॥ १ ॥
तमिति । नेत्राभ्यामश्रुपूर्णाभ्याम् उपलक्षितः ॥ ५।६६।२ ॥
स्रवति द्रवति । वत्सस्येत्यत्रापि दर्शनादिति सम्बध्यते । हृदयमित्यत्रापि स्नेहाद्द्रवतीति सम्बन्धः ॥ ५।६६।३ ॥
अथ सीताया मणेरागतिमाह मणिरत्नमिति । मे श्वशुरेण जनकराजेन । वधूकाले विवाहकाले । वैदेह्य मूर्ध्न्यशोभतेति सम्बन्धः ॥ ५।६६।४ ॥
जनकस्यापि कुत आगतो ऽत आह अयं हीति ॥ ५।६६।५ ॥
यथा सीतादर्शनम् अवगतः प्राप्तस्तथा तातस्य दशरथस्य प्राप्तः तद्धस्ते जनकेन दानात्तस्य स्मरणम्, तथा वैदेहस्य राज्ञो जनकस्य सपत्नीकस्य दर्शनं प्राप्त इत्यर्थः ॥ ५।६६।६८ ॥
वैदेहीं विना आगतं मणिं पश्यामीति सम्बन्धः । इतः किं दुःखतरम् ॥ ५।६६।९ ॥
यदि मासं धरिष्यति जीविष्यति तदा चिरं जीवति, जीविष्यतीत्यर्थः । तां विना यथा ऽहं न जीवेयं तथा मां विना सापि न जीविष्यतीत्यर्थः ॥ ५।६६।१० ॥
प्रवृत्तिमुपलभ्य क्षणमपि न तिष्ठेयं स्थातुं न शक्यमित्यर्थः ॥ ५।६६।११ ॥
भीरुभीरुः अत्यन्तं भीरुः ॥ ५।६६।१२ ॥
अम्बुदैरावृतस्तिमिरोन्मुक्तः शारदश्चन्द्र इव तस्या वदनं न राजति ॥ ५।६६।१३ ॥
एतेन तद्वाक्यश्रवणरूपेण ॥ ५।६६।१४ ॥
मधुरा मधुराकारा ॥ ५।६६।१५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ ५।६६ ॥