अथेति । हे नरव्याघ्र तव स्नेहात्, मयीति शेषः । सौहार्दात् सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्मान्य च । उत्तरं ततः परम् उत्तरं कार्यं वा पुनः पुनर्देव्या ससम्भ्रमः गमनत्वरान्वितः अहम् उक्त इत्यन्वयः ॥ ५।६८।१ ॥
किमुक्तम् ? तदाह एवमित्यादि ॥ ५।६८।२ ॥
यदीत्यादि श्लोकद्वयमेकं वाक्यम् । हे वीर यदि वा मन्यसे एकाहं वस । तावता किमायातम् ? अत आह कस्मिंश्चिदिति । अरिन्दम कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि चेत् तव सान्निद्ध्यादल्पभाग्याया मम अस्य महतः शोकविपाकस्य शोकरूपस्य पापपरिणामस्य फलस्येत्यर्थः । मुहूर्तं मोक्षणं स्यादिति योजना ॥ ५।६८।३,४ ॥
पुनरागमनाय प्रतीक्षमाणाया मम प्राणानामपि सन्देहः स्यादिति सम्बन्धः ॥ ५।६८।५१० ॥
यद्यपि त्वमेव पर्याप्तः सकलराक्षसवधपूर्वं मन्मोचन इति शेषः । तथापि ईदृशो बलोदयस्तवैव यशस्यः यशोवर्धकः स्यात् ॥ ५।६८।११ ॥
यदि तु रामो रावणं हत्वा मां नयेत् तदा तन्नयनं तस्य यशस्करं स्यात् ॥ ५।६८।१२२२ ॥
तदलमिति । मन्युः दैन्यम् ॥ ५।६८।२३२८ ॥
तत इति । तव शोकेनापि ऽनैव दंशान्ऽ इत्यादिपूर्वमुक्तया मदुक्त्या श्रुतेन त्वच्छोकेनापि मम पुरतस्तदा ऽभिपीडिता । अदीनभाषिणा मया शिवाभिरिष्टाभिः वाग्भिरभिप्रसादिता शान्तिं दुःखनिवृत्तिं जगामेति योजना ॥ ५।६८।२९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाम्डव्याख्यायाम् अष्टषष्टितमः सर्गः ॥ ५।६८ ॥
महेशतीर्थरचिता रामपादसमर्पिता । व्याख्या सुन्दरकाण्डस्य समाप्ता तत्त्वदीपिका ॥
श्रीमत्सुन्दरकाण्डपठनश्रवणयोः फलम् ।
काण्डस्य सुन्दराख्यस्य श्रवणात्पठनादपि । मां प्राप्नुयाज्जगद्धेतुं नात्र सन्देह इष्यते ॥
॥ इति श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डम् ॥