पुनरुक्तमेव विस्तरेणाह तानिति ॥ ५।६२।१ ॥
श्रुत्वेति । पिबन्त्विति प्रत्युवाचेति सम्बन्धः ॥ ५।६२।२४ ॥
जग्मुर्मधुवनमिति पुनर्वचनं प्रदेशभेदविवक्षयेति द्रष्टव्यम् ॥ ५।६२।५ ॥
ते प्रविष्टाः पटवः समर्थाः हरयः मैथिलीं दृष्ट्वा स्ववर्गस्थहनुमद्दर्शनेन सर्वे हृष्टवन्तः श्रुत्वा हनुमन्मुखेन अतिसर्गादङ्गदाभ्यनुज्ञानात् मधुवनं प्रविष्टाः वीर्यतः बलात्पालानाक्रम्य मधु पपुः रसवत्फलमाददुरिति योजना ॥ ५।६२।६,७ ॥
मधुवने सक्तान् मधुरक्षणार्थं लग्नान् ॥ ५।६२।८ ॥
मधूनि मधुपटलानि । निघ्नन्ति छिन्दन्ति ॥ ५।६२।९ ॥
अपविध्यन्ति क्षिपन्ति ॥ ५।६२।१० ॥
मधुमत्ताः अत एव उन्मत्तभूताः उन्मत्तसदृशा इत्यर्थः । हृष्टवत् हृष्टाः ॥ ५।६२।१२,१३ ॥
अद्य किञ्चिदवाच्यं कर्म कृत्वा हसन्ति । केचित् इतरत् ग्राम्यकर्म कुर्वन्ति । केचित् अन्यत्कर्म कृत्वा तद्वदन्ति । केचिदन्यत्कर्म बुद्ध्यन्ति मनसा सङ्कल्पयन्ति ॥ ५।६२।१४,१५ ॥
प्रकृष्टाः प्रहृता इत्यर्थः । देवमार्गम् अपानं दर्शिताः ॥ ५।६२।१६,१७ ॥
तान् स्वसम्बन्धिनः पालान् ॥ ५।६२।१८२६ ॥
आर्यकः सुग्रीवमातुलत्वात्पूज्यः ॥ ५।६२।२७३० ॥
भर्ता राजा ॥ ५।६२।३१३४ ॥
अमर्षप्रभवः अक्षमाजन्यः ॥ ५।६२।३५३७ ॥
समप्रतिष्ठां समास्पदां समतलाम् । जगतीं भुवम् ॥ ५।६२।३८४० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ५।६२ ॥