपुरुषमात्रे दुर्लभा एव । चः पादपूरणे । अथापि हे मुने यस्तैर्युक्तस्तं बुद्ध्वा स्मृत्वाहं वक्ष्यामि तादृशो नरः श्रूयताम् । प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ १।१।७ ॥
इक्ष्वाक्विति । इक्ष्वाकुवंशात्प्रभव आविर्भावो यस्य स तथा । रामो नाम राम इति नान्ना प्रसिद्धो जनैश्च श्रुतो ऽस्ति । तस्मिन्नेवैकत्र सर्वे त्वत्पृष्टा गुणाः, अन्ये च गुणा इति शेषः । तच्चेदं यौगिकं नाम । रमन्ते योगिनो ऽस्मिन् यद्वा रमयति स्वकानिति योगस्य प्रदर्शनात् । तत्रान्त्ये नारकपूरुषादिवत् “अन्येषामपि दृश्यते” इति दीर्घः । तानेव गुणानाह नियतात्मा निगृगीतान्तःकरणः । वीर्यं व्याख्यातम् । द्युतिः कान्तिः । आपत्सम्पदोरविकृतिश्चित्तस्य धृतिस्तद्वान् । वशी जिताशेषबहिरिन्द्रियः ॥ १।१।८ ॥
बुद्धिमानिति । प्रशस्तबुद्धिः बुद्धेः प्राशस्त्यं च सकृद्गृहीताविस्मरणावापोद्वापादिशक्तिमत्त्वम् । सर्वत्र प्रशंसादौ मतुप् । नीतिः कामन्दकादिप्रसिद्धराजनीतिस्तद्वांस्तज्ज्ञाता । वाग्मी प्रशस्तवाक् । श्रीमान्सर्वातिशायिशोभैश्वर्यादियुक्तः । यद्वा “ऋचः सामानि यजूँषि । सा हि श्रीरमृता सताम्” इत्युक्तश्रौतश्रीमान् । शत्रूणां बाह्यान्तराणां निबर्हणो नाशकर्ता । बाहुलकात्कर्तरि ल्युट् । विपुलांस इत्यादिना सामुद्रिकलक्षणं कथ्यते । विपुलौ मांसलोन्नतावंसौ भुजशिरसी यस्य सः । “स्कन्धो भुजशरिरों ऽसः” इति कोशः । अस्य सुलक्षणत्वं च वररुचिनोक्तम् “कक्षः कुक्षिश्च वक्षश्च घ्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्ते सुखप्रदाः” इति । महाबाहुः “आत्महतः” इत्यात्वम् । “शिरो ललाटश्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं पाणिपादं च पृष्ठं दश महत्सुखम्ऽ इति ब्राह्मे ऽस्य सुलक्षणत्वमुक्तम् । कम्बुग्रीवः कम्बुवद्रेखात्रयविशिष्टग्रीवः । महाहनुर्मांसलकपोलापरभागः । “पूर्णमांसलहनुस्तु भूपतिः” इति संहिता ॥ १।१।९ ॥
महोरस्क इति । महद्विशालमुरो यस्य सः । “उरः शिरो ललाटं च” इत्युपक्रम्य “विशालास्ते सुखप्रदाः” इत्युक्तेः । महेष्वासो महानिष्वासो धनुरस्य । गूढजत्रुर्गूढे मांसलत्वान्निमग्ने जत्रुणी वक्षों ऽससंधिगते अस्थिनी यस्य । अरिन्दमो निजभक्तानामरीन्कामादीन्निजभक्त्यन्तरायकर्तृपापानि वा दमयतीत्यरिन्दमः । यद्वा अरिन्दम इति राज्ञो ऽन्वर्थसञ्ज्ञा । शत्रुञ्जय इतिवत् । आजानुबाहुर्जानुपर्यन्तदीर्घबाहुः । “दीर्घभ्रूबाहुमुष्कश्च चिरञ्जीवी धनी नरः” इति ब्राह्मे । सुशिराः “समवृत्तशिराश्चैव च्छत्राकारशिरास्तथा । एकच्छत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति” इति नारदः । सुललाटो रेखाधिकललाटः । “ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विंशतिस्तथा” इति कात्यायनः । सुविक्रमो गजसिंहादिगतिसदृशगतिः विक्रमः पादविक्षेपः । “स्वरो गतिश्च नाभिश्च गम्भीरः स प्रशस्यते” इति ब्राह्मे ॥ १।१।१० ॥
सम इति । समो नातिदीर्घो नातिह्रस्वः । “षण्णवत्यङ्गुलोत्सेधो योनांशः स दिवौकसाम्” इत्युक्तेः । समान्यन्यूनानधिकपरिमाणानि विभक्तानि पृथग्भूतान्यङ्गान्यवयवा यस्य सः । “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी ॥ करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः” इत्युक्तेः । स्निग्धवर्णः स्निग्धश्यामलवर्ण इत्यर्थः । “स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति पुष्कलम्” इत्युक्तेः । प्रतापः स्मृतिमात्रेण रिपुहृदयविदारणक्षमं पौरुषं तद्वान् । “प्रतापौ पौरुषातपौ” इति कोशः । पीनवक्षा मांसलसमोन्नतवक्षाः । विशालाक्षो विस्तृतायतनेत्रः । “नासिका चक्षुषी कर्णौ यस्यायतौ” इत्युक्तेः । लक्ष्मीवान्सीतारूपलक्ष्मीशक्तिमान् सर्वावयवसौन्दर्यवान्वा । मोपधत्वाद्वत्वम् । एवमुक्तरीत्या शुभानि सामुद्रिकशास्त्रोक्तानि लक्षणानि यस्य स शुभलक्षणः ॥ १।१।११ ॥
धर्मज्ञ इति । सत्या ऽमोघा सन्धा “सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम” इत्यादिरूपिणी प्रतिज्ञा यस्य । यशस्वी रावणवधादिना दिव्ययशःसम्पन्नः । ज्ञानसम्पन्नो ब्रह्मज्ञानपरिपूर्णः । अत एव जटायुषं प्रति “मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्” इत्युक्तिः सङ्गच्छते । ब्रह्मज्ञस्यैव ब्रह्मोपदेशे ऽधिकारात् । विना ब्रह्मोपदेशमनुत्तमलोकावाप्त्यसम्भवात् । न विद्यन्ते उत्तमा येभ्यस्ते ऽनुत्तमाः । “आत्मानं मानुषं मन्ये रामं दशरथात्मजम्” इत्यादिवचस्तु मायामात्रमित्यन्यत्र विस्तरः । शुचिः प्रातःस्नानादिना प्राणायामाभ्यासादिना प्रत्याहारादिजन्यरागद्वेषहानेन च मायिकशरीरत्वाच्च नित्यं बाह्यान्तरशुद्धः । वश्यः पित्राचार्यदेवेषु विनीतः । समाधिमान् निजतत्त्वसमाधिमान् ॥ १।१।१२ ॥
प्रजापतीति । प्रजापतिसमः यद्यपि रामो ब्रह्मैव तथापि मानुषधर्माणां शोकमोहादीनां मायिकानां तत्र दर्शनेनौपाधिकभेदमादाय तत्समत्वोक्तिः । भार्गवलोकप्रतिबन्धरूपाज्जटयुमोक्षप्रदानरूपात्स्वेन सह सर्वायोध्यावासिजनस्य सशरीरस्य ब्रह्मलोकनयनरूपाच्च कारणात्तत्समत्वम् । सर्वथा स्वतन्त्रस्यैवेदृशेषु योग्यत्वात् । श्रीमानित्येवमादीनां पौनःपुन्यं सकलैश्वर्यादिमत्त्वबोधनार्थम् । धाता पितेव सर्वप्रजाधारणपोषणसामर्थ्ययुक्तः । रिपुनिषूदन आश्रितजनरिपुनाशकः कामादिरिपुनाकश्च । अन्यथा जगद्गुरोर्भगवतो रिपोरेवाभावेनैतद्विशेषणासङ्गतिः स्यात् । बाहुलकात्कर्तरि ल्युट् । जीवलोकस्य प्राणिसमूहस्य सकलव्यवहारप्रवर्तकत्वेन रक्षिता । धर्मस्य तत्तद्वर्णाश्रमधर्मस्य मर्यादापरिपालनद्वारा रक्षिता ॥ १।१।१३ ॥
रक्षितेति । स्वस्य धर्मस्य यज्ञाध्ययनदानदण्डयुद्धादिरूपस्य रक्षिता सादरमनुष्ठाता । स्वजनस्य स्वभक्तजनस्यावश्यंभाविनो ऽप्यनिष्टस्य निरासपूर्वकं परमेष्टमोक्षदानेन रक्षिता । तच्चाम्बरीषप्रह्लादध्रुवादीनां रक्षणेन प्रसिद्धमेव । वेदानामृग्यजुःसामार्थवणां छन्दःकल्पव्याकरणज्योतिषनिरुक्तशिक्षारूपदेवाङ्गानां च तत्त्वज्ञः पाठतो ऽर्थतश्च ज्ञाता । शस्त्रास्त्रादिप्रतिपादकं शास्त्रं धनुर्वेदस्तस्मिन्निष्ठितः सम्यक्तज्ज्ञाता ॥ १।१।१४ ॥
सर्वेति । साङ्ख्ययोगतर्कपूर्वोत्तरमीमांसासूत्राणि सव्याख्यानान शास्त्राणि, स्मृतय उपस्मृतयश्च तत्त्वार्थशासकत्वाच्छास्त्रम्, सर्वमूलशब्दशासकत्वाद्व्याकरणं च शास्त्रम्, तथैव कामन्दकादीन्यपि नीतिशास्त्राणि, सर्वेषामेषामर्थतत्त्वज्ञः । स्मृतिमानुक्ताधीतवेदशास्त्रार्थविस्मरणरहितः । प्रतिभानवान्व्यवहारकाले श्रुतस्याश्रुतस्य चोचितार्थस्य शीघ्रं प्रतिभासः प्रसिभानं तद्वान् । तदुक्तम् “प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः” इति । सर्वलोकप्रियो द्रष्टृस्मर्तृलोकानामिहामुत्रहितावहः । साधुर्मृदुमधुरस्वभावः । अदीनात्मा सहजासाधारणक्षत्रभावेनादीनस्वभावः । अतिव्यसनपरम्परायामप्यक्षुभितान्तःकरणो वा । विचक्षणो यथोचितलौकिकालौकिकसर्वक्रियासु कुशलः ॥ १।१।१५ ॥
सर्वदेति । सर्वदा होमदेवपूजासभाधिष्ठानकालेषु तत्तत्कालोचितैः सद्भिः सात्विकस्वभावैः पुरोहितद्विजमन्त्रिप्रधानादिभिः सिन्धुभिर्नदीभिः समुद्र इव अभिगतः सेवितः । यद्वा सद्भिर्भक्तैः सदा सेवितः । भगवत्सेवायां कालनियमाभावात् । दृष्टान्तेन तं प्राप्तानां सतां भक्तानां तेन सहैक्यं ध्वनयति । आर्यः सर्वपूज्यः । सर्वेषु सुखदुःखोदर्केषु समो हर्षविषादरहितः शत्रुमित्रोदासीनेषु वैषम्यरहितः । तत्तत्कार्यानुरूपफलदातेत्यर्थः इत्यन्ये । सदैव सर्वावस्थासु मुहुर्मुहुरनुभवे ऽप्यननुभूतपूर्ववद्विस्मयनीयदर्शनः ॥ १।१।१६ ॥
स चेति । स रामः सर्वैर्गुणैर्युक्त उक्तैर्वक्ष्यमाणैश्च । कौसल्यानन्दवर्धनत्वेन महाकुलप्रसूतत्वप्रधानमहिषीपुत्रत्वादिरूपस्याभिषेकोचितधर्मस्य सत्ता दर्शिता । गाम्भीर्यमगाधाशयत्वं तत्र समुद्रतुल्यः । धैर्यं मनसाप्यधृष्यत्वम्, इष्टवियोगादावनभिभूतचित्तत्वं, च रणे ऽचलतया सहायाभावे ऽपि स्थितिश्च, तेन हिमवत्सदृशः ॥ १।१।१७ ॥
विष्णुनेति । यद्यपि रामो विष्णुरेव सर्वरूपश्च तथापि मानुषोपाधिभेदात्सर्वत्र सादृश्यं द्रष्टव्यम् । यद्वा विष्णुना सदृश इत्यनन्वयालङ्कारः । चन्द्रवत्प्रजाव्यवहारनिरीक्षणकाले सौम्यदर्शनः । क्रोधे युद्धकालिके कालाग्निसदृशः । परैरधृष्य इति यावत् । क्षमाप्रतीकारसामर्थ्ये ऽप्यपकारसहिष्णुता तया पृथिवीतुल्यः ॥ १।१।१८ ॥
धनदेनेति । त्यागे धनत्यागे धर्मार्थं धनव्ययविषये ऽपेक्षितधनसम्पत्तौ धनदेन नवनिधीशेन समः । अस्मिन्नेवांश उपमा, न तु त्यागांशे । तस्य धनसङ्ग्रह एव प्रवृत्तेः । धनदव्यवहारस्तु कतिपयत्रिदशेभ्यो भगवदाज्ञया कतिपयधनदानमात्रादिति बहवः । सत्ये सत्यवचने ऽपरो धर्म इव धर्मस्य मूर्त्यन्तरमिवेत्युत्प्रेक्षा । एतदन्तं बालकाण्डीयार्थसङ्ग्रहः । “तमेवम्” इत्यादिनायोध्याकाण्डीयार्थसङ्ग्रह आरभ्यते । तत्रेक्ष्वाकुवंशप्रभव इत्यनेन भगवदाविर्भावः सूचतः । महावीर्यःशत्रुनिबर्हण इत्यनेन विश्वामित्रानुग्रहजशस्त्रास्त्रसम्पत्तिताटकावधादि सूचितम् । लक्ष्मीवानित्यनेन सीतापरिणयः सूचितः । सत्यपराक्रममित्यनेन भार्गवलोकप्रतिबन्धादि सूचितम् । एवंगुणसम्पन्नं प्रागुक्तरीत्या सकलकल्याणगुणयुक्तम् । सत्यपराक्रमममोघपराक्रमम् ॥ १।१।१९ ॥
ज्येष्ठमिति । ज्येष्ठगुणैर्यौवराज्याभिषेकार्हगुणैर्युक्तम् । प्रकृतीनां प्रजानां हितैरिहामुत्रहितावहैर्युक्तम् । ज्येष्ठं सुतं रामम् । प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियं कर्तुमिच्छया । “छान्दसः काम्यच्” इति प्राञ्चः । प्रकृतिसम्बन्धेनात्मनः प्रियं कर्तुमिच्छया । युवराजेन हि प्रजाकृत्ये सम्पादिते सति व्यवहारादिनिरीक्षणजन्यश्रमनिवृत्तिरूपं प्रियं स्वस्य भवतीति वयम् ॥ १।१।२० ॥
यौवराज्येनेति । युवराजस्य भावो यौवराज्यम् । पितरि राज्यं कुर्वत्येव सर्वराजव्यापारे ऽभिषेकपूर्वकमधिकृतः पुत्रो युवराजः । संयोक्तुं योजयितुम् । महीपतिर्दशरथः ऐच्छत् । अथ तस्य रामस्य यौवराज्याभिषेके ऽपेक्षितान्सम्भारान् “औदम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युः” इत्यादिना बह्वृचब्राह्मणेनोपदिश्यमानान्दधिमधुसर्पिरादीन्सम्भूतान्दृष्ट्वा मन्थरावचनाज्ज्ञात्वा । कैकेयी राज्ञः कनीयसी भार्या । अत्र कैकेयीत्येव । यद्यपि केकयशब्दादञि “केकयमित्रयु” इत्यादिना यादेरियादेशे गुणे आदिवृद्धौ ङीपि “यस्येति च” इति लोपे साधु, तथापि “अपि माषं मषं कुर्याच्छन्दोभङ्ग न कारयेत्” इति न्यायेन कैकयीति प्रयोगः । पुंयोगलक्षणे ङीपि “केकयी” इति पाठ इत्यन्ये ॥ १।१।२१ ॥
पूर्वं पूर्वस्मिन्काल इन्द्रसहायार्थं प्रवृत्तदशरथस्य दैत्यैर्युद्धकाले दशरथेतरप्रयुक्तामासुरीं मायां धवलाङ्गमुनिदत्तविद्यया निवारयित्र्यै कैकेय्यै तुष्टेन दशरथेन दत्तौ वरौ यस्यै सा । देवी सैव राज्याभिषेकसमये प्राप्ताभिषेका देवी तद्वत्प्रियतमैनं वक्ष्यमाणलक्षणं वरं प्राप्तकालत्वादयाचत राजानम् । याचेर्द्विकर्मकत्वात् । वरद्वयमाह रामस्य राज्यादुद्वासनम्, भरतस्य स्वपुत्रस्याभिषेचनम् ॥ १।१।२२ ॥
स इति । सत्यवचनात् । धर्मपरनिर्देशेन सत्यप्रतिज्ञत्वादित्यर्थः । अतो हेतोः सत्यरूपेण धर्मपाशेन संयतो बद्धः सन्दशरथः प्रियं सुतमपि विवासयामास ॥ १।१।२३ ॥
स इति । वीरो ऽनेकैरपराङ्मुखतया योद्धापि स रामः पितुः प्रतिज्ञां सत्यतया स्वविवासनेनानुपालयन् । यद्वा कैकेयीसन्निधौ पितृवचनपरिपालनविषयां स्वकृतां प्रतिज्ञां परिपालयत्पितृवचनकृतान्निर्देशादाज्ञातो मातुश्च कैकेय्याः प्रियकारणात्प्रियसिद्धिनिमित्तं वनं जगाम । अनेन पितृतत्पत्नीसन्तोषकरणमेव सर्वात्मना पुत्रस्य धर्म इति भगवतोपदिष्टम् ॥ १।१।२४ ॥
तमिति । व्रजन्तं भ्रातरम् । प्रियो रामे सहजप्रीतिमान् ॥ १।१।२५ ॥
भ्रातरमिति । भ्रातू रामस्य दयितः प्रियः । सौभ्रात्रं सुभ्रातृभावम् । स्नेहमिति यावत् । स्नेहादेव जगाम । न पित्रादिनिर्देशादिति भावः । अथ रामस्य दयितेष्टा । प्राणसमा निरतिशयप्रेमास्पदम् । हिता नित्यं हितकारिणी ॥ १।१।२६ ॥
जनकस्य कुले ऽन्वये जाता । यद्यप्येषा ऽयोनिजा तथापि सीरध्वजस्य देवयजनलाङ्गलपद्धतावाविर्भूतत्वादेवमुक्तिः । अत एवाह देवमायेवेति । सेवाचिन्त्योदयस्थितिलया । देवैरेव स्वकार्यसिद्ध्याकाङ्क्षिभिर्निर्मिताविर्भाविता । यद्वा इवशब्द एवार्थे । देवेन भगवताविर्भाविता
स्वमायैव । भगवतो ऽनाद्यन्ता सर्वकार्यसहायभूता सहजशक्तिरेव हि मायाः । यत्तु तिलोत्तमादिवद्देवमायेव स्थितेति, तन्न । निर्मितपदवैयर्थ्यापत्तेः । सर्वैः स्त्रीलक्षणैः सम्पन्ना युक्ता ॥ १।१।२७ ॥
सीतेति । सीता लाङ्गलपद्धतिस्तदुत्थत्वात्सीता । शशिनं रोहिणीव राममनुगता ॥ १।१।२८ ॥
शृङ्गेति । गङ्गाकूले वर्तमानशृङ्गवेरपुरे स्थितं निषादाधिपतिं प्रियमिष्टं गुहमासाद्य तत्सहितो लक्ष्मणादिसहितश्च रामः सूतं रथेन स्वप्रापणार्थमागतं गङ्गाकूले व्यसर्जयत्परावर्तितवान् ॥ १।१।२९ ॥
गुहेनेति । पूर्वार्धं पूर्वश्लोकान्वयि । अथ ते सीतारामलक्ष्मणा वनेन पुरोवर्तिप्राप्तवनद्वारेण परमपरं वनं गत्वा । तेवनं पादचारस्तेन वनं गत्वेत्यर्थ इति सम्प्रदायः ॥ १।१।३० ॥
चित्रेति । अनु पश्चाद्भरद्वाजस्य शासनाच्चित्रकूटं प्राप्य तत्र रम्यमावसथं पर्णशालां कृत्वा तत्र वने रममाणास्त्रयो देवगन्धर्वसदृशाः सुखं न्यवसन्नित्यन्वयः ॥ १।१।३१ ॥
तथा पुत्रशोकातुरो ऽनिर्वाच्यपुत्रवियोगजन्यशोकपीडितः ॥ १।१।३२ ॥
राजेति । तस्मिन्दशरथे गते लोकान्तरं गते मृते वसिष्ठाद्यैर्द्विजैस्त्रैवर्णिकैः । इदमुपलक्षणम् । तत्सहितैर्मन्त्रिवृद्धैरित्यपि बोध्यम् ॥ १।१।३३ ॥
राज्याय राज्यं कर्तुं तैर्नियुज्यमानः प्रेर्यमाणो महाबलः समर्थो ऽपि सौभ्रात्राद्राज्यं नैच्छत् । ततो रामपादप्रसादकः पूज्यं रामं प्रसादयितुं वनं जगाम । पादशब्दः पूज्यवची ॥ १।१।३४ ॥
गत्वेति । स भरतो महत्मानं सत्यप्रतिज्ञत्वादिधर्मैर्महावैभवं भ्रातरं रामं गत्वार्यभावपुरस्कृतो विनीतवेषस्तं रामं राज्याय प्रतिनिवृत्तिमयाचत् । याचिर्द्विकर्मकः ॥ १।१।३५ ॥
ननु पितृमातृदत्तं राज्यं तवैव योग्यमिति मम प्रतिनिवृत्तिरनुचितेत्यत्राह त्वमेवेति । सर्वगुणश्रेष्ठे ज्येष्ठे सति कनिष्ठो न राज्यार्ह इति धर्मं त्वमेव जानासीति त्वमेव राजेति वचो राममब्रवीत् । रामो ऽपि रमयतीति व्युत्पत्त्याश्रितचित्तरञ्जको ऽपि पितुरादेशाद्राज्यं नैच्छदित्युत्तरेणान्वयः । अत्र हेतुगर्भं विशेषणम् । परमोदारः स्वसुखसाधनस्य परस्मै दानमौदार्यं तद्युतः । सुमुखो राज्यादपि वने ऽम्लान्याद्यधिकमुखप्रसादयुक्तः । सुमहायशाः प्रतिज्ञापालनरूपयशोभङ्गभिया नैच्छदिति कतककृतः । तीर्थस्तु परमोदारो याचकाभीष्टप्रदाननिरतो ऽर्थिलाभेन प्रसन्नमुखः । सुमहायशा अर्थ्यवैमुख्येन प्रसिद्धकीर्तिरपि पित्राज्ञयैव भरतवाक्यं नैच्छदित्याह ॥ १।१।३६ ॥
ततो ऽस्य भरतस्य राज्याय राज्यरक्षणसामर्थ्यं लब्धुमहल्यादौ दृष्टशक्तिकाचिन्त्यवैभवस्वपदस्पृष्टे पादुके न्यासरूपेण दत्त्वा पुनःपुनः प्रतिनिवृत्तिं याचमानं भरतं चतुर्दशसमानन्तरं सर्वथा प्रतिनिवर्तितव्यमित्यभ्युपेत्य निवर्तयामास । अस्येति राज्यापेक्षया षष्ठी । दत्त्वेत्यत्र अस्मै इत्यर्थलभ्यम् । दत्त्वेत्यन्वये ऽपि सम्प्रदानस्य शेषत्वविवक्षया षष्ठीत्यन्ये । यत्तु निक्षेपे मुख्यदानाभावान्न चतुर्थी दत्त्वेत्यन्वये ऽपीति, तन्न । खण्डिकोपाध्यायस्तस्मै चपेटां ददातीति महाभाष्यप्रयोगविरोधात् ॥ १।१।३७ ॥
स भरतो रामप्रतिनिवृत्तिरूपं काममनवाप्यैव रामपादौ नमस्कुर्वन्प्रतिनिवृत्त इति शेषः ॥ १।१।३८ ॥
ततो नमस्कृत्य प्रतिनिवृत्तो नन्दिग्रामे स्थित्वा रामश्चतुर्दशसमारूपप्रतिज्ञातसमयानन्तरं राज्यायागमिष्यतीति रामागमनकाङ्क्षया पादुके पुरस्कृत्य राज्यमकरोत् । उत्तरार्धं स्पष्टम् ॥ १।१।३९ ॥
राम इति । उक्तगुणविशिष्टो रामस्त्वत्यासन्नतया नागरस्य मन्त्रिवृद्धादिपौरजनस्य भरतस्य च तत्र चित्रकूट आगमनमालक्ष्य सम्भाव्य तेषां प्रतिनिवर्तनप्रयासाद्वरमितो ऽपि दूरगमनमिति सञ्चिन्त्य दण्डकान्दण्डकारण्यानि । अवान्तरबहुत्वाद्बहुवचनम् । तेषां रक्षश्चोरादिभूयिष्ठत्वादेकाग्रः सज्जो भूत्वा प्रविवेश । हेति प्रसिद्धौ ॥ १।१।४० ॥
प्रविश्येति । महारण्यमित्यरण्यकाण्डकथासङ्ग्रहः । राजीवम् पद्मम् । अनेन राक्षसयुद्धारम्भकृतहर्षो ध्वनितः । शरभङ्गाद्या ऋषयः ॥ १।१।४१ ॥
चापीति निपातसमुच्चयः पद्यपूरकः । अगस्त्यभ्रातेध्मवाहननामेति केचित् । “ततो मुनेरगस्त्यस्य भ्रातागस्त्य इति श्रुतः । स चिन्वन्कानने वन्यं सखीभिः कोपितो ऽशपत्” इति मार्कण्डेयपुराणे श्रूयते । दिव्यं धनुरादिकं कार्याय प्रतिगृहाणेत्येवं रूपादगस्त्यवचनात् ऐन्द्रमिन्द्रादगस्त्यस्यागतं शरासनं धनुर्जग्राह । पूर्वं भार्गवं जित्वा ततः प्राप्तं यद्वैष्णवं धनुर्भगवता रामेण वरुणे न्यस्तं तदिन्द्रेण वरुणादानीयागस्त्ये स्थापितमित्यग्रे ऽरण्यकाण्डे स्फुटम् । यद्वेन्द्रो विष्णुः ॥ १।१।४२ ॥
खङ्गञ्चेति । अनुरूपनिजायुधलाभात्परमप्रीतः । अक्षयाः सायका बाणा ययोस्तौ । तूणी इषुधी । वनचरैर्वानप्रस्थैः ॥ १।१।४३ ॥
ऋषय इति । तद्वने वसतो रामस्यान्तिकमसुराः कबन्धादयो रक्षांसि खरादयस्तेषां वधाय वधं प्रार्थयितुं सर्वे ऋषयो ऽभ्यागमन् । स रामस्तेषां राक्षसानां वधं तस्मिन्वने तेभ्यो ऋषिभ्यः प्रतिशुश्राव । प्राप्तकालमसुररक्षो योधयिष्ये नोपेक्षिष्य इति तद्वचो ऽङ्गीकृतवानित्यर्थः ॥ १।१।४४ ॥
प्रतिज्ञात इति । अग्निकल्पानामग्निसदृशानामृषीणाम् । सन्निधाविति शेषः । अपेक्षित इति वा शेषः । संयति युद्धे ऽचिन्त्यामितनिजशक्तिवैभवाद्रक्षसां वधः प्रतिज्ञातश्चेति सम्बन्धः ॥ १।१।४५ ॥
तेनेति । तेन रामेण तत्रैव दण्डकारण्यदक्षिणप्रदेशवर्तिपञ्चवट्याश्रमे जनस्थानं नाम दण्डकारण्ये रावणस्य बलनिवेशस्थानम् । कामरूपिणीच्छया नानारूपधारिणी । यद्वा पुंसां काम्यमानरूपवती । विरूपिता कर्णनासाछेदेन वैरूप्यं प्रापिता । शूर्पणखेत्यत्र “नखमुखात्सञ्ज्ञायाम्” इति ङीप्निषेधः । “पूर्वपदात्सञ्ज्ञायाम्” इति णत्वम् । विरुद्धं रूपं विरूपं तत्सञ्जातमस्या इति तारकादित्वादितच् ॥ १।१।४६ ॥
तत इति । ततस्तद्वैरूप्यकरणानन्तरम् । सर्वराक्षसान् जनस्थाननिवासिन इति शेषः । उद्युक्तान्युद्धार्थं सन्नद्धान् ॥ १।१।४७ ॥
पदानुगाननुचरान् । निवसता । रामेणेति शेषः । उत्तरश्लोकान्वयी ॥ १।१।४८ ॥
रक्षसामिति । चतुर्दशसहस्राणि तत्सङ्ख्यासङ्ख्यातानि । सैन्यानीति शेषः । ज्ञातयः खरादयः । खरादयो हि रावणस्य वैमात्रेयाः । श्रुत्वा । शूर्पणखामुखादिति शेषः । मूर्च्छितो व्याप्तचित्तः ॥ १।१।४९ ॥
क्रोधेन व्याप्तः स रावणो मारीचेन बहुशो बहुवारं परदारहरणस्य परमाधर्मत्वं बलवद्विरोधस्य निजनाशान्तत्वम् । अतस्तेन रामेण बलवता विश्वामित्राश्रमे मदनुभूतबलेन ते तव विरोधो न क्षमो न युक्तो न हितश्चेति वार्यमाणो ऽपि मारीचं नाम प्रसिद्धं राक्षसं सीताहरणे सहायं वरयामास । “वृञ् वरणे” इति स्वार्थे ण्यन्तो ऽपि ॥ १।१।५० ॥
नेति । पूर्वार्धं पूर्वान्वयि । कालचोदितो मृत्युप्रेरितो रावणस्तद्वाक्यं मारीचवाक्यं त्वनादृत्य ॥ १।१।५१ ॥
सहमारीचो मारीचसहितः । “वोपसर्जनस्य” इति विकल्पात्सहस्य सादेशाभावः । तस्य खरादिहन्तृत्वेन प्रसिद्धस्य रामस्याश्रमपदमाश्रमस्थानं जगाम । ततस्तेन मायाविना मारीचेन तौ नृपात्मजौ रामलक्ष्मणौ दूरमपवाह्यापसार्य ॥ १।१।५२ ॥
जहारेति । हत्वा हतप्रायं कण्ठगतप्राणं कृत्वा रामस्य भार्यां जहारेति सम्बन्धः । निहतम् निहतप्रायम् । श्रुत्वा । गृध्रमुखादिति शेषः ॥ १।१।५३ ॥
विललाप पर्यदेवयत् । आकुलेन्द्रियः शोकपरवशेन्द्रियः । तेनैव शोकेन निवृत्तिहेतुमप्राप्तेनाभिभूयमान एव सन्गृध्रं रावणेन सीतापहृतेति निवेद्य मृतं दग्ध्वा विधिना संस्कृत्य ॥ १।१।५४ ॥
सीतां वने मार्गमाणः । मार्गयमाण इत्यर्थः । रूपेण विकृतं कबन्धं राक्षसम् । ददर्शेति सम्बन्धः ॥ १।१।५५ ॥
तमिति । तं कबन्धं निहत्य ददाह । महाबाहू रामः । स च कबन्धः स्वर्गतः स्वर्गगमनयोग्यं स्वीयं गन्धर्वरूपं प्राप्तवान् । ततस्तेन रूपेण । अस्य रामस्य ॥ १।१।५६ ॥
श्रमणाम् तापसीम् । धर्मनिपुणाम् सकलधर्मज्ञाम् । धर्मचारिणीमित्यस्य तु सकलधर्मानुष्ठात्रीमित्यर्थः । श्रमणामित्यत्र कर्तरि ल्युट् । तपसा श्राम्यतीत्यर्थात् । तामभिगच्छेति कथयामासेत्यन्वयः ॥ १।१।५७ ॥
शबर्येति । सम्यक्पूजितो यथाविध्यर्घ्याद्युपचारैः पूजितः । पम्पेत्यादिना किष्किन्धाकाण्डकथासङ्ग्रहः । सङ्गतो मिलितः ॥ १।१।५८ ॥
हनुमद्वचनात्सुग्रीवो युष्मन्मैत्रीमपेक्षत इत्यादिरूपात् । समागतो मैत्रीं कृतवान् । हनुशब्दो ह्रस्वान्तो दीर्घान्तश्च । सुग्रीवायेति । सङ्गतायेति शेषः । शंसदकथयत् । छान्दसो ऽडभावः । महाबलः सुग्रीवेण स्वकार्यसाधकमहाबलवत्त्वेनावगतः ॥ १।१।५९ ॥
आदित इति । जन्मन आरभ्येत्यर्थः । तत्प्रसिद्धं वृत्तं स्वीयं सीतायाश्च वृत्तं विशिष्य रावणापहारान्तम् अशंसत् । यद्यपि महाबलत्वाद्विनापि सहायं सर्वनिर्वाहकस्तथापि लोकरीतिमनुसृत्य सुग्रीवमैत्रीमुद्दिश्य सर्वमकथयदिति बोद्धव्यम् । वानरः सुग्रीवो ऽपि रामस्य सम्बन्धि तत्सर्वं श्रुत्वा ॥ १।१।६० ॥
स्वसमानदुःखमहाबलसम्बन्धलाभात्प्रीतः सुग्रीवो ऽग्निसाक्षिकमग्निरेव साक्षाद्द्रष्टा यस्य तादृशं सख्यं चकार । ततो वैरानुकथनं वालिनस्तव च वैरे किं कारणमिति रामकृतप्रश्नं प्रति । प्रश्नोत्तरमिति यावत् ॥ १।१।६१ ॥
रामाय यत्प्रत्युत्तरमावेदितव्यं तत्सर्वं रामवद्दारापहारान्तकष्टैः सञ्जातदुःखेन सुग्रीवेण प्रणयाद्रामायावेदितम् । तदा तद्वृत्तान्तश्रवणानन्तरकाले रामेण वालिवधं प्रति वालिवधमुद्दिश्यावश्यं वालिनं वधिष्यामीति प्रतिज्ञातम् ॥ १।१।६२ ॥
वालिनश्चेति । तत्र ऋष्यमूकपर्वते । वानरः सुग्रीवो वालिनो बलमरुणोदयानन्तरं सूर्योदयात्प्रागेव रावणं गृहीत्वा चतुःसमुद्रलङ्घनादिरूपं कथयामास । किञ्च सुग्रीवो रामो वालितुल्यो न वेति शङ्कितः सञ्जातशङ्क आसीत् ॥ १।१।६३ ॥
राघवेति । राघवस्य वालिमहाबलत्वे विश्वासार्थमुत्तमं बलप्रत्यायनोत्तमसाधनं महापर्वतसदृशं दुन्दुभेर्दैत्यस्य शरीरं दर्शयामास । यस्य काय इदानीमेतादृशस्तादृशो दुन्दुभिर्वालिना हत्वैतावद्दूरं प्रक्षिप्त इत्युक्त्वा दर्शयामासेत्यर्थः ॥ १।१।६४ ॥
उत्स्मयित्वेति । बाहुलकात्स्वार्थे णिच् । ईषत्स्मितं कृत्वा ॥ १।१।६५ ॥
बिभेदेति । पुनश्च प्रत्ययं जनयन्स्वबलविश्वासमुत्पादयन् । हेतौ शता । फलमपि हेतुः । तदैकेनैव महेषुणा सकृत्प्रयोगेणैव सप्तसालान्सप्तसालवृक्षांस्तत्समीपस्थं गिरिं पर्वतं रसातलं षष्ठमधोलोकं च बिभेद । अतलवितलसुतलतलातलमहातलरसातलपाताला इति सप्ताधो लोकाः । एकसालमात्रभेदने ऽस्य वालिसाम्यशङ्का जायेत तन्निवृत्त्यर्थमनुक्तानामपि शा(रसात)लगिरिप्रस्थादीनां भेदनमिति मन्तव्यम् ॥ १।१।६६ ॥
तत इति । ततः सालभेदानन्तरं तेनातिदुष्करेण कर्मणा वालिवधे विश्वासं प्राप्तः प्रीतमनाः कपिराज्यलाभो ऽचिरादेवेति सन्तुष्टमनाः महाकपिः सुग्रीवः किष्किन्धाख्यां गुहां रामसहितो जगाम ॥ १।१।६७ ॥
तत इति । हरिवरः कपिश्रेष्ठो ऽगर्जत्सिंहनादं कृतवान् । हरीश्वरो वाली ॥ १।१।६८ ॥
अन्विति । तदाङ्गदमुखादवगतसुग्रीवराममित्रत्वेन संयुगनिर्गमनं वारयन्तीं तारां स्वस्त्रियं मया ऽकृतापकारो धर्मज्ञो रामो मह्यं नापकरिष्यतीत्यादिवचनैरनुमान्यानुमतिं प्रापय्य । कृतानुमतिकां कृत्वेति यावत् । सुग्रीवेण सह वाली युद्धाय समागतो ऽभवत् । तत्र संयुगे । एनं वालिनम् ॥ १।१।६९ ॥
तत इति । सुग्रीववचनात् “वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः” इत्येवंरूपात्सुग्रीववचनात् । आहवे रणे । प्रत्यपादयत्प्रतिष्ठापितवान् । सुग्रीववचनादित्यनेनानपकारिवालिवधस्यायुक्तत्वे ऽपि मित्रापकारित्वेन तदुक्त्या हननमिति ध्वनितम् ॥ १।१।७० ॥
स चेति । स सुग्रीवः । दिदृक्षुरन्वेषिषुः सर्वान्वानरान्समानीय सर्वा दिशः प्रस्थापयामास ॥ १।१।७१ ॥
तत इति । गृध्रस्य सम्पातेर्वचनात् “तस्यां वसति वैदेही दीना कौशेयवासिनी” इत्येवंरूपात् । पुप्लुव उल्लङ्घितवान् । इतः सुन्दरकाण्डकथासङ्ग्रहः ॥ १।१।७२ ॥
तत्रेति । अशोकवनिकां गताम् प्रमदवनस्थिताम् । ध्यायन्तीम् राममिति शेषः ॥ १।१।७३ ॥
निवेदयित्वेति । अभिज्ञानमङ्गुलीयकरूपम् । प्रवृत्तिं रामसुग्रीवसख्यादिसर्ववृत्तान्तम् । समाश्वास्य राघवस्य सर्वो ऽपि व्यापारस्त्वत्प्रत्यापत्त्येकफलक इत्यादितत्त्वकथनेन वैदेहीं समाश्वास्य । “गृहीत्वा प्रत्यभिज्ञानम्” इति पाठे प्रत्यभिज्ञानं सीतालकस्थितचूडामणिरूपम् । तोरणमशोकवनिकागतप्रासादबहिर्द्वारसन्निवेशम् । चकारादशोकवनं च मर्दयामास ॥ १।१।७४ ॥
पञ्चेति । सेनाग्रगाः सैन्यपतयः पिङ्गलनेत्रप्रभृतयः मन्त्रिसुता जम्बुमाल्यादयः । अक्षं रावणसुतं निष्पिप्य चूर्णीकृत्य ग्रहणमिन्द्रजित्प्रयुक्तब्रह्मास्त्रकृतबन्धनं समुपागमत्प्राप्तः ॥ १।१।७५ ॥
अस्त्रेणेति । मदस्त्रस्यामोघत्वात्तेन बन्धनमात्रं चतुष्पञ्चघटिकानन्तरं पुनर्मोक्षश्चेति ब्रह्मदत्तवरात् । तावता कालेन ब्रह्मास्त्रमुक्तमात्मानं ज्ञात्वापि यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया । यन्त्रिणो बद्ध्वा नेतृ़ंस्तान्राक्षसान्प्रति वीरो हन्तुं समर्थो ऽपि मर्षयन्क्षमां कुर्वन् । रावणसमीपं प्राप्तवानिति शेषः । “ममर्ष” इति वा पाठः ॥ १।१।७६ ॥
तत इति । ततो रावणदर्शनादिव्यापारानन्तरं सीतामृते सीतावस्थानप्रदेशं विना लङ्कां दग्ध्वा रामाय प्रियं सीतादर्शनरूपप्रियवार्तामाख्यातुं पुना रामान्तिकं महाकपिर्हनुमानायादागतः ॥ १।१।७७ ॥
सो ऽभीति । प्रदक्षिणम् प्रदक्षिणादिमुख्यमुपचारम् । महात्मानम् परमात्मानम् । अमेयात्मा ऽपरिच्छेद्यबलबुद्धिधैर्यादिवैभवः । तत्त्वतः । सार्वविभक्तिकस्तसिः । दृष्टा सीतेति तत्त्वं न्यवेदयदित्यर्थः । अत्र दृष्टेति पदस्य प्रथमप्रयोगो रामस्य सीतेति श्रवणे तद्विषयक्रियापदसंशयो माभूदित्यर्थः ॥ १।१।७८ ॥
तत इति । ततो युद्धकाण्डकथासङ्ग्रहः । क्षोभयामास । लङ्कागमनमार्गदानऔदासीन्यात्समुद्रमापातालमाकुलीचकारेत्यर्थः ॥ १।१।७९ ॥
दर्शयामासेति । समुद्रः । शरक्षोभित इति शेषः । समुद्रवचनात् “एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि” इत्येवंरूपान्नलं सेतुमकारयत् । नलेन सेतुं कारितवानित्यर्थः ॥ १।१।८० ॥
तेनेति । तेन सेतुना । आहवे युद्धे । अत्र क्वचिन्मध्ये “अभ्यषिञ्चत्” इत्यादिश्लोकद्वयम् “अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् । कर्मणा तेन महता देवा इन्द्रपुरोगमाः ॥ सदेवर्षिगणास्तुष्टा राघवं ते ऽभ्यपूजयन् । तथा परमसन्तुष्टैः पूजितः सर्व दैवतैः ॥ " लङ्कायां राज्ये राक्षसेन्द्रं तत्त्वव्यवहारविषयो भवति यथा तथाऽभ्यषिञ्चत्। तेन कर्मणा रावणहननादिरूपेण। सदेवर्षिगणा देवर्षिसहिता गणाः। अर्थादृषिगणास्तत्सहिता देवा इत्यर्थः। तदिदं श्लोकद्वयम्। “पूजितः सर्वदैवतैः। अभिषिच्य च” इत्यनेन पुनरुक्तमिति प्रक्षिप्तमेव बोध्यम्। सीतां प्राप्यानु पश्चात्परां व्रीडां रक्षोगृहे चिरोषितां पुनर्गृहीतवानिति लोकापवादशङ्कयातिशयितां लज्जामुपागमत् ॥
१।१।८१ ॥
तामिति । जनसंसदि वानरराक्षससभायां परुषम् मर्मस्पृक् । “दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्” इत्यादिवचनमुवाच । लोकस्य नास्यां रामस्य कामादिदोषतः पुनर्जिघृक्षास्तीति प्रत्यायनार्थम् । अमृष्यमाणा पातिव्रत्यसंशयजनितमुक्तवचनम् । सतीत्यनेन पातिव्रत्यबलान्निजेच्छयाग्निप्रादुर्भावनशक्तिमत्त्वद्योतनमिति केचित् । लक्ष्मणप्रादुर्भावितो ज्वलन इत्यन्ये ॥ १।१।८२ ॥
तत इति । अग्निवचनात् “विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव” इत्येवंरूपात् । विगतकल्मषां निष्पापां स्वयं ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य । सीतामङ्गीचकारेति शेषः । क्वचित्तु “अग्रहीदमलां रामो वचनाच्च गुरोस्तदा” इति पठ्यते । तत्रामलामिति पुनरुक्तमापद्यते ॥ १।१।८३ ॥
सदेवर्षीति । तेन कर्मणा सीताप्रत्यानयनान्तेन कर्मणा । ऋषिदेवगणसहितचराचरप्रजासहितं त्रैलोक्यं तुष्टम् तुतोष । तत्सन्तोषेण च प्रहृष्टसन्तोषवशादेव सर्वदैवतैः पूजितश्च रामो बभौ । अत्र केचिदचराणां वृक्षादीनां रावणकृतपीडापरिज्ञानाभावेन रावणवधजन्यसन्तोषभावादेवं व्याचक्षते “देवऋषिगणम्” इति पाठः । “ऋत्यकः” इति प्रकृतिभावः । तत्र देवगणा इन्द्रादयः, ऋषिगणा विश्वामित्रादयः । एतद्रूपं यत्रैलोक्यम् सचराचरम् । अत्र चरप्रजा गतिभक्षणमात्रप्रधानास्तिर्यक्स्रोतसः पशुपक्ष्यादय ऐरावतादयः । अचरप्रजाश्चरप्रजाभिन्नाज्ञानयुक्तप्रजा अवाक्स्रोतसो मनुष्याः । एवं च स्वस्वशेषतिर्यगवाक्स्रोतोयुतं देवर्षिगणरूपं त्रैलोक्यं तुष्टम् । रावणस्य मर्त्योपेक्षित्वात्प्राधान्येन देवर्षिग्रहणमित्याहुः ॥ १।१।८४ ॥
अभिषिच्येति । राक्षिसेन्द्रम् भावितत्त्वव्यवहारविषयम् । कृतकृत्यः प्राक्प्रतिज्ञातविभीषणाभिषेकलक्षणकृत्यस्यापि कृतत्वात्कृतकृत्यः । अत एव विज्वरो विगतावश्यकर्तव्यविषयचिन्तातापः । प्रमुमोदेति च्छान्दसं परस्मैपदम् ॥ १।१।८५ ॥
देवताभ्य इति । सुप्तोत्थितवदुत्तिष्ठन्तु वानरा इत्येवंरूपं वरं रावणवधजनितहर्षवशात्स्वदिदृक्षया समागताभ्यो देवताभ्यः प्राप्य सुहृद्भिः सुग्रीवविभीषणादिभिः संवृतः पुष्पकेणायोध्यामुद्दिश्य प्रस्थितो जगाम ॥ १।१।८६ ॥
भरद्वाजेति । “चतुर्दशे तु सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्” इति भरतेन प्रतिज्ञातत्वाद्भरद्वाजाश्रमे चतुर्दशसमासमाप्त्यनन्तरं मुनिवचनेनैकदिनविलम्बस्य प्राप्तत्वात्स्वागमनप्रबोधनाय हनुमद्विसर्जनम् । यद्वा महत्या वानरसेनया सहाकस्माद्गमने भरतादेः शङ्का मा भूदिति तद्विसर्जनम् ॥ १।१।८७ ॥
पुनरिति । पुष्पकादवतीर्णत्वात्पुनस्तत्पुष्पकं समारुह्य । आख्यायिकाम् पूर्ववृत्तविषयां कथाम् । भरद्वाजाश्रमारोहात्पूर्वमिव जल्पन्कथयन् । सुग्रीवेति विभीषणादेरुपलक्षणम् ॥ १।१।८८ ॥
नन्दिग्राम इति । नन्दिग्रामे भ्रातृभिः सह स्वस्यापि व्रतप्रयुक्तां जटां हित्वा त्यक्त्वा रामः सीतामनुप्राप्य मुनिवेषत्यागेन सीतानुरूपं रूपं प्राप्य । यद्वा मुनिवेषत्यागेन हृष्टां सीतां प्राप्य प्राप्तविसृष्टं राज्यं पुनरवाप्तवान् ॥ १।१।८९ ॥
एतदन्तं चरितं वृत्तत्वेनोपदिश्य देवर्षिरतःपरमुत्तरकाण्डविषयं भविष्यत्वेनोपदिशति प्रहृष्टेति । अनेन च रावणवधानन्तरं रामे राज्यं प्रशासति सति वाल्मीकेर्नारदं प्रति प्रश्न इति ज्ञायते । प्रहृष्टः प्रातिस्विकपुत्रपश्वादिसम्पत्त्या मुदितः क्षोभराहित्येन मुदितान्तःकरणः । लोकः सर्वप्रजाः । तुष्टो बहुप्रदाद्भगवतः सांसारिकपारमार्थिकार्थलाभात्तुष्टः । अत एव पुष्टो दारिद्र्यकार्श्यरहितः । आमयो मनःपीडा । रोगो देहजो व्याधिः । दुर्भिक्षेण चोरादिभयेन च रहितः । भविष्यतीति शेषः । यद्वा रामविरहेण दुःखितो राममेलनेन तुष्टः । तथा तद्विरहेण कृशस्तन्मेलनादेव पुष्टः ॥ १।१।९० ॥
नेति । स्वपितृषु स्वेषु च जीवत्स्विति शेषः । अविधवाः । भर्त्रनुगमनाद्धवांशपुत्रसद्भावाद्वेति शेषः ॥ १।१।९१ ॥
न चाग्निजमिति । पादत्रयेणाधिदैविकदुःखनिवृत्तिरुच्यते । चतुर्थेनाध्यात्मिकनिवृत्तिः ॥ १।१।९२ ॥
भौतिकदुःखाभावमाह न चापीति । क्षुद्भयं क्षुदुपशमोपायाभावजं न च नैव भविष्यतीत्यनुषङ्गः ॥ १।१।९३ ॥
नित्यमिति । कृतयुगे स्वाभाविकादधर्मसम्बन्धान्नित्यं प्रजामोदः, त्रेतायामधर्मस्य पादांशेन सम्बन्धे ऽपि रामपालनवैभवात्तदनाक्रमेण नित्यप्रमोदत्वम् । अथ रामस्य भाविवृत्तान्तरमाह अश्वेति । शतशब्दो ऽनन्तवाची । इष्ट्वा दत्त्वेत्यादिस्वरूपकथनम् । न तु तेषां रामस्य स्वलोकप्राप्तिं प्रति हेतुतेति बोध्यम् । यत्तु कतककृताश्वमेधाद्यनुष्ठानस्य मानुषोपाधिप्रयुक्तावर्ज्याघशमनद्वारा ब्रह्मलोकप्राप्तौ हेतुत्वमित्युक्तम्, तन्न । भगवदवताराणां पुण्यपापसम्बन्धस्य सर्वतन्त्रविरुद्धत्वात् । अश्वमेधाद्यनुष्ठानं तु लीलामात्रं लोकोपदेशायेत्यन्यत्र विस्तरः ॥ १।१।९४,९५ ॥
राजवंशानिति । कामरूपकान्यकुब्जादितत्तद्राज्यपदस्थान्राजवंशाञ्शतगुणाननेकगुणवृद्धिर्यथा भवति तथा स्थापयिष्यति । शाश्वततत्तद्राज्यप्रदानेनेति शेषः । चातुर्वर्ण्यम् चत्वारो वर्णाः । स्वार्थे ष्यञ् । नियोक्ष्यति । शङ्कितस्वधर्मभ्रंशमपीति शेषः ॥ १।१।९६ ॥
अवतारत्यागकालमाह दशेति । उपासित्वा नित्यवदनुष्ठायेत्यर्थः । ब्रह्मलोकम् मायिकं वैकुण्ठादिलोकम् । अनेन निजनित्यकर्मयोगोपेतस्यैव साक्षात्परम्परया ब्रह्मलोकप्राप्तिरिति ध्वनिः ॥ १।१।९७ ॥
अथ नारदः स्वोपदिष्टसङ्क्षेपरामायणपाठफलमुपदिशति इदमिति । पवित्रं चित्तशोधनम् । पुण्यम् सकलपुण्यसाधनम् । वेदैः सम्मितम् सकलरहस्यवेदार्थप्रतिपादकत्वाद्वेदतुल्यम् ॥ १।१।९८ ॥
सर्वपापमोक्षद्वारा मोक्षफलकत्वमुपपादितम् । पुण्यस्यापि त्रिगुणात्मकत्वेन पापतुल्यतया हेयत्वादिति मुमुक्षुफलमुद्दिश्य मुमुक्षुणामपि प्रवृत्तय आह एतदिति । आयुष्यमायुष्करणम् । आख्यानमाक्यायिका । रामो ऽयनं प्रतिपाद्यो यस्य तद्रामायणम् । सञ्ज्ञात्वाण्णत्वम् । गणो दासीदासादयस्तैः सह । इहैहिकान्भोगान्भुक्त्वा प्रेत्य मृत्वा स्वर्गे महीयते स्वर्गिभिः सत्कृतो मोदत इत्यर्थः । पठन्निति हेतौ शता ॥ १।१।९९ ॥
पठन्नति । द्विजो मुख्यद्विजो ब्राह्मणः पठन्वागृषभत्वं शब्दब्रह्मपारगत्वं प्राप्नुयात् । स्यादिति यद्यर्थे । यदि क्षत्रियस्तदा रामायणं पठन्भूषतित्वमाप्नुयात् । पण्यैः क्रयद्रव्यैः साध्यं मूलाद्द्विगुणत्रिगुणवृद्ध्यादिरूपं फलं यस्य तत्त्वं प्राप्नुयात् । धनसमृद्धिं प्राप्नुयादिति फलितो ऽर्थः । शूद्रो ऽपि जनस्त्रैवर्णिकदासः । अत्र शृण्वन्नित्यध्याहारः । महत्त्वं द्विजेतरसर्वप्रजाभ्यः श्रैष्ठ्यं महत्त्वं देहान्ते स्वोपरितनवर्णप्राप्तिलक्षणं च महत्त्वं प्राप्नुयात् । अस्य गायत्र्यर्थप्रतिपादकत्वध्वननाय गायत्र्यादिमाक्षरेणोपक्रम्य यादिति गायत्र्यन्तिमाक्षरेण समापितवान् ॥ १।१।१०० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥ १ ॥