एवमित्यादि ॥ ५।६७।१,२ ॥
पूर्वं सङ्कुचितं विस्तृणीते सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ॥ ५।६७।३६ ॥
दारितां विदारिताम् ॥ ५।६७।७१९ ॥
न नागा इति । प्रतिसमासितुं प्रतिमुखं स्थातुम् ॥ ५।६७।२०२५ ॥
त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ॥ ५।६७।२६ ॥
भवती मया दृष्टा अतः परं परिशोचितुं न कालः, तव योग्य इति शेष । चिरं लङ्कायां उपासितुं ? न कालो योग्य इति वा । इमं मुहूर्तम् अस्मिन्नेव मुहूर्ते इत्यर्थः ॥ ५।६७।२७३० ॥
वेण्युद्ग्रथितं शिरसि कतिपयकेशरचितवेण्युद्ग्रथितम् । वस्त्रान्मुक्त्वा वस्त्रान्तग्रथितमुन्मुच्य ददावित्यर्थः ॥ ५।६७।३१ ॥
त्वरे त्वरावान् जात इत्यर्थः ॥ ५।६७।३२ ॥
विवर्धमानम्, समुद्रतरणायेति शेषः ॥ ५।६७।३३३८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥ ५।६७ ॥