०६५ हनुमता सीतासन्देशनिवेदनम्

॥ १,२ ॥

रावणन्तःपुर इति । समयः मासद्वयावधिरूपसमयः । तं चेति शेषः ॥ ५।६५।३५ ॥

चोदयन्ति प्रेरयन्ति स्म ॥ ५।६५।६ ॥

सीतायै प्रणम्य तां दिशं प्रति प्रणम्येत्याकर्षः । उवाचेति । सीताया दर्शनं यथा येन प्रकारेण जातं तत्सर्वं वाक्यमुवाचेत्यर्थः ॥ ५।६५।७ ॥

देव्या दिदृक्षया तां मार्गमाणो ऽगच्चम् ॥ ५।६५।८,९ ॥

हे राम त्वयि मनोरथं संन्यस्य सम्यङ्न्यस्य जीवन्ती धृतप्राणा ॥ ५।६५।१०१३ ॥

अधश्शय्या स्थण्डिलशयना ॥ ५।६५।१४,१५ ॥

सर्वमर्थं च दर्शिता ज्ञापिता ॥ ५।६५।१६२२ ॥

एष इति । निर्यातितः प्रेषितः । वारिसम्भवो मणिः ॥ ५।६५।२३ ॥

एतम् अङ्गुलीयकम् ॥ ५।६५।२४२६ ॥

॥ २७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥ ५।६५ ॥