॥ १३ ॥
स प्रविष्ट इति । विमदत्वे हेतुमाह मेहमानान्मधूदकमिति । मेहमानान् मूत्रयतः । एतेन मूत्रणान्मधूनां जीर्णता विज्ञेया, अतो विमदान् । मधूनि च उदकानि च मधूकानि च मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चानुपानत्वेन पीतानीति द्रष्टव्यम् ॥ ५।६४।४,५ ॥
हे सौम्य एभिरज्ञानात्क्रोधाच्च भवन्तः प्रतिषेधिता इति यत् एतत्परिवारितं परितो वारणं प्रति रोषो न कर्तव्य इति योजना ॥ ५।६४।६ ॥
दोषः कृतः, मदीयैरिति शेषः ॥ ५।६४।७११ ॥
शङ्के, दधिमुखस्य परावृत्त्यागमनात् ॥ ५।६४।१२ ॥
किं शेषम् न किमपि शिष्टमित्यर्थः । गमनम्, कर्तव्यमिति शेषः ॥ ५।६४।१३,१४ ॥
नाज्ञापयितुमिति । अयुक्तमित्येतदव्ययम् । अयुक्ताः अनर्हा इत्यर्थः । धर्षयितुं नियन्तुम् ॥ ५।६४।१५१७ ॥
सन्नतिः विनयः नम्रता । भविष्यतीं शुभयोग्यतां भाविनीं भाग्योन्नतिमाख्याति सूचयति ॥ ५।६४।१८२० ॥
एवं वदतां तेषां पुरतः अङ्गदो बाढमित्यभ्यभाषत । महाबलास्ते गच्छाम इत्युक्त्वा खमुत्पेतुरिति योजना ॥ ५।६४।२१ ॥
उत्पतन्तमङ्गदम् । निराकाशं निरवकाशम् ॥ ५।६४।२२ ॥
अङ्गदमित्यादिसार्धश्लोकमेकं वाक्यम् । ते वानराः अङ्गदं हनुमन्तं च पुरतः कृत्वा अम्बरं सहसोत्पत्य, जग्मुरिति शेषः ॥ ५।६४।२३ ॥
अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः उवाचेति अङ्गदागमनात्प्रागिति द्रष्टव्यम् । आगमनस्य वक्ष्यमाणत्वादिति भावः ॥ ५।६४।२४२६ ॥
ननु मधुवनधर्षणमात्रेण कथं कार्यसिद्धिः ? कापेयादिनापि सम्भवादित्याशङ्क्य, सत्यम् अन्येषां तादृशत्वेपि अङ्गदस्तु नैतादृश इत्याशयेनाह यद्यपीत्यादिश्लोकद्वयेन । अकृतकृत्यानामन्येषां वानराणाम् । ईदृश उपक्रमः मधुवनभङ्गहर्षव्यापारो यद्यपि स्यात् तथापि तत्र अङ्गदस्यु दीनवदनो भ्रान्तविप्लुतमानसश्च भवेत् । कुतः ? पितृपैतामहं पितृपितामहपरम्परागतं मे मधुवनं जनकात्मजामदृष्ट्वा न हन्यात् ॥ ५।६४।२७,२८ ॥
हे राम कौसल्या सुप्रजाः सीतायाः स्थितिपरिज्ञानेन भवतः सत्तालाभात् इदानीं कौसल्या सुपुत्रवत्यभूदिति भावः ॥ ५।६४।२९,३० ॥
अधिष्ठाता कार्यकरणोद्योगवान् ॥ ५।६४।३१३३ ॥
आयताञ्चितलांगूल इति स्वभावोक्त्यलङ्कारः ॥ ५।६४।३४३६ ॥
नियतां पातिव्रत्यव्रतसम्पन्नाम् ॥ ५।६४।३७३९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुष्षष्टितमः सर्गः ॥ ५।६४ ॥