॥ १३ ॥
नैवेति । निसृष्टपूर्वं सर्वेषां यथेच्छभोगाय पूर्वं त्यक्तं न भवति ॥ ५।६३।४ ॥
अचिन्तयित्वा इमानविगणय्य भक्षयन्ति पिबन्ति फलानि भक्षयन्ति मधु पिबन्तीत्यर्थः ॥ ५।६३।५,६ ॥
इमे मद्भृत्याः ॥ ५।६३।७१० ॥
अपृच्छदिति । सहैव वसतो लक्ष्मणस्य “कञ्चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्” इति प्रश्नकरणात् दधिमुखेन वनभङ्गादिकं स्वजात्युचितभाषयोक्तमित्यवगन्तव्यम् । उपांशूक्तमिति वा द्रष्टव्यम् ॥ ५।६३।१११६ ॥
उपयुक्तं भुक्तम् ॥ ५।६३।१७ ॥
वनमिति । अभिपन्नाः प्राप्ताः ॥ ५।६३।१८२५ ॥
श्रुत्वेति अत्र द्वितीयसुग्रीवशब्दः शोभनग्रीवपरः ॥ ५।६३।२६,२७ ॥
इच्छामीति । सीताधिगमप्रयत्नं सीताधिगमे कृतप्रयत्नं च श्रोतुमिच्छामीति सम्बन्धः ॥ ५।६३।२८ ॥
अथ रामप्रत्युपकारार्थी सुग्रीवः स्वोद्योगसाफल्यदर्शनाद्भृशं ननन्देत्याह प्रीतीति । प्रीतिस्फीताक्षौ प्रीत्या सन्तोषेण विकसितनेत्रौ । सम्प्रहृष्टौ पुलकितगात्रौ । संहृष्टैः पुलकितैः अङ्गैरुपलक्षितः । कर्मसिद्धिं कार्यसिद्धिम् । बाह्वोरासन्नां हस्तप्राप्ताम् । विदित्वा निश्चित्य ॥ ५।६३।२९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ५।६३ ॥